अरुणाचलप्रदेशः भारतस्य अभिन्नः भागः, स्वयंसिद्धा निर्विवादा च वास्तविकता : विदेशमन्त्रालयः
नवदिल्ली, ११ अगस्तमासः (हि.स.)। विदेशमन्त्रालयेन अरुणाचलप्रदेशः भारतस्य अविभाज्यः अभिन्नश्च भागः इति प्रतिपाद्य सः स्वयंसिद्धा निर्विवादा च वास्तविकता इति उक्तम्। भारतीयसर्वेक्षण-विभागस्य आधिकारिकेषु मानचित्रेषु अरुणाचलप्रदेशस्य २७ स्थानानां नामानि
Arunachal


नवदिल्ली, ११ अगस्तमासः (हि.स.)। विदेशमन्त्रालयेन अरुणाचलप्रदेशः भारतस्य अविभाज्यः अभिन्नश्च भागः इति प्रतिपाद्य सः स्वयंसिद्धा निर्विवादा च वास्तविकता इति उक्तम्। भारतीयसर्वेक्षण-विभागस्य आधिकारिकेषु मानचित्रेषु अरुणाचलप्रदेशस्य २७ स्थानानां नामानि मानकीकृतुं भारतस्य नूतनपदक्षेपस्य विषये चीनदेशस्य आपत्तेः प्रतिक्रियारूपेण एतत् वक्तव्यं प्रकाशितम्।

विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जायसवालः मङ्गलवासरे पत्रकारवार्तायां उक्तवान्— “अरुणाचलप्रदेशः भारतस्य अविभाज्यः अभिन्नश्च भागः अस्ति तथा एषः स्वयंसिद्धः तथ्यः अस्ति। सहैव अहम् एतदपि रेखाङ्कितुम् इच्छामि यत् एतां निर्विवादां वास्तविकतां कश्चिदपि परिवर्तयितुं न शक्नोति।”

उल्लेखनीयं यत् चीनदेश: अरुणाचलप्रदेशं दक्षिणतिब्बतस्य अथवा ‘जाङ्गनान्’ इत्यस्य भागम् इति मन्यते। सः वर्ष २०१७ तमात् समये-समये तत्रत्यस्थानानां नाम्नां सूचीन् प्रकाशितवान् अस्ति। भारतः एतानि कथनानि नामकरणं च वास्तविकस्थितेः परिवर्तनस्य प्रयासरूपेण वर्णयन् निरन्तरं निराकृतवान् अस्ति। अधुना भारतदेश: तेषां नाम्नां मानकीकरणाय पदक्षेपं स्वीकृतवान् अस्ति।

Hindusthan Samachar / Divya Ranjan