Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, ०९ जुलाईमासः (हि.स.)। प्राइम-वीडियो इत्यनेन स्वस्य नवीनायाः मौलिक-हास्य-नाट्यधारावाहिकायाः 'आदर्श बाल विद्यालय:' इत्यस्य विश्वव्यापि-प्रथमप्रसारणस्य घोषणा कृता। सप्त-खण्डयुक्ता एषा धारावाहिका २४ जुलाईमासे भारतेन सह विश्वस्य २४० देशेषु प्रदेशेषु च हिन्दीभाषायां आङ्ग्ल-उपशीर्षकैः सह प्रसारयिष्यते।
हिमाङ्कगौरस्य निर्देशनाधीना एषा धारावाहिका पोशम पा चलचित्र-निर्माणसंस्थाया: अधीने बिस्वपति-सर्वकारेण तथा समीरसक्सेनया निर्मिता। अस्यां धारावाहिकायां के. के. मेननः मुख्यभूमिकायां दृश्यते। तेन सह अर्चना-पूरनसिंह:, नवीनकस्तूरिया, देवेनभोजानी, अभिमन्युसिंहः, प्राचीशाह: तथा अन्ये कलाकाराः अपि महत्त्वपूर्णानि पात्राणि निर्वहन्ति।
अस्याः धारावाहिकायाः कथा दुर्दशाग्रस्तस्य राजकीयविद्यालयस्य तथा तस्य निश्चिन्तस्य किन्तु संघर्षशीलस्य प्रधानाध्यापकस्य ज्ञानेश्वरत्रिपाठिनं परितः प्रवर्तते। कैम्ब्रिज-नगरे आयोजिते शासकीयप्रशिक्षणकार्यक्रमे सहभागितायाः अभिलाषा तं विद्यालयस्य स्वरूप-परिवर्तनस्य अभियानं प्रति प्रेरयति। सीमितसंसाधनानाम्, दूष्टतापूर्णानां छात्राणाम्, पालकानाम् उदासीनतायाः तथा प्रशासनिकसमस्याया: मध्ये एषा कथा हास्येन भावनाभिश्च शिक्षा-व्यवस्थायाः यथार्थं प्रकाशयति।
प्राइम-वीडियो-इण्डिया इत्यस्य ओरिजिनल्स-विभागस्य प्रमुखः निखिलमधोकः अवदत् यत् 'आदर्श बाल विद्यालय:' इति धारावाहिका मनोरञ्जनेन सह शिक्षाव्यवस्थायाः आव्हानानि सरल-हास्यपूर्णरीत्या प्रस्तौति। बिस्वपतिसर्वकारः तथा समीरसक्सेना अपि अवदताम् यत् एषा धारावाहिका तेषां शिक्षकाणां छात्राणां च कथा अस्ति, ये अनेकासु कठिनासु परिस्थितिष्वपि आशां न परित्यजन्ति। तयोः मते के. के. मेननः स्वस्य प्रभावशालिनः अभिनयस्य माध्यमेन प्रधानाध्यापकस्य पात्रं सजीवं कृतवान्।
Hindusthan Samachar / Divya Ranjan