चतुर्मासपर्यन्तं जले निमग्नं भवति जलकेश्वरनाथमन्दिरम्, मान्यता अस्ति यत् स्वयमेव गङ्गामाता जलाभिषेकं करोति
— कन्हरनद्याः तटे स्थित: रहस्यमय: शिवालय: बलरामपुरम्, १२ अगस्तमासः (हि.स.)। भगवते शिवाय श्रावणमासः अत्यन्तं प्रियः मन्यते। अत एव श्रावणमासस्य प्रारम्भमात्रेण जनपदस्य लघुषु बृहदा-कारजषु च सर्वेषु शिवालयेषु श्रद्धालूनां समागमः भवितुम् आरभते। महिलाः,
ऊपर पहला शिवलिंग नीचे नदी में डूबा है दूसरा शिवलिंग


जलकेश्वर नाथ शिव मंदिर द्वार


जलकेश्वर नाथ शिव मंदिर


— कन्हरनद्याः तटे स्थित: रहस्यमय: शिवालय:

बलरामपुरम्, १२ अगस्तमासः (हि.स.)। भगवते शिवाय श्रावणमासः अत्यन्तं प्रियः मन्यते। अत एव श्रावणमासस्य प्रारम्भमात्रेण जनपदस्य लघुषु बृहदा-कारजषु च सर्वेषु शिवालयेषु श्रद्धालूनां समागमः भवितुम् आरभते। महिलाः, वृद्धाः युवानश्च प्रातःकालादेव पङ्क्तौ स्थित्वा भगवत: शिवस्य जलाभिषेकं कुर्वन्ति। एतस्याः श्रद्धायाः परम्परायाश्च मध्ये बलरामपुरजनपदे एकः तादृशः शिवालयोऽपि अस्ति, यः स्वस्य भौगो-लिकस्थित्या धार्मिकमान्यताभिश्च जनानां विशेषाकर्षणस्य केन्द्रं वर्तते।

अयं शिवालयः रामानुजगञ्जात् प्रायः द्विकिलोमीटरदूरे लुर्गीग्रामपञ्चायतक्षेत्रे कन्हरनद्याः तटे स्थितः अस्ति। अयं ‘जलकेश्वरनाथशिवमन्दिरम्’ इति नाम्ना प्रसिद्धः। मन्दिरस्य विशेषता अस्ति यत् अत्र द्वयोः स्थानेषु शिवलिङ्गे स्थापिते स्तः। नद्याः समीपे अधोभागे स्थितः शिवालयः वर्षाकाले कन्हरनद्याः जलस्तरवृद्ध्या जले निमज्जति। तस्योपरि स्थिते द्वितीये शिवालये तु तस्मिन् काले श्रद्धालवः भगवत: शिवस्य पूजार्चनां कुर्वन्ति।

वर्षाकाले कन्हरनद्याः जलस्तरः वर्धते। अतः नद्याः तटे सर्वाधिकम् अधोभागे स्थितं जलकेश्वरनाथमन्दिरं तत्र स्थापितं शिवलिङ्गं च जले निमज्जतः। नद्याः जलस्तरस्य न्यूनतायां शिवलिङ्गं पुनः श्रद्धालूनां दर्शनपूजार्थं दृश्यते। कन्हरनदी, द्वौ शिवालयौ तथा च चतुर्मासपर्यन्तं जले निमज्जमानं शिवलिङ्गम्—एतत् स्थानम् आस्था-प्रकृति-रहस्यानां अद्भुतं सङ्गमं करोति।

श्रद्धालूनां मान्यता अस्ति यत् कन्हरनदी गङ्गामिव पवित्रा अस्ति तथा वर्षाकालस्य चतुर्षु मासेषु गङ्गामाता स्वयमेव जलकेश्वरनाथस्य जलाभिषेकं करोति। एषैव धार्मिकमान्यता अस्य स्थानस्य क्षेत्रस्य अन्येभ्यः शिवालयेभ्यः पृथग् परिचयं ददाति।

जलकेश्वरनाथमन्दिरस्य अन्यदपि वैशिष्ट्यम् अस्ति तस्य भौगोलिकस्थितिः। कन्हरनद्याः एकस्मिन् तटे छत्तीसगढस्य रामानुजगञ्जक्षेत्रम् अस्ति, अपरस्मिन् तटे झारखण्डस्य सीमा प्रारभते। अत एव अत्र केवलं स्थानीयाः श्रद्धालवः एव न, अपितु झारखण्डस्य सीमावर्तिक्षेत्रेभ्यः अपि बहुसङ्ख्यकाः जनाः पूजार्चनार्थम् आगच्छन्ति।

महाशिवरात्रेः अवसरे यदा नद्याः जलस्तरः न्यूनः भवति तथा अधोभागे स्थितं शिवालयं प्रति गमनं शक्यते, तदा अत्र श्रद्धालूनां सङ्ख्या वर्धते। जनाः भगवत: शिवस्य जलाभिषेकं कृत्वा परिवारस्य सुखसमृद्ध्यै मनोकामनापूर्तये च प्रार्थनां कुर्वन्ति।

स्थानीयजनानुसारं कन्हरनदी उत्तर-वाहिनी तथा गङ्गामिव पवित्रा मन्यते। कन्हरनद्याः उद्गमः जशपुरजनपदस्य क्षेत्रात् भवति इति मन्यते तथा अग्रे गत्वा सा सोननद्यां विलीयते। सोननद्याः अग्रे गङ्गानद्या सह सङ्गमो भवति। अस्य धार्मिकस्य भौगोलिकस्य च सम्बन्धस्य कारणेन स्थानीयजनानां कन्हरनद्यां प्रगाढा श्रद्धा अस्ति।

स्थानीयः निवासी शिवभक्तश्च रमेशकुमारः कथयति यत् लुर्गीग्रामे कन्हरनद्याः तटे भगवत: शिवस्य घाटः मन्दिरं च स्थितम् अस्ति। श्रावणमासे शिवरात्रौ च बहुसङ्ख्यकाः जनाः अत्र पूजार्चनार्थम् आगच्छन्ति। तस्य अनुसारं कन्हरनद्याः तटे स्थितस्य अस्य शिवालयस्य समीपस्थेषु ग्रामेषु महती धार्मिकमान्यता अस्ति।

श्रद्धालुः मीनाकुमारी अपि जलकेश्वर-नाथमन्दिरं श्रद्धायाः महत्त्वपूर्णं केन्द्रं मन्यते। तस्याः कथनम् अस्ति यत् ग्रामस्य समीपवर्तिक्षेत्राणां च जनानां भगवान् शिवे प्रगाढा श्रद्धा अस्ति। श्रद्धालवः अत्र आगत्य पूजार्चनां कुर्वन्ति तथा भगवन्तं शिवं प्रति परिवारस्य सुखशान्त्यै मनोकामनापूर्तये च प्रार्थनां कुर्वन्ति।

Hindusthan Samachar / Divya Ranjan