Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 जुलाईमासः (हि.स.)।
भारतेन संरचनात्मकप्रतिस्पर्धासमर्थकसुधाराणां क्षेत्रे उल्लेखनीया प्रगतिः साधिता अस्ति। वैश्विकक्रमनिर्धारणे भारतेन पञ्चविंशतिस्थानानां उल्लेखनीयः उत्क्रमः कृतः, येन सः द्व्यशीतितमतः स्थानात् उन्नत्य सप्तपञ्चाशत्तमं स्थानं प्राप्तवान्।
वाणिज्यउद्योगमन्त्रालयेन गुरुवासरे प्रकाशिते विज्ञप्तिपत्रे उक्तं यत् एषा सूचना कम्पिटेरेफाउण्डेशनस्य ‘इण्डियाज् नेक्स्ट् ग्रोथ् फ्रण्टियर्’ इति प्रतिवेदनात् प्रकाशमागता। एतत् प्रतिवेदनं वर्षयोः २०१० तथा २०२३ मध्ये संरचनात्मकप्रतिस्पर्धासमर्थकसुधारेषु अभूतपूर्वां प्रगतिं प्रदर्शयति।
मन्त्रालयेन सूचितं यत् कम्पिटेरेफाउण्डेशनस्य ‘इण्डियाज् नेक्स्ट् ग्रोथ् फ्रण्टियर् : रिड्यूसिङ्ग् एण्टिकॉम्पिटिटिव् मार्केट् डिस्टॉर्शन्स् टु बिल्ड् ऑन् इण्डियाज् २०१०–२०२३ रिफॉर्म् प्रोग्रेस्’ इति प्रतिवेदनानुसारं भारतः वैश्विकक्रमनिर्धारणे द्व्यशीतितमस्थानात् उन्नत्य सप्तपञ्चाशत्तमं स्थानं प्राप्तवान्। एतत् वर्षयोः २०१० तथा २०२३ मध्ये संरचनात्मकप्रतिस्पर्धासमर्थकसुधारेषु अभवत् महतीं प्रगतिं सूचयति।
वाणिज्यमन्त्रालयस्य अनुसारम् एतत् प्रतिवेदनं ‘मार्केट् डिस्टॉर्शन्स् परफॉर्मेन्स् इण्डेक्स्’ इत्यस्य अन्तर्गतं भारतस्य प्रदर्शनस्य मूल्याङ्कनं करोति। अस्मिन् वर्षयोः २०१० तथा २०२३ मध्ये देशे सम्पन्नानां सुधाराणां दिशायाः विश्लेषणं कृतम् अस्ति। सहैव एषां सुधाराणां श्रेयः विपण्यां विद्यमानानां विकृतीनां न्यूनीकरणाय तथा प्रतिस्पर्धायाः सुदृढीकरणाय निरन्तरं कृतानां प्रयत्नानां प्रति दत्तम् अस्ति।
एतत् प्रतिवेदनं नूतनदिल्लीस्थितेन भारतीयविदेशव्यापारसंस्थानेन (आईआईएफटी) व्यापारनिवेशविधिकेन्द्रेण (सीटीआईएल) कम्पिटेरेफाउण्डेशनफॉरट्रेड्एण्ड्कॉम्पिटिशनपॉलिसी इत्यस्य सहयोगेन आयोजितायां “इण्डियाज् रिफॉर्म् ट्राजेक्टरी, मार्केट् डिस्टॉर्शन्स् एण्ड् द नेक्स्ट् फ्रण्टियर् फॉर् ग्रोथ् एण्ड् कम्पिटिटिवनेस्स्” इति विषयकायां चर्चायां प्रकाशितम्।
---------------
Hindusthan Samachar / Dheeraj Maithani