Enter your Email Address to subscribe to our newsletters

मुम्बईनगरम्, ०९ जुलाईमासः (हि.स.)। अभिनेत्री हेमामालिनी स्वपतिं वरिष्ठमभिनेतारं धर्मेन्द्रम् अनुस्मृत्य भावुका अभवत्। चलचित्रोद्योगे स्वस्य षष्टिवर्षीययात्रायाः पूर्णतायाः पूर्वं प्रदत्ते साक्षात्कारे तया धर्मेन्द्रस्य संघर्षः, सफलता तथा परिवारं प्रति तस्य समर्पणभावः स्मारितः।
हेमामालिनी अवदत् यत् पञ्जाबप्रदेशस्य एकस्मात् लघुग्रामात् निर्गत्य धर्मेन्द्रः स्वपरिश्रमेण देशस्य सर्वाधिकलोकप्रियेषु चलचित्रनटेषु स्थानं प्राप्तवान् तथा अद्यापि कोटिशः जनानां हृदयेषु वसति।
पद्मभूषणसम्मानसमारोहस्य उल्लेखं कुर्वती हेमामालिनी अवदत् यत् सः क्षणः तस्याः कृते अत्यन्तं भावुकः आसीत्। सा कथितवती यत् यदा सा मञ्चं प्रति सम्मानग्रहणार्थं गच्छन्ती आसीत्, तदा तस्यै एवं अनुभूतम् यथा धर्मेन्द्रः तस्याः पृष्ठतः तिष्ठन् तां प्रोत्साहयन् अग्रे गन्तुं धैर्यं ददाति स्म। तया उक्तं यत् धर्मेन्द्रः परिवारस्य ऐक्यं सदा महत्त्वपूर्णं मन्यते स्म तथा स्वेषां सर्वेषां पुत्राणां, पौत्र-पौत्रीणां दौहित्र-दौहित्रीणां च प्रति सम्मानं स्नेहं धारयति स्म।
धर्मेन्द्रं प्रति स्वप्रेम प्रकटयन्ती हेमामालिनी अवदत् यत् धर्मेन्द्रः स्वजीवने तत्सर्वम् अवाप्तवान् यत् प्रत्येकं कलाकारः स्वप्ने पश्यति। सा अवदत् यत् पञ्जाबस्य सामान्यपरिवारात् उद्भूय धर्मेन्द्रः देशे विदेशे च स्वस्य विशिष्टं परिचयं निर्मितवान्। भावुकतया सा पुनरवदत् यत् सम्पूर्णः देशः तं स्नेहमकरोत्, एतच्च तस्याः गौरवस्य विषयः अस्ति यत् धर्मेन्द्रः तां स्वजीवनसङ्गिनी रूपेण अवृणोत्।
Hindusthan Samachar / Divya Ranjan