केंद्रीयभारवद्उद्योग एवं इस्पात मंत्री विद्युच्चालितद्विचक्रिकावाहनानां विनिर्मातृभिः सहाकरोदुपवेशनम्
नव दिल्ली/बेंगलुरुः, 04 जुलाईमासः (हि.स)। केन्द्रीयभारोद्योग एवं इस्पातमन्त्री एच डी कुमारस्वामी शनिवासरे विद्युत्द्विचक्रिकावाहननिर्मातृप्रमुखसमवायैः सह उपवेशनं कृतवान्। उपवेशने देशे स्वदेशीयविनिर्माणं सुदृढं कर्तुं विस्तृतचर्चा अभवत्। भारोद्योग
इलेक्ट्रिक टू-व्हीलर बनाने वाली कंपनियों के साथ बैठक करते एच. डी. कुमारस्वामी


इलेक्ट्रिक टू-व्हीलर बनाने वाली कंपनियों के साथ बैठक करते एच. डी. कुमारस्वामी


नव दिल्ली/बेंगलुरुः, 04 जुलाईमासः (हि.स)।

केन्द्रीयभारोद्योग एवं इस्पातमन्त्री एच डी कुमारस्वामी शनिवासरे विद्युत्द्विचक्रिकावाहननिर्मातृप्रमुखसमवायैः सह उपवेशनं कृतवान्। उपवेशने देशे स्वदेशीयविनिर्माणं सुदृढं कर्तुं विस्तृतचर्चा अभवत्।

भारोद्योग एवं इस्पातमन्त्रालयेन एक्स इति सामाजिकमाध्यमे प्रकाशितसन्देशे उक्तं यत् केन्द्रीयमन्त्री एच डी कुमारस्वामी विद्युत्द्विचक्रिकावाहननिर्मातृप्रमुखसमवायैः सह उपवेशनं कृत्वा देशे एव विनिर्माणं सुदृढीकर्तुं विस्तरेण चर्चां कृतवान्। चर्चायां देशे सुदृढस्य नवाचाराधारितस्य वैश्विकस्तरे प्रतिस्पर्धिनः विद्युत्वाहनपरिवेशस्य विकासे बलं प्रदत्तम्।

अधिकारिणः उक्तवन्तः यत् अस्य उपवेशनस्य समये वाहनविनिर्मातारः केन्द्रीयमन्त्रिणं स्वदेशीयविद्युत्वाहनमञ्चानां प्रौद्योगिकीनां च विकासे जातायाः प्रगतेः विषये सूचितवन्तः। आधिकारिकवक्तव्यानुसारं विनिर्मातारः स्वदेशीयाभियान्त्रिक्यां उत्पादविकासे घरेलुविनिर्माणक्षमतासु च स्वध्यानं केन्द्रीकर्तुं उक्तवन्तः। तैः भारतं विद्युत्द्विचक्रिकावाहनानां कृते प्रमुखवैश्विकविनिर्माणकेन्द्ररूपेण प्रतिष्ठापयितुं स्वदृष्टिकोणः प्रस्तुतः।

कुमारस्वामिना सह उपवेशने विनिर्मातारः पीएम ई ड्राइव योजनायाः विषये स्वमतं प्रस्तुतवन्तः तथा तस्याः विस्तारस्य आग्रहं कृतवन्तः। अस्मिन् उपवेशने एथर एनर्जी इत्यस्य सहसंस्थापकः मुख्यकार्यपालकाधिकारी च तरुणमेहता मैटर इत्यस्य संस्थापकः मुख्यकार्यपालकाधिकारी च मोहाललालभाई रिवर इत्यस्य सहसंस्थापकः मुख्यकार्यपालकाधिकारी च अरविन्दमणि यूलर मोटर्स इत्यस्य संस्थापकः मुख्यकार्यपालकाधिकारी च सौरवकुमारः रैप्टी एच वी इत्यस्य सहसंस्थापकः मुख्यकार्यपालकाधिकारी च दिनेशार्जुनः इत्यादयः अन्ये सहभागिनः सम्मिलिताः अभवन्।

---------------

Hindusthan Samachar / Dheeraj Maithani