जलप्रलयस्स्याच्छुष्कं वा, प्रत्येकं नागरिकस्य सुरक्षा-सुविधा सुनिश्चेया : मुख्यमंत्री
-अनियमितवर्षा द्विगुणितपरिस्थितिः,शुष्कताजलप्रलयाभ्यां द्वाभ्यां निवर्तितुं मुख्यमंत्रिणा दत्तो व्यापको निर्देशः लखनऊ, 20 जुलाईमासः (हि. स.)।मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् जलप्ररयः भवतु अथवा अनावृष्टिः, प्रत्येकस्य नागरिकस्य सुरक्षा, क
मुख्यमंत्री योगी आदित्यनाथ


-अनियमितवर्षा द्विगुणितपरिस्थितिः,शुष्कताजलप्रलयाभ्यां द्वाभ्यां निवर्तितुं मुख्यमंत्रिणा दत्तो व्यापको निर्देशः

लखनऊ, 20 जुलाईमासः (हि. स.)।मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् जलप्ररयः भवतु अथवा अनावृष्टिः, प्रत्येकस्य नागरिकस्य सुरक्षा, कृषकाणां सस्यानां संरक्षणम्, सामान्यजनस्य च आजीविकायाः रक्षणं प्रदेशसर्वकारस्य सर्वोच्चप्राथमिकता अस्ति। तेन अधिकारिणः निर्देशिताः यत् राहत् एवं उद्धारकार्येषु पूर्णया संवेदनशीलतया, तत्परतया, समन्वयेन च कार्यं कुर्वन्तः प्रत्येकं प्रभावितव्यक्तिं प्रति समयबद्धसहायता प्राप्यताम्।

मुख्यमन्त्री सोमवासरे स्वकीयसर्वकारीयावासे प्रदेशे अनियमितवर्षायाः कारणेन उत्पन्नस्य द्विविधसंकटस्य, एकतः न्यूनवर्षायुक्तेषु क्षेत्रेषु अनावृष्ट्याशङ्का, अपरतः अतिवृष्टियुक्तेषु क्षेत्रेषु सम्भाव्यजलप्रलयस्य, विषये आयोजितायाः उच्चस्तरीयसमीक्षोपवेशनस्य अध्यक्षतां कुर्वन् आसीत्। सः उक्तवान् यत् वर्तमानपरिस्थितिषु प्रत्येकस्य जनपदस्य स्थितिः भिन्ना अस्ति, अतः राहत् एवं उद्धारकार्यस्य रणनीतिरपि स्थानीयावश्यकतानुरूपं निर्मीयताम्।

मुख्यमन्त्री उक्तवान् यत् येषु जनपदेषु सामान्यात् न्यूनवर्षा अभवत्, तेषु कृषिकार्यम् अवरुद्धं न भवेत्। नहराः, जलाशयाः, राजकीयनलकूपाः, अन्ये च उपलब्धसिञ्चनसंसाधनाः अधिकतमरूपेण उपयुज्यन्ताम्। वपनस्य सिञ्चनस्य च रियल टाइमप्रदत्तानां नियमितसमीक्षा क्रियताम् तथा कृषकेभ्यः समयबद्धसहायता प्रदीयताम्। यत्र वर्षाभावात् वपनं प्रभावितं भवितुम् आशङ्क्यते, तत्र कृषिविभागः सिञ्चनविभागश्च संयुक्तकार्ययोजनां निर्माय तत्कालराहत्सहायतां प्रदद्याताम्।

मुख्यमन्त्री उक्तवान् यत् न्यूनवर्षायुक्तेषु क्षेत्रेषु कृषकेभ्यः सर्वथा सहायता प्रदातव्या, अधिकवर्षायुक्तेषु जनपदेषु च बाढाराहत् एवं उद्धारकार्यस्य सज्जता पूर्णसतर्कतया सञ्चालनीया। राहतायुक्तकार्यालयस्य नियन्त्रणकक्षः चतुर्विंशतिघण्टानि सक्रियः भवेत् तथा प्रतिघण्टम् अद्यतनसूचना मुख्यमन्त्रीकार्यालयाय, पुलिसमहानिदेशककार्यालयाय, सम्बद्धराहत्संस्थाभ्यश्च प्रेष्यताम्। राज्यस्तरीयडैशबोर्डमध्ये प्रत्येकस्य जनपदस्य स्थितिः नियमितरूपेण अद्यतनीक्रियताम्।

मुख्यमन्त्री निर्देशितवान् यत् बाढाप्रभावितेषु संवेदनशीलेषु च जनपदेषु आगामित्रिदिनाभ्यन्तरे सर्वे राहत्शिविराः पूर्णतया सज्जाः क्रियन्ताम्। राहत्शिविरेषु ताजं पौष्टिकं च भोजनम्, शुद्धपेयजलम्, चिकित्सासुविधा, स्वच्छता, अन्याश्च आवश्यकव्यवस्थाः सुनिश्चिताः स्युः। बालकेभ्यः डेयरीमाध्यमेन दुग्धं प्रदीयताम्। महिलानां, बालकानां, वृद्धजनानां, दिव्याङ्गजनानां, गर्भवतीनां च आवश्यकताः विशेषरूपेण परिपालयन्ताम्। राहत्सामग्रीकिट् गुणवत्तायुक्ता पौष्टिका च भवेत्।

