Enter your Email Address to subscribe to our newsletters

नवदेहली, २० जुलाईमासः (हि.स.)। नेटफ्लिक्स-इत्यस्य बहुप्रतीक्षितस्य ‘ऑपरेशन-सफेद-सागर’ इत्यस्य प्रभावात्मकं पूर्वावलोकनम् प्रकाशितम्। कतिपय-दिनपूर्वं प्रकाशितस्य सूचना-चित्रस्य अनन्तरम् अधुना पूर्वावलोकनेन अपि दर्शकेषु उत्सुकता वर्धिता। निर्देशकः ओनी-सेनः निर्मितां एतां धारावाहिकां १९९९ तमे वर्षे कार्गिल-युद्धस्य समये भारतीय-वायुसेनया सञ्चालितस्य ऐतिहासिकस्य ‘ऑपरेशन-सफेद-सागर’ इत्यस्य कथां चित्रपटे प्रस्तोष्यति। अस्य निर्माणं अभिजीत-सिंह-परमारः तथा कुशल-श्रीवास्तवः कृतवन्तौ।
प्रकाशिते पूर्वावलोकने भारतीय-वायुसेनायाः ‘गोल्डन-एरोज-स्क्वाड्रन’ इत्यस्य शौर्य-बलिदानयोः अलिखिता गाथा प्रदर्शिता। एषा धारावाहिका केवलं युद्ध-घटनाभिः न सीमिता, अपितु तेषां युद्ध-विमान-चालकानां धैर्यं समर्पणं च प्रकाशयति, ये प्रायः षोडश-सहस्र-पादोन्नतौ अतीव-कठिन-परिस्थितिषु स्वाभियानं सफलं कृतवन्तः। पूर्वावलोकने मनोरंजन-देशभक्ति-भावनापूर्ण-दृश्यानां प्रभावशाली समन्वयः दृश्यते।
अस्मिन् सिद्धार्थः, जिमी-शेरगिलः, दिया-मिर्जा, मिहिर-आहूजः, अभय-वर्मा, प्राजक्ता-कोली, अमृता-बागची, तारुक-रैना, अर्णव-भसीनः तथा आदिल-हुसैनः प्रमुख-भूमिकासु दृश्यन्ते। ‘ऑपरेशन-सफेद-सागर’ इत्यस्य प्रथम-प्रदर्शनम् ७ अगस्तमासे, २०२६ तमे वर्षे नेटफ्लिक्स-मञ्चे भविष्यति।
Hindusthan Samachar / Divya Ranjan