वैभव-सूर्यवंशिना पदार्पणानन्तरं प्राप्तस्नेहाय कृतज्ञता व्यक्ता, देशस्य प्रतिनिधित्वं गौरवस्य विषयः इति उक्तम्
नवदेहली, ०५ जुलाईमासः (हि.स.)। इङ्ग्लैण्डदेशस्य विरुद्धं द्वितीयायां टी-२०-क्रीडास्पर्धायां भारतस्य कृते न्यूनतमवयसि अन्ताराष्ट्रिय-क्रिकेट-क्रीडायां पदार्पणं कृतवान् पञ्चदशवर्षीयः वैभव-सूर्यवंशी प्रथमस्पर्धानन्तरं प्राप्ताय स्नेह-समर्थनाय सर्वेभ्य
वैभव सूर्यवंशी (फोटो-वैभव सूर्यवंशी इंस्टाग्राम अकाउंट)


नवदेहली, ०५ जुलाईमासः (हि.स.)। इङ्ग्लैण्डदेशस्य विरुद्धं द्वितीयायां टी-२०-क्रीडास्पर्धायां भारतस्य कृते न्यूनतमवयसि अन्ताराष्ट्रिय-क्रिकेट-क्रीडायां पदार्पणं कृतवान् पञ्चदशवर्षीयः वैभव-सूर्यवंशी प्रथमस्पर्धानन्तरं प्राप्ताय स्नेह-समर्थनाय सर्वेभ्यः शुभेच्छुकेभ्यः कृतज्ञतां व्यक्तवान्। तेन उक्तं यत् देशस्य प्रतिनिधित्वं तस्य कृते महत: गौरवस्य विषयः अस्ति तथा सः प्रत्येकं स्पर्धायां दलस्य कृते स्वस्य सर्वोत्तमं प्रदर्शनं कर्तुं प्रयतिष्यते।

सूर्यवंशिना पदार्पण-स्पर्धायाः अनन्तरं सामाजिक-माध्यमेषु सन्देशः सहभाग: कृतः। इन्स्टाग्राम्-स्टोरी इत्यत्र युवा-क्रीडकः अलिखत्— “बहून् सन्देशान् प्राप्य अहम् अत्यन्तम् अभिभूतः अस्मि। मम सर्वेभ्यः शुभेच्छुकेभ्यः वरिष्ठेभ्यश्च निरन्तर-स्नेह-सहयोगयोः कृते धन्यवादः। स्वदेशस्य प्रतिनिधित्वस्य अवसरं प्राप्य अहं वास्तवमेव कृतज्ञः अस्मि तथा स्वदलस्य कृते सदा स्वस्य सर्वोत्तमं योगदानं दातुं प्रयतिष्ये। सर्वेभ्यः सर्वस्य कृते धन्यवादः।”

सूर्यवंशी पञ्चदशवर्षाणि नवनवतिदिनानि च वयसि भारतीयदलस्य कृते न्यूनतमवयसि अन्ताराष्ट्रिय-पदार्पणं कृतवान् क्रीडकः अभवत्। अनेन महान् क्रीडकस्य सचिन-तेन्दुलकरस्य वर्षाणां पुरातनः अभिलेखः भङ्गः। सचिन-तेन्दुलकरेण १९८९ तमे वर्षे पाकिस्तानदेशस्य विरुद्धं षोडशवर्षाणि द्विशतपञ्चदिनानि च वयसि अन्ताराष्ट्रिय-क्रिकेट-क्रीडायां पदार्पणं कृतम्।

यदि स्पर्धायाः विषये कथ्यते, तर्हि इङ्ग्लैण्डदेशस्य मैनचेस्टर-नगरे सम्पन्नायां द्वितीयायां टी-२०-क्रीडास्पर्धायां भारतदलम् आदौ प्रहरणं कृत्वा सप्त-विकेट्-हानौ १९० धावनाङ्कान् अर्जितवान्। पदार्पण-स्पर्धायां वैभव-सूर्यवंशिना दश-कन्दुकेषु द्वाभ्यां षट्काभ्यां सह १४ धावनाङ्काः अर्जिताः। अपरतः ईशान-किशनेन ४० कन्दुकेषु ४९, अभिषेक-शर्मणा २४ कन्दुकेषु ४३, श्रेयस-अय्यरेण २२ कन्दुकेषु ३७ तथा तिलक-वर्मणा ११ कन्दुकेषु अपराजिताः २४ धावनाङ्काः अर्जिताः।

१९१ धावनाङ्कानां लक्ष्यस्य अनुधावने प्रवृत्तस्य इङ्ग्लैण्डदलस्य आरम्भः अत्यन्तं निराशाजनकः आसीत्। फिल्-साल्टः तथा जोस-बटलरः धावनाङ्कं विना एव बहिर्गतौ। ततः अनन्तरं दलनायकः हैरी-ब्रूकः १५ कन्दुकेषु ३९ धावनाङ्कान् अर्जयित्वा पर्यायम् असम्भालत्। पश्चात् टॉम्-बैन्टन् ३२ कन्दुकेषु ३९ धावनाङ्कान् तथा जैकब्-बेथेलः ४६ कन्दुकेषु अपराजितान् ७६ धावनाङ्कान् अर्जयित्वा इङ्ग्लैण्डदलस्य विजयम् सुनिश्चितवन्तौ। इङ्ग्लैण्डदलम् १९ ओवर-इत्येतेषु स्पर्धां विजितवान्।

अनेन जयेन इङ्ग्लैण्डदलम् पञ्च-क्रीडास्पर्धात्मक्यां टी-२०-श्रृङ्खलायां १–० इति अग्रतां प्राप्तवान्। श्रृङ्खलायाः प्रथमस्पर्धा वर्षायाः कारणात् निरस्ता आसीत्।

Hindusthan Samachar / Divya Ranjan