Enter your Email Address to subscribe to our newsletters

- 108सोपानानि आरुह्य उत्तीर्णाः श्रद्धालवः, चंबलस्य बीहड़ेषु शताब्दीभ्यो निरंतरं वर्तते शिवभक्तानाम् आस्था
औरैया, 10 अगस्तमासः (हि.स.)।
उत्तरप्रदेशस्य औरैयाम् इटावाजनपदयोः यमुनायाः चम्बलनद्याश्च कलकलनादयुक्तयोः धारयोः सङ्गमस्य मध्ये चम्बलस्य बीहडप्रदेशे स्थितं भारेश्वरमहादेवमन्दिरं धार्मिकश्रद्धया सह इतिहासस्य अमूल्यां विरासतामपि संरक्षति। मन्दिरस्य घण्टानां निनादः, प्राचीनं स्थापत्यं तथा च समीपे विकीर्णाः दुर्गस्य अवशेषाः अतीतस्य गौरवगाथां कथयन्ति। जनश्रुत्यनुसारं महाभारतकाले अज्ञातवाससमये पाण्डवेषु भीमेन अत्र शिवलिङ्गस्य स्थापना कृता आसीत्। अत एव बहुसंख्याकानां श्रद्धालूनां कृते इदम् स्थानम् अद्यापि विशेषश्रद्धायाः केन्द्रम् अस्ति।
भूमेः प्रायः ४४४ पादमितोच्चतायां स्थितं भारेश्वरमहादेवमन्दिरं प्राप्तुं श्रद्धालुभिः १०८ सोपानानि आरोहणीयानि भवन्ति। मन्दिरस्य प्राचीननिर्माणशैली, उन्नतं शिखरं तथा पञ्चायतनशैल्याः स्थूलभित्तयः अस्य स्थापत्यकलायाः भव्यतां दर्शयन्ति। मन्दिरसम्बद्धाः स्थानीयस्तरे बह्व्यः जनश्रुतयः प्रचलिताः सन्ति, याः तम् अन्येभ्यः धार्मिकस्थलेभ्यः विशिष्टां परिचितिं प्रददति।
डाकूनां कालेऽपि न भग्ना श्रद्धा
चम्बलघाटी कदाचित् डाकूनाम् आतङ्केन प्रसिद्धा आसीत्। बीहडप्रदेशेषु विधेः भयम् अल्पं तथा विद्रोहिणां प्रभावः अधिकः भवति स्म। तथापि भारेश्वरमहादेवस्य दर्शनस्य पूजार्चनायाश्च क्रमः कदापि न अवरुद्धः। कठिनपरिस्थितिष्वपि शिवभक्ताः मन्दिरं प्राप्नुवन्तः आसन्। स्थानीयजनानां कथनानुसारं एकः कालः तादृशोऽपि आसीत् यदा चम्बलस्य डाकवः स्वयमेव मन्दिरम् आगत्य भगवान् शिवस्य पूजार्चनां कुर्वन्ति स्म। पश्चात् विंशतितमे शताब्दे डाकूनां प्रभावस्य अन्तः अभवत्, किन्तु मन्दिरस्य धार्मिकमहत्त्वं निरन्तरं वर्धितम्।
नाविकस्य प्रार्थना मन्दिरस्य च जीर्णोद्धारः
मुगलकालीनसमये यदा नदीनां मार्गेण व्यापारः प्रमुखं साधनम् आसीत्, तदा भरेह उत्तरभारतस्य प्रमुखेषु व्यापारिककेन्द्रेषु अन्तर्भूतम् आसीत्। तस्मिन् काले प्रचलितायाः एकस्याः जनश्रुतेः अनुसारं राजस्थानस्य वणिक् मदनलालस्य नौका कदाचित् यमुनायाः भ्रामर्यां फसिता। नौकायाः निमज्जनस्य आशङ्कायां वणिजा भारेश्वरमहादेवस्य प्रार्थना कृता। किञ्चित्कालानन्तरं नौका सुरक्षितरूपेण तटे प्राप्तवती। ततः सः भगवान् शिवं प्रति कृतज्ञतां प्रकटयन् मन्दिरस्य जीर्णोद्धारं कारितवान्।
