उत्साहेन समाचरितस्य छत्तीसगढ़स्य लोक पर्व हरेली, बालैः गेड़ी इत्येतत्क्रीडनकं चालयित्वा समाचरितः उत्सवः
धमतरी, 12 अगस्तमासः (हि.स.)। छत्तीसगढस्य लोकपर्व हरेली इति उत्सवः बुधवासरे अञ्चले हर्षोल्लासपूर्वकं समाचरितः। कृषकैः कृषिसाधनानां गोधनस्य च विधिविधानपूर्वकं पूजनार्चनं कृतम्। गृहेषु छत्तीसगढीयव्यञ्जनानि चीला, ठेठरी, खुरमी इत्यादीनि निर्मितानि। जन
घर के बाहर लगाई गई नीम की टहनी।


कृषि उपकरणों की हुई पूजा।


धमतरी, 12 अगस्तमासः (हि.स.)।

छत्तीसगढस्य लोकपर्व हरेली इति उत्सवः बुधवासरे अञ्चले हर्षोल्लासपूर्वकं समाचरितः। कृषकैः कृषिसाधनानां गोधनस्य च विधिविधानपूर्वकं पूजनार्चनं कृतम्। गृहेषु छत्तीसगढीयव्यञ्जनानि चीला, ठेठरी, खुरमी इत्यादीनि निर्मितानि। जनैः अन्नपूर्णामातुः, कुलदेवतायाः, वृषभाणां कृषिसाधनानां च पूजां कृत्वा नैवेद्यं समर्पितं प्रसादश्च वितरितः।

कृषकाः मोहनसाहू, दीनबुधुसाहू, मोहनसाहू, कृष्णातिवारी, होरीलालसाहू, गेन्दलालसाहू, यशकरणसिन्हा च अवदन् यत् हरेली इति कृषकाणां प्रमुखं पर्व अस्ति। अस्मिन् दिवसे कृषिकार्यं विरम्य कृषिसाधनानां स्वच्छतां कृत्वा तेषां पूजनं कृतम्। पशूनां विशेषपूजाऽपि कृता। गुडेन निर्मितस्य चीलस्य नैवेद्यं समर्पितम्। पशूनां सङ्क्रामकरोगेभ्यः संरक्षणाय तेभ्यः वनौषधयः भोजिताः। कुलदेवतायाः ग्रामदेवतायाश्च पूजां कृत्वा सुखसमृद्ध्योः कामना कृता।

ग्रामस्य बैगेन जनानां गृहेषु नीमवृक्षस्य शाखाः स्थापिताः। हरेलीपर्वणि कृषकाः स्वस्य सस्यं कीटपतङ्गेभ्यः संरक्षितुं क्षेत्रेषु भेल्ववृक्षस्य नीमवृक्षस्य च शाखाः स्थापयन्ति। अन्नपूर्णामातुः प्रसन्नतार्थं गुडेन निर्मितं चीलं क्षेत्रेषु समर्पयन्ति, तत्सह पूजापाठं कृत्वा देव्याः आशीर्वादं च याचन्ते।

कृषिसाधनानां गोधनस्य च पूजनं कृतम्। नगरस्य विभिन्नेषु वार्ड इत्येषु आयोजितासु नारिकेलक्षेपणप्रतियोगितासु युवानां समूहाः उत्साहपूर्वकं सम्मिलिताः। नारिकेलप्राप्तेः पराजयस्य च क्रमः रात्रेः विलम्बपर्यन्तं प्रचलितः।

Hindusthan Samachar / Dheeraj Maithani