मुख्यमन्त्री उक्तवान् यत् यत्र आवश्यकता भवेत् तत्र सामान्यनौकाभिः सह बृहन्नौकानामपि व्यवस्था क्रियताम्। प्रशिक्षितानाम् “आपदामित्राणाम्” सेवाः व्यापकतया उपयुज्यन्ताम् तथा प्रत्येकः जिलाधिकारी स्वयमेव राहत् एवं उद्धारकार्यस्य नियमितनिरीक्षणं करोतु। एनडीआरएफ, एसडीआरएफ, पीएसी, पुलिस, राजस्व, सिञ्चन, स्वास्थ्य, पशुपालन, स्थानीयप्रशासनं च पूर्णसमन्वयेन कार्यं कुर्वन्तु। आकाशीयविद्युत्पातः, अतिवृष्टिः, जनहानिः इत्यादीनां विषये मौसमविभागात्, केन्द्रीयजलआयोगात्, नेपालदेशात् प्राप्तानां जलस्तरसम्बद्धसूचनानां सततविश्लेषणं कृत्वा समये आवश्यकनिर्णयाः स्वीक्रियन्ताम् तथा सम्भाव्यविपदः स्थितौ प्रभावितजनसंख्यां पूर्वमेव सूचयित्वा सुरक्षितस्थानानि प्रति प्रेष्यताम्।

मुख्यमन्त्री तटबन्धानां सुरक्षायां विशेषं बलं दत्त्वा निर्देशितवान् यत् तेषां चतुर्विंशतिघण्टानि निरीक्षणं नियमितगश्तं च क्रियताम्। सः उक्तवान् यत् प्राकृतिककारणैः सह अराजकतत्त्वैः अपि तटबन्धानां हानिः कर्तुं शक्यते, अतः संवेदनशीलेषु स्थलेषु विशेषसतर्कता पालनीया। यत्र कटानस्य अथवा रिसावस्य आशङ्का भवेत्, तत्र तत्कालं सुरक्षात्मककार्यवाही सुनिश्चिता क्रियताम्। राहत्सामग्री, नौकाः, मोटरबोटाः, अन्ये च आवश्यकसंसाधनसम्बद्धाः सर्वे निविदाप्रक्रियाः प्रशासनिकौपचारिकताश्च शीघ्रं सम्पाद्यन्ताम्, येन कस्यामपि आपत्कालीनस्थितौ राहत्कार्यं न बाध्येत।

मुख्यमन्त्री पशुधनस्य सुरक्षा सुनिश्चितां कर्तुं निर्देशान् दत्त्वा उक्तवान् यत् पशवः समये सुरक्षितस्थानानि प्रति नीयन्ताम् तथा ते जलपूर्णेषु क्षेत्रेषु न स्थाप्यन्ताम्। मौसमानुकूलसंक्रामकरोगनिवारणार्थं पशूनां समयबद्धटीकाकरणमपि सुनिश्चितं भवेत्।

उपवेशने निवेदितं यत् वर्तमाने प्रदेशस्य चतुर्षु जनपदेषु चतसृषु तहसीलेषु द्विचत्वारिंशत् ग्रामाः प्रभाविताः सन्ति, यत्र त्रिशतद्वात्रिंशदधिकाः जनाः प्रभाविताः अभवन्। वर्तमाने बलिया, गौतमबुद्धनगरः, लखीमपुरखीरी, मुजफ्फरनगरः च प्रभावितजनपदानि सन्ति। राहत् एवं उद्धारकार्याय १४१२ बाढाचौक्यः सक्रियाः सन्ति। ५४९ चिकित्सादलानि गठितानि, ५५ नौकामोटरबोटाः राहत्कार्येषु नियोजिताः, १०९६ बाढाशरणालयानि सञ्चालितानि च सन्ति। प्रभावितपरिवारेभ्यः नियमानुसारं सहायता प्रदीयते।

उपवेशने एतदपि निवेदितं यत् बाढादृष्ट्या संवेदनशीलेषु चतुश्चत्वारिंशत् जनपदेषु व्यापकपूर्वसज्जता सम्पन्ना अस्ति। १६९४ राहत्शरणालयानि चिह्नितानि सन्ति, येषु प्रायः ५.१४ लक्षजनानाम् आश्रयप्रदानस्य क्षमता अस्ति। सर्वेषु जनपदेषु नियन्त्रणकक्षाः सक्रियाः सन्ति तथा एनडीआरएफ, एसडीआरएफ, पीएसी इत्येतासां दलानि संवेदनशीलेषु क्षेत्रेषु पूर्वमेव नियुक्तानि सन्ति। पशुधनस्य सुरक्षार्थं ९१० पशुशरणालयानि स्थापितानि सन्ति तथा आवश्यकदलान्यपि नियुक्तानि सन्ति।

मुख्यमन्त्री निर्देशितवान् यत् बाढाप्रबन्धनं अधिकप्रभाविकर्तुं नदीनां चैनेलाइजेशनकार्यं निरन्तरं प्रचलतु, येन जलप्रवाहः सुचारुरूपेण प्रवर्तेत तथा कटानस्य जलभरावस्य च स्थितिः न्यूनतमा भवेत्। तेन एतदपि उक्तं यत् यदि अग्निदुर्घटनायां कस्यचित् निर्धनपरिवारस्य आवासः नष्टः भवति, तर्हि तस्मै प्राथमिकतया मुख्यमन्त्रीआवासयोजनायाः अन्तर्गतं तत्कालम् आवासः प्रदीयताम्। नगरीयक्षेत्रेषु मुक्तमुखानि मैनहोलानि तत्कालं पिधीयन्ताम् तथा जनसुरक्षासम्बद्धाः सर्वे सावधानतामूलकाः उपायाः सुनिश्चिताः क्रियन्ताम्।