विदुषां सन्तानां च साधनास्थली
वरिष्ठः पत्रकारः हरेंद्रराठौरः कथयति यत् जनश्रुत्यनुसारं विद्वान् नीलकण्ठः कर्मकाण्डदण्डसम्बद्धानां द्वादशमयूखग्रन्थानाम् आयुर्वेदग्रन्थानां च रचनाम् अस्मिन् मन्दिरे निवसन् अकरोत्। वाराणस्याः विद्वान् नीलकण्ठभट्टः ‘भगवन्तभास्कर’ इति ग्रन्थेऽपि भारेश्वरमहादेवस्य महिमानं वर्णितवान्।
मन्दिरस्य सम्बन्धः सन्तपरम्परया सहापि सम्बद्धः आसीत्। जनश्रुत्यनुसारं गोस्वामितुलसीदासः अत्र किञ्चित्कालं प्रवासम् अकरोत्। परमहंसगुंधारीलालः भारेश्वरमहाराजस्य तपस्यां कृत्वा ग्रामबडेरां स्वकर्मक्षेत्ररूपेण स्वीकृतवान्। तथैव परमहंसपुरुषोत्तमदासमहाराजः अन्नं जलं च त्यक्त्वा भगवान् भोलेनाथस्य तपस्याम् अकरोत्।
स्वतन्त्रतासङ्ग्रामेनापि सम्बद्धाः मन्दिरस्य स्मृतयः
भारेश्वरमन्दिरस्य सम्बन्धः स्वतन्त्रतासङ्ग्रामेनापि निकटतया सम्बद्धः आसीत् इति कथ्यते। स्थानीयपत्रकारः धर्मेन्द्रसेंगरः कथयति यत् भरेहस्य राजा रूपसिंहः आङ्ग्लशासनस्य विरुद्धम् अस्मिन्नेव क्षेत्रे सेनाप्रशिक्षणस्य व्यवस्थां कृतवान् आसीत्। एका लोकश्रुतिः एतदपि कथयति यत् यदा आङ्ग्लाः मन्दिरं परिवेष्टितवन्तः, तदा मन्दिरात् निर्गतानां ‘बराणां’ कारणेन ते पश्चादपसर्तुं विवशाः अभवन्। एतेषां घटनानां ऐतिहासिकप्रमाणनम् अन्यः विषयः अस्ति, किन्तु स्थानीयजनमानसे तासां स्मृतयः अद्यापि जीवन्त्यः सन्ति।
श्रावणस्य द्वितीयसोमवासरे उमडिता श्रद्धायाः धारा
श्रावणस्य द्वितीयसोमवासरे भारेश्वरमहादेवमन्दिरे श्रद्धालूनां महान् समुदायः समागतः। प्रातःकालादेव यमुनाचम्बलयोः सङ्गमक्षेत्रे ‘हर हर महादेव’ तथा ‘बम बम भोले’ इति जयघोषाः प्रतिध्वनिताः। समीपस्थेभ्यः ग्रामेभ्यः सह दूरस्थप्रदेशेभ्यः अपि बहुसंख्याकाः श्रद्धालवः भगवान् शिवस्य दर्शनाय जलाभिषेकाय च समागताः। १०८ सोपानानि आरुह्य श्रद्धालुभिः भारेश्वरमहादेवस्य पूजनं कृतं तथा च परिवारस्य सुखसमृद्ध्यर्थं प्रार्थना कृता। मन्दिरे धार्मिकानुष्ठानानां समये ग्रामवासिभिः सह प्रशासनस्यापि सहभागिता भवति।
यमुनाचम्बलयोः सङ्गमे स्थितं भारेश्वरमहादेवमन्दिरम् अद्य केवलं पूजार्चनास्थलं न, अपि तु पौराणिकश्रद्धायाः, सन्तपरम्परायाः, प्राचीनस्थापत्यस्य तथा चम्बलस्य ऐतिहासिकविरासतायाश्च जीवन्तं प्रतीकम् अस्ति। बीहडप्रदेशस्य निस्तब्धतायाः मध्ये शताब्देभ्यः प्रज्वलितः श्रद्धायाः अयं दीपः अद्यापि श्रद्धालून् स्वस्य प्रति आकर्षयति।
---------------
Hindusthan Samachar / Dheeraj Maithani