Enter your Email Address to subscribe to our newsletters

नवदेहली, ०९ जुलाईमासः (हि.स.)। इङ्ग्लैण्डदलस्य महिला-क्रिकेट-दलस्य अनुभवी उद्घाटन-फलन्दाजिका टैमी ब्यूमोंट् अन्ताराष्ट्रिय-क्रिकेटतः संन्यासं ग्रहीतुं घोषणाम् अकरोत्। पञ्चत्रिंशद्वर्षीया ब्यूमोंट् भारतविरुद्धं शुक्रवासरात् लॉर्ड्स-क्रिकेट-प्रांगणे प्रारभ्यमाणायाः एकमात्र-परीक्षण-क्रीडास्पर्धायाः अनन्तरं स्वस्य सप्तदशवर्षीयम् अन्ताराष्ट्रिय-क्रीडाजीवनं समापयिष्यति। लॉर्ड्स-क्रिकेट-प्रांगणे आयोज्यमाना एषा प्रथमा महिला-परीक्षण-क्रीडास्पर्धा तस्याः क्रीडाजीवनस्य विदाय-स्पर्धापि भविष्यति।
२००९ तमे वर्षे इङ्ग्लैण्डदेशस्य कृते पदार्पणं कृतवती ब्यूमोंट् स्वस्य क्रीडाजीवने २६० अन्ताराष्ट्रिय-क्रीडास्पर्धासु सहभागिनी अभवत्। सा इङ्ग्लैण्डदेशस्य पक्षतः एकदिवसीय-क्रिकेटक्रीडायां सर्वाधिकं द्वादश शतकं कृतवती महिला-फलन्दाजिका अस्ति। सा इङ्ग्लैण्डदेशस्य ताभ्यां महिला-क्रीडकाभ्यां अन्यतमा अस्ति, याभ्यां क्रिकेटक्रीडाया: त्रिषु प्रारूपेषु अन्ताराष्ट्रिय-शतकं अभिलेखितम्। अपि च २०२३ तमे वर्षे ऑस्ट्रेलियाविरुद्धं ट्रेण्ट्-ब्रिज्-प्रांगणे २०८ धावनाङ्कानां पर्यायं कृत्वा सा महिला-परीक्षण-क्रिकेट-क्रीडायाम् इङ्ग्लैण्डदेशस्य प्रथमा द्विशतक-कर्त्री अभवत्।
संन्यासस्य घोषणां कुर्वती टैमी ब्यूमोंट् इङ्ग्लैण्ड-क्रिकेट-मण्डलस्य उद्धरणेन अवदत्, “प्रायः सप्तदशवर्षपर्यन्तम् इङ्ग्लैण्डदेशस्य प्रतिनिधित्वं कर्तुं मम जीवनस्य महत्तमं सम्मानम् आसीत्। यदा अहं बालिका आसम् तदा क्रिकेट-क्रीडायां मम अनुरागः अभवत्, किन्तु इङ्ग्लैण्डदेशस्य कृते क्रीडनम् अपि सम्भवम् इति न ज्ञातवती। अधुना विशेषतः अस्मिन् ग्रीष्मकाले बह्व्यः बालिकाः बालकाः च क्रिकेट-क्रीडया प्रेरिताः अभवन्, अस्माकं देशे च अस्याः क्रीडायाः महान् विकासः जातः इति दृष्ट्वा महती प्रसन्नता भवति।”
सा पुनरवदत्, “वयं सर्वदा इच्छाम यत् इङ्ग्लैण्डस्य क्रीडाटोपिकां सम्मानपूर्वकम् अग्रिम-वंशाय समर्पयेम। अधुना एषा उत्तरदायित्व-समर्पणस्य वेला आगता अस्ति।”
लॉर्ड्स-परीक्षण-क्रीडास्पर्धायाः विषये सा अवदत्, “लॉर्ड्स-प्रांगणे आयोज्यमाना एषा महिला-प्रथम-परीक्षण-क्रीडास्पर्धा मम क्रीडाजीवनस्य समापनाय सर्वथा उपयुक्तः अवसरः अस्ति। मया कदापि न चिन्तितं यत् मम क्रीडाजीवनम् एवं संस्मरणीयं विशिष्टं च भविष्यति।”
ब्यूमोंट् महिला-क्रिकेटक्रीडाया: व्यावसायिक-अनुबन्धं प्राप्तवतीषु आरम्भिक-क्रीडकासु अन्यतमा आसीत्। २०१५ तमे वर्षे तया प्रथमः केन्द्रीय-अनुबन्धः प्राप्तः। ततः द्विवर्षानन्तरं २०१७ तमे वर्षे आयोजितायां महिला-एकदिवसीय-विश्वकपस्पर्धायां सा ४१० धावनाङ्कान् अर्जयित्वा स्पर्धायाः श्रेष्ठ-क्रीडकायाः पुरस्कारम् अलभत तथा च स्वदेशे एव इङ्ग्लैण्ड-दलस्य विश्वविजयस्य सिद्धौ महत्त्वपूर्णं योगदानम् अददात्।
गृह-क्रिकेटक्रीडायां सहभागिता निरन्तरं भविष्यति
टैमी ब्यूमोंट् स्पष्टतया अवदत् यत् सा केवलम् अन्ताराष्ट्रिय-क्रिकेटतः एव संन्यासं गृह्णाति, गृह-क्रिकेटक्रीडायां तु स्वस्य सहभागितां निरन्तरं धारयिष्यति। सा सम्प्रति द ब्लेज़ तथा बर्मिंघम् फीनिक्स् दलयोः पक्षतः द हण्ड्रेड् सहितासु अन्यासु गृह-प्रतियोगितासु अपि क्रीडिष्यति।
Hindusthan Samachar / Divya Ranjan