लोकसभायां चियांकी-विमानपत्तनस्य विषयः उत्थापितः, नियमितविमानसेवाप्रारम्भस्य याचना
पलामू, ११ अगस्तमासः (हि.स.)। पलामू-प्रमण्डलीयमुख्यालये मेदिनीनगरे स्थितस्य चियांकी-विमानपत्तनस्य विकासस्य तस्मात् शीघ्रं नियमित-वाणिज्यिकविमानसेवायाः प्रारम्भस्य च विषयः मङ्गलवासरे लोकसभायाम् उत्थापितः। पलामूसांसदः विष्णुदयाल-रामः सदने विषयम् उत्था
सांसद वीडी राम की फाइल फोटो


पलामू, ११ अगस्तमासः (हि.स.)। पलामू-प्रमण्डलीयमुख्यालये मेदिनीनगरे स्थितस्य चियांकी-विमानपत्तनस्य विकासस्य तस्मात् शीघ्रं नियमित-वाणिज्यिकविमानसेवायाः प्रारम्भस्य च विषयः मङ्गलवासरे लोकसभायाम् उत्थापितः। पलामूसांसदः विष्णुदयाल-रामः सदने विषयम् उत्थापयन् केन्द्रसर्वकारात् विमान-पत्तनस्य लम्बितानि विकास-कार्याणि मिशन-मोड् इत्यस्य आधारेण पूर्णं कारयित्वा शीघ्रं नियमितविमानसेवां प्रारब्धुं च याचनां कृतवान्।

सांसदेन उक्तं यत् केन्द्रसर्वकारेण क्षेत्रीयविमानसम्पर्कं वर्धयितुं संशोधित-उडान-योजनायाः अन्तर्गतं देशस्य नूतनानां तथा अनुपयोगिनां विमानपत्तनानां विकासस्य निर्णयः कृतः अस्ति। चियांकी-विमानपत्तनमपि अस्याः योजनायाः अन्तर्गतं विकासाय चयनितम् अस्ति, तथापि अद्यावधि अत्र नियमितवाणिज्यिकविमानसेवा प्रारब्धा नास्ति।

तेन उक्तं यत् पलामू-प्रमण्डलस्य पलामू-गढ़वा-लातेहार-जनपदानां पञ्चाशल्लक्षाधिकजनसंख्या विमानयात्रायै राञ्ची, गयाजी, वाराणसी इत्यादिषु दूरस्थविमानपत्तनेषु निर्भरितुं बाध्यते। अनेन सामान्ययात्रिभि: सह रोगिणां, व्यापारिणां, उद्योगपतिनां, सर्वकारीयाधिकारिणां च समयस्य आर्थिकस्य च दृष्ट्या कष्टं भवति।

विष्णुदयाल-रामः उक्तवान् यत् चियांकी-विमानपत्तनात् नियमितविमानसेवायाः प्रारम्भेन क्षेत्रस्य पर्यटनाय नूतना गतिः प्राप्तुं शक्नोति। अनेन पलामू-व्याघ्राभयारण्यं, बेतला-राष्ट्रिय-उद्यानं, पलामू-दुर्गः, नेतरहाट् इत्यादिषु प्रमुखपर्यटनस्थलेषु गमनम् अधिकं सुकरं भविष्यति। उत्तमविमानसम्पर्केन कृषिः, तसरः, लाक्षा, वन्योपजाः, लघुउद्योगाश्च व्यापकविपण्यं प्रति स्वकीय-उत्पादानां प्रेषणे साहाय्यं प्राप्स्यन्ति। तदतिरिक्तं स्वास्थ्यसेवानां सुधाराय, निवेशाकर्षणाय, रोजगारस्य नूतनावसराणां सृजनाय च विमानसम्पर्कस्य महत्त्वपूर्णा भूमिका भविष्यति।

सांसदेन आपदाप्रबन्धनाय, वायुरुग्णवाहिकासेवायै अन्यासां च आपत्कालीनसेवानां कृते चियांकी-विमानपत्तनस्य महत्त्वमपि प्रतिपादितम्। तेन नागरिकविमाननमन्त्रालयात् विमानपत्तनस्य विकासकार्याणि प्राथमिकतायाः आधारेण पूर्णं कारयितुं अनुरोधः कृतः। सहैव धावनमार्गस्य विस्तारं, यात्रिभवनस्य, विमानयाता-यातनियन्त्रणमन्यारस्य, सुरक्षा-मूलसंरचनायाः, अग्निशमनसुविधानां च सम्बन्धीनि लम्बितकार्याणि शीघ्रं पूर्णं कारयितुं याचनां कृतवान्।

सांसदेन भारतीयविमानपत्तन-प्राधिकरणस्य, झारखण्डसर्वकारस्य अन्येषां च सम्बद्धानां संस्थानां मध्ये प्रभावीसमन्वयं स्थापयितुं तथा लम्बितानाम् अनुमतीनां समयबद्धरूपेण निष्पादनं कर्तुं च आग्रहः कृतः।

विष्णुदयाल-रामः परियोजनायाः प्रगतेः नियमितमासिकसमीक्षायै उच्चस्तरीय-निरीक्षणसमितेः गठनस्य विचारममपि दत्तवान्। तेन उक्तं यत् निर्धारित-समयसीमायाः अन्तर्गतं सर्वाणि कार्याणि पूर्णं कृत्वा चियांकी-विमानपत्तनं नियमितवाणिज्यिकविमानसेवानां कृते सज्जीकर्तव्यम्।

तेन उक्तं यत् चियांकी-विमानपत्तनं केवलं पलामूसंसदीयक्षेत्रस्य कृते एव न, अपितु सम्पूर्णस्य उत्तरपश्चिमझारखण्डस्य सामा-जिकस्य, आर्थिकस्य, औद्योगिकस्य, पर्यटनस्य च विकासाय महत्त्वपूर्णा परियोजना अस्ति। अतः तेन केन्द्र-सर्वकारात् अस्मिन् विषये शीघ्रं ठोसकार्यवाहीं कर्तुं याचना कृता।

Hindusthan Samachar / Divya Ranjan