Enter your Email Address to subscribe to our newsletters

रायपुरम्, 11 अगस्तमासः (हि.स.)।
कृषिविकासस्य कृषककल्याणस्य जैवप्रौद्योगिक्याश्च मन्त्री रामविचारनेतामः अद्य बुधवासरे १२ अगस्तदिनाङ्के आचर्यमाणस्य छत्तीसगढस्य पारम्परिकस्य हरेलीपर्वणः अवसरे प्रदेशवासिभ्यः स्वीयाः बधाईशुभकामनाः च प्रदत्तवान्।
तेन उक्तं यत् छत्तीसगढः कृषिप्रधानः प्रदेशः अस्ति। हरियाली अमावस्यायाम् आचर्यमाणस्य हरेलीपर्वणः छत्तीसगढस्य जनजीवने व्यापकः प्रभावः दृश्यते। अस्मिन् दिवसे कृषकाः नाङ्गरस्य अर्थात् हलस्य कृषिसाधनानां च पूजां कुर्वन्ति, यानि अस्माकं कृषिप्रधानसंस्कृतेः अभिन्नानि अङ्गानि सन्ति।
अपरतः हरेलीपर्वणः महत्त्वं भूमिं हरितां कर्तुं वृक्षाणां पादपानां च महत्त्वमपि प्रदर्शयति। अस्मिन् अवसरे कृषिमन्त्री नेतामः नागरिकानां कृषकाणां च सुखसमृद्धेः कामनां कृतवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani