Enter your Email Address to subscribe to our newsletters

दुबई, ०५ जुलाईमासः (हि.स.)। आईसीसी-महिला-टी२०-विश्वकप-२०२६-क्रीडास्पर्धायां उत्कृष्टप्रदर्शनं कृतवत्यः ऑस्ट्रेलियादेशस्य तारका-सर्वाङ्गीण-क्रीडिका एलिस पेरी, इङ्ग्लैण्डदेशस्य उद्घाटक-फलन्दाजिका डैनी व्याट्-हॉज:, भारतस्य उद्घाटक-फलन्दाजिका स्मृतिमन्धाना तथा दक्षिण-आफ्रिकादेशस्य मारिजान कैप इत्येताः प्रतियोगितायाः श्रेष्ठ-क्रीडक-पुरस्काराय नामाङ्किताः सन्ति।
स्वस्वदलस्य कृते एतासां चतसृणां क्रीडिकाणां प्रदर्शनं सम्पूर्णस्पर्धायां प्रशंसनीयम् आसीत्। एलिस पेरी तथा डैनी व्याट्-हॉज इत्युभाभ्यां स्वदलस्य अन्तिमस्पर्धापर्यन्तं गमनाय महत्त्वपूर्णं योगदानं प्रदत्तम्। स्मृतिमन्धनायाः उत्कृष्टप्रदर्शनस्यापि भारतदलम् समूहचरणात् परं गन्तुं नाशक्नोत्। अपरतः मारिजान कैप दक्षिण-आफ्रिकादलस्य उपान्त्यचरणप्रवेशे महत्त्वपूर्णां भूमिकाम् अवहत्।
एलिस पेरी (ऑस्ट्रेलिया)१८५ धावनाङ्काः (प्रतिशतं ४६.२५)४ विकेट्
ऑस्ट्रेलियादलस्य अपराजिताभियाने एलिसपेरी सर्वाधिकविश्वसनीयासु क्रीडिकासु अन्यतमा आसीत्। तया ४६.२५ इति प्रतिशतेन १८५ धावनाङ्काः अर्जिताः, चत्वारि विकेट् अपि लब्धानि। स्पर्धाकाले सा त्रिवारं स्पर्धायाः श्रेष्ठ-क्रीडिका इति सम्मानं प्राप्तवती। बाङ्ग्लादेशविरुद्धस्पर्धायां सा द्वौ विकेट-इत्येतौ गृहीत्वा नाबाद-१९ धावनाङ्कान् अपि अर्जितवती।
डैनी व्याट्-हॉज (इङ्ग्लैण्ड)२९४ धावनाङ्काः (प्रतिशतं ७३.५०)प्रहारगति: १५२.३३
इङ्ग्लैण्डदलस्य उद्घाटक-फलन्दाजिका डैनी व्याट्-हॉज: अन्तिमस्पर्धातः पूर्वं स्पर्धायाः सर्वाधिकधावनाङ्कार्जिका वर्तते। तया ७३.५० इति प्रतिशतेन २९४ धावनाङ्काः अर्जिताः। श्रीलङ्काविरुद्धे शतकं, ततः परं द्वे अर्धशतके च कृत्वा तया इङ्ग्लैण्डदलस्य अन्तिमस्पर्धाप्रवेशः सुकरः कृतः।
स्मृति मन्धाना (भारतम्)२०५ धावनाङ्काः (प्रतिशतं ४१.००)
भारतदलस्य उद्घाटक-फलन्दाजिका स्मृतिमन्धना स्पर्धायाः आरम्भे एव प्रभावशालिनं प्रदर्शनम् अकरोत्। पाकिस्तान-नीदरलैण्ड्-दलयोः विरुद्धं क्रमशः द्वे अर्धशतके कृत्वा तया भारताय विजयः प्राप्तः। ऑस्ट्रेलियाविरुद्धे अन्तिमसमूहस्पर्धायां तया महत्त्वपूर्णाः ३८ धावनाङ्काः अर्जिताः, किन्तु तद् भारतस्य उपान्त्यचरणप्रवेशाय पर्याप्तं नाभवत्।
मारिजान कैप (दक्षिण-आफ्रिका)१२४ धावनाङ्काः (प्रतिशतं ३१.००)८ विकेट् (प्रतिशतं १४.३७)
मारिजान कैप १२४ धावनाङ्कान् अर्जयित्वा अष्ट विकेट् अपि प्राप्तवती। उपान्त्यस्पर्धायां तया ८१ धावनाङ्कानां विजयनिर्णायकपर्याय: क्रीडिता, यस्य फलस्वरूपं सा स्पर्धायाः श्रेष्ठ-क्रीडिका इति पुरस्कारेण सम्मानिता।
Hindusthan Samachar / Divya Ranjan