प्रधानमन्त्रिणा ‘हर घर तिरङ्गा’ अभियानस्य सहभागितायै कृतं जनानाम् आह्वानम्
नवदिल्ली, ११ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी मङ्गलवासरे देशवासिभ्यः अगस्तमासस्य १५ दिनाङ्के स्वातन्त्र्यदिवसं पूर्णोत्साहेन गौरवेण च आचरितुं तथा ‘हर घर तिरङ्गा’ अभियानस्य सहभागितां कर्तुम् आह्वानं कृतवान्। प्रधानमन्त्रिणा इन्स्टाग्र
प्रधानमंत्री नरेन्द्र मोदी और मंत्रिमंडल के अन्य नेता तिरंगा लहराते हुए (फाइल फोटो)


नवदिल्ली, ११ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी मङ्गलवासरे देशवासिभ्यः अगस्तमासस्य १५ दिनाङ्के स्वातन्त्र्यदिवसं पूर्णोत्साहेन गौरवेण च आचरितुं तथा ‘हर घर तिरङ्गा’ अभियानस्य सहभागितां कर्तुम् आह्वानं कृतवान्।

प्रधानमन्त्रिणा इन्स्टाग्राम-माध्यमेन एकं दृश्यम् प्रकाशितं कृत्वा उक्तं— “आगच्छन्तु, अगस्तमासस्य १५ दिनाङ्कं गौरवेण उत्साहेन च आचरामः, स्वातन्त्र्यसेनानीभ्यः श्रद्धाञ्जलिं समर्पयामः तथा विकसित-भारतस्य सङ्कल्पं स्वीकरोमः।”

तेन देशवासिभ्यः प्रत्येकस्मिन् गृहे तिरङ्गध्वजं आरोपयितुं आह्वानं कुर्वता उक्तम्— “हर घर तिरङ्गा, घर-घर तिरङ्गा, हर मन तिरङ्गा। आगच्छन्तु, प्रत्येकस्मिन् गृहे त्रिरङ्गध्वजं प्रसारयामः।”

प्रधानमन्त्रिणा देशवासिभ्यः स्वातन्त्र्य-सेनानीनां बलिदानं स्मर्तुं, राष्ट्रध्वजं प्रति सम्मानं प्रकटयितुं तथा स्वातन्त्र्यदिवसस्य समारोहं सहभागीभूय आचरितुं च आह्वानं कृतम्।

Hindusthan Samachar / Divya Ranjan