स्वतंत्रता दिवसस्य अवसरे योगीसर्वकारस्य मंत्रिभ्यो जिल्लाः वितरिताः
लखनऊ, 12 अगस्तमासः (हि.स.)। उत्तरप्रदेशे भव्यतया स्वातन्त्र्यदिवसः आचरिष्यते। अस्मिन् अवसरे आयोज्यमानेषु कार्यक्रमेषु मुख्यमन्त्री योगी आदित्यनाथसहितं सर्वे सर्वकारमन्त्रिणः सहभागिनः भविष्यन्ति। शासनस्य पक्षतः सर्वेभ्यः जनपदेभ्यः निर्देशः प्रदत्तः
मुखयमंत्री योगी


लखनऊ, 12 अगस्तमासः (हि.स.)। उत्तरप्रदेशे भव्यतया स्वातन्त्र्यदिवसः आचरिष्यते। अस्मिन् अवसरे आयोज्यमानेषु कार्यक्रमेषु मुख्यमन्त्री योगी आदित्यनाथसहितं सर्वे सर्वकारमन्त्रिणः सहभागिनः भविष्यन्ति। शासनस्य पक्षतः सर्वेभ्यः जनपदेभ्यः निर्देशः प्रदत्तः अस्ति यत् भव्यतया कार्यक्रमाः आयोजनीयाः तथा च समये एव सर्वाः सिद्धताः पूर्णाः करणीयाः। मुख्यमन्त्रिणः, उपमुख्यमन्त्रिणोः, मन्त्रिणां, राज्यमन्त्रिणां स्वतन्त्रप्रभारयुक्तानां राज्यमन्त्रिणां च कृते जनपदानि आवंटितानि सन्ति।

मुख्यमन्त्री योगी आदित्यनाथः लखनऊ नगरे आयोज्यमाने कार्यक्रमे सहभागिता करिष्यति। उपमुख्यमन्त्री केशवप्रसादमौर्यः प्रयागराजे, उपमुख्यमन्त्री ब्रजेशपाठकः लखनऊ नगरे आयोज्यमाने समारोहे सहभागिता करिष्यतः।

कैबिनेटमन्त्री सुरेशकुमारखन्ना शाहजहांपुरे, मन्त्री भूपेन्द्रचौधरी मुरादाबादे, सूर्यप्रतापशाही देवरियायाम्, स्वतन्त्रदेवसिंह गोरखपुरे, बेबीरानीमौर्या आग्रायाम्, लक्ष्मीनारायणचौधरी मथुरायाम्, जयवीरसिंह मैनपुरी, धर्मपालसिंह बरेली, नन्दगोपालगुप्तः ‘नन्दी’ प्रतापगढे, अनिलराजभरः वाराणस्याम्, राकेशसचानः कानपुरदेहाते, अरविन्दकुमारशर्मा मऊनगरे, योगेन्द्रउपाध्यायः फिरोजाबादे, आशीषपटेलः मीरजापुरे, सञ्जयनिषादः अम्बेडकरनगरे, ओमप्रकाशराजभरः गाजीपुरे, दारासिंहचौहानः आजमगढे, सुनीलकुमारशर्मा गाजियाबादे, अनिलकुमारः बिजनौरे, मनोजपाण्डेयः रायबरेलीनगरे आयोज्यमानेषु कार्यक्रमेषु सहभागितां करिष्यन्ति।

राज्यमन्त्री स्वतन्त्रप्रभारः नितिनअग्रवालः हरदोईजनपदं प्राप्तवान् अस्ति। राज्यमन्त्री स्वतन्त्रप्रभारः कपिलदेवअग्रवालः मुजफ्फरनगरे, रविन्द्रजायसवालः भदोही, सन्दीपसिंहः अलीगढे, गुलाबदेवी सम्भले, गिरीशचन्द्रयादवः जौनपुरे, धर्मवीरप्रजापतिः एटायाम्, असीमअरुणः कन्नौजे, जे पी एस राठौरः झांसी, दयाशंकरसिंहः बलियायाम्, नरेन्द्रकुमारकश्यपः गौतमबुद्धनगरे, दिनेशप्रतापसिंहः सुलतानपुरे, अरुणकुमारसक्सेना लखीमपुरखीरी, डॉ दयाशंकरमिश्रः ‘दयालु’ कौशाम्ब्याम्, अजीतसिंहपालः औरैयायाम्, सोमेन्द्रतोमरः मेरठे स्थातुं निर्दिष्टाः सन्ति।

राज्यमन्त्री मयंकेश्वरशरणसिंहः अमेठ्याम्, दिनेशखटीकः बुलन्दशहरे, सञ्जीवगोण्डः सोनभद्रे, बलदेवसिंहऔलखः रामपुरे, जसवन्तसिंहसैनी शामल्याम्, रामकेशनिषादः बांदायाम्, मनोहरलालमन्नूकोरी ललितपुरे, सञ्जयसिंहगंगवारः पीलीभीते, बृजेशसिंहः सहारनपुरे, के पी मलिकः बागपते, सुरेशराही बहराइचे, प्रतिभाशुक्ला कानपुरनगरे, राकेशराठौरगुरुः सीतापुरे, रजनीतिवारी अयोध्यायाम्, सतीशचन्द्रशर्मा बाराबंकी, दानिशआजादअंसारी बस्त्याम्, कृष्णापासवानः फतेहपुरे, विजयलक्ष्मीगौतमः सन्तकबीरनगरे, कैलाशसिंहराजपूतः फर्रुखाबादे, सुरेन्द्रदीलेरः हाथरसे, राज्यमन्त्री हंसराजविश्वकर्मा च स्वातन्त्र्यदिवसस्य कार्यक्रमावसरे चन्दौलीनगरे स्थास्यन्ति।----------------------

Hindusthan Samachar / Dheeraj Maithani