ओबीसी आरक्षणे प्रशासनिक परामर्श दास्यति एसएससी, शिक्षकनियुक्तिप्रक्रिया सांप्रतं स्थगिता
कोलकाता, 12 अगस्तमासः (हि.स.)।माध्यमिकस्य उच्चमाध्यमिकस्य च स्तरयोः वर्ष २०२५ तमे शिक्षकनियुक्तिप्रक्रियायां अन्यपृष्ठवर्तिवर्गस्य अर्थात् ओबीसी इत्यस्य आरक्षणं कियत् भविष्यति, अस्मिन् विषये विद्यालयसेवायोगः अर्थात् एसएससी विधिकपरामर्शं स्वीकरिष्यत
फाइल चित्र


कोलकाता, 12 अगस्तमासः (हि.स.)।माध्यमिकस्य उच्चमाध्यमिकस्य च स्तरयोः वर्ष २०२५ तमे शिक्षकनियुक्तिप्रक्रियायां अन्यपृष्ठवर्तिवर्गस्य अर्थात् ओबीसी इत्यस्य आरक्षणं कियत् भविष्यति, अस्मिन् विषये विद्यालयसेवायोगः अर्थात् एसएससी विधिकपरामर्शं स्वीकरिष्यति। अस्याः नीत्याः विषये निर्णयः यावत् न भवति, तावत् नियुक्तिपत्रवितरणस्य प्रक्रिया पश्चिमबङ्गमाध्यमिकशिक्षामण्डलेन सोमवासरे एव स्थगिता।

एसएससी अध्यक्षः दुष्मन्त नारियाला मङ्गलवासरे वार्ताहरसम्मेलने अवदत् यत् नियुक्तिप्रक्रियायाः प्रारम्भानन्तरं कापि विधिकजटिलता न उत्पद्येत तथा पारदर्शितया शीघ्रतया च नियुक्तिप्रक्रिया सम्पन्ना भवेत्, एतमेव उद्दिश्य पूर्वमेव अधिवक्तृभ्यः विधिकपरामर्शः याचितः अस्ति।

उच्चमाध्यमिकस्तरे ३६५ अभ्यर्थिनां परामर्शप्रक्रिया पूर्णा अभवत्। अगस्तमासस्य १२, १३, १७ दिनाङ्केषु पुलिससत्यापनानन्तरं तस्य प्रतिवेदनं माध्यमिकशिक्षामण्डले समर्पणीयम् आसीत्। अभ्यर्थिनां दस्तावेजानां सत्यापनानन्तरं तेभ्यः नियुक्तिपत्रं प्रदातव्यम् आसीत्। सम्प्रति एषा प्रक्रिया स्थगिता अस्ति।

तदतिरिक्तं अगस्तमासस्य १४ दिनाङ्कतः उच्चमाध्यमिकस्तरस्य अवशिष्टानां १५ सहस्राभ्यर्थिनां परामर्शप्रक्रिया प्रारब्धुं नियोजिता आसीत्। ओबीसी आरक्षणस्य विषये उत्पन्नायाः स्थितेः कारणेन एषा प्रक्रियापि स्थगितुं शक्यते। अस्मिन् विषये एसएससी शीघ्रमेव विज्ञप्तिं प्रकाशयिष्यति।

इतस्ततः उच्चतमेन्यायालयस्य निर्देशानन्तरं वर्ष २०१६ तमे शिक्षकनियुक्तिप्रक्रियायां सेवां हानवतां ‘योग्यानाम्’ अभ्यर्थिनां वर्ष २०२५ तमस्य शिक्षकनियुक्तिपरीक्षायां सहभागिता अभवत्। एतेषाम् अभ्यर्थिनां सेवाकालः अगस्तमासस्य ३१ दिनाङ्के समाप्तः भविष्यति। किन्तु ओबीसी आरक्षणस्य विषये उत्पन्नायाः जटिलतायाः कारणेन अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं सम्पूर्णां नियुक्तिप्रक्रियां सम्पन्नां कर्तुं शक्यते इति न मन्यते।

एतादृशे सति ‘योग्यानाम्’ अभ्यर्थिनां सेवाकालविस्तारार्थं एसएससी उच्चतमं न्यायालयं प्रति आवेदनं करिष्यति। अध्यक्षः दुष्मन्त नारियाला अवदत् यत् कियत्कालपर्यन्तं सेवाकालविस्तारस्य अनुरोधः करणीयः, अस्मिन् विषये अधिवक्तृभिः सह विचारविमर्शः करिष्यते।

नवम्याः दशम्याश्च कक्षायाः स्तरयोः कुलं ३९ सहस्र २१८ अभ्यर्थिषु १५ सहस्राभ्यर्थिनां दस्तावेजसत्यापनं पूर्णम् अभवत्। अस्मिन् विषयेऽपि ओबीसी आरक्षणस्य नीतिः अन्तिमरूपेण निर्धारिता भवति चेत् ततः शेषप्रक्रिया प्रारप्स्यते।

एतस्मिन् मध्ये विद्यालयशिक्षाविभागेन आयोगे चतुरः नूतनसदस्यान् समावेशयितुं मङ्गलवासरे विज्ञप्तिः प्रकाशिता। एसएससी अध्यक्षः इदमपि अवदत् यत् विद्यालयेषु समूह ‘ग’ समूह ‘घ’ कर्मचारिणां नियुक्त्यर्थम् आयोजिता परीक्षायाः परिणामः दुर्गापूजायाः पूर्वं प्रकाशितुं शक्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani