Enter your Email Address to subscribe to our newsletters



नवदिल्ली, 20 जुलाईमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मुः स्वकीयायाः त्रिराष्ट्रराजकीययात्रायाः प्रथमचरणे सोमवासरे मोल्दोवादेशस्य राजधानी चिशिनाउ नगरे राष्ट्रपतिना माया सैंडू इत्यनेन सह द्विपक्षीयां शिष्टमण्डलस्तरीयां च वार्ताम् अकरोत्। उभौ नेतारौ कृषिक्षेत्रे, स्वास्थ्ये, औषधनिर्माणे, नवीकरणीयऊर्जायाम्, डिजिटलसार्वजनिकाधारसंरचनायाम्, कृत्रिमबुद्धिमत्तायां, नवाचारे, लॉजिस्टिक्सक्षेत्रे, आधारभूतसंरचनायां च विविधेषु क्षेत्रेषु सहयोगवर्धने सहमतिं व्यक्तवन्तौ।
विदेशमन्त्रालयेन उक्तं यत् राष्ट्रपतिः मुर्मु रविवासरे चिशिनाउ नगरं प्राप्तवती। तया सह केन्द्रीयउपभोक्तृकार्यखाद्यसार्वजनिकवितरणराज्यमन्त्री निमुबेन जयंतीभाई बंभानिया, राज्यसभासदस्यः डा दिनेशशर्मा, लोकसभासदस्यः विजयबघेलश्च उपस्थिताः सन्ति। चिशिनाउ अन्तरराष्ट्रीयविमानस्थानके मोल्दोवादेशस्य उपप्रधानमन्त्री विदेशमन्त्री च मिहाई पोपशोई तस्याः स्वागतं कृतवान्।
अनन्तरं राष्ट्रपतिः मुर्मु मोल्दोवादेशस्य राष्ट्रपतिभवनं प्राप्तवती, यत्र मोल्दोवादेशस्य राष्ट्रपतिः माया सैंडू तस्याः औपचारिकस्वागतं कृतवती। तस्यै गार्ड ऑफ ऑनर सम्मानः प्रदत्तः। ततः परम् उभयोः नेतृयोः मध्ये एकान्तवार्ता शिष्टमण्डलस्तरीया चर्चा च अभवताम्, यस्यां द्विपक्षीयसम्बन्धानां सर्वेषां प्रमुखविषयाणां विषये व्यापकः भविष्याभिमुखः च विचारविमर्शः कृतः।
राष्ट्रपतिः मुर्मु उक्तवती यत् भारतीयराष्ट्रपतेः एषा प्रथमा राजकीयमोल्दोवायात्रा उभयदेशयोः द्विपक्षीयसम्बन्धेषु ऐतिहासिकमीलशिलारूपा अस्ति। एषा भारतमोल्दोवयोः वर्धमानमित्रतायाः परस्परविश्वासस्य च प्रतीका अस्ति। तया उक्तं यत् भौगोलिकदूरत्वस्यापि उभयदेशयोः मध्ये विगतत्रिंशद्वर्षेभ्यः सौहार्दपूर्णसम्बन्धाः सन्ति तथा शान्तिः, विकासः, अन्तरराष्ट्रीयसहयोगः इत्येतेषां समानमूल्यानां कारणेन एषा सहभागिता निरन्तरं दृढा अभवत्।
तया उक्तं यत् आर्थिकसहयोगः उभयदेशयोः सहभागितायाः महत्त्वपूर्णः आधारः अस्ति। व्यापारनिवेशयोः प्रोत्साहनम्, आपूर्तिशृङ्खलानां अधिकसुदृढीकरणम्, सम्पर्कविस्तारः, उभयदेशीयव्यापारिसमुदाययोः मध्ये सहयोगस्य प्रोत्साहनं च आवश्यकम् अस्ति।
राष्ट्रपतिः मुर्मु मोल्दोवादेशस्य व्यावसायिकजनानां कृते भारतीयप्राविधिकआर्थिकसहयोगकार्यक्रमस्य आईटीईसी अन्तर्गतं प्रशिक्षणस्थानानां संख्यां द्विगुणीकर्तुं घोषणाम् अकरोत्। तया उक्तं यत् अस्मिन् कृत्रिमबुद्धिमत्तासम्बद्धाः अन्याः उदितप्रौद्योगिकीसम्बद्धाः विशेषपाठ्यक्रमाश्च समाविष्टाः भविष्यन्ति। तया मोल्दोवादेशस्य राजनयिकान् भारतस्य विदेशसेवासंस्थाने कृत्रिमबुद्धिमत्ता साइबरकूटनीतिविषयकविशेषपाठ्यक्रमेषु सहभागितायै अपि आमन्त्रितवती।
------------
Hindusthan Samachar / Dheeraj Maithani