Enter your Email Address to subscribe to our newsletters

शिमला, 12 अगस्तमासः (हि.स.)।
हिमाचलप्रदेशे पेट्रोल डीजल इत्येतयोः च उपरि ६० पैसामितः उपकरः आरोपितः इत्यस्य विषये विपक्षनेता भाजपानेता च जयराम ठाकुरः प्रदेशसर्वकारं प्रति तीव्रं प्रहारं कृतवान्। तेन आरोपितं यत् सत्तां प्राप्तुं पूर्वं कांग्रेसदलेन जनतायै महती घोषणाः कृताः, किन्तु सर्वकारस्य गठनानन्तरं जनानाम् उपरि विविधप्रकारकाणां शुल्कानां कराणां च भारः आरोप्यते।
जयराम ठाकुरः बुधवासरे अवदत् यत् सर्वकारेण पूर्वमेव द्विवारं मूल्यवर्धितकरः वर्धितः अस्ति, अधुना च पेट्रोलस्य डीजलस्य च उपरि ६० पैसामितः उपकरः आरोपितः। तेन उक्तं यत् अनाथविधवाउपकरस्य नाम्ना जनतायाः धनं सङ्गृह्य सर्वकारस्य सञ्चालनस्य प्रयासः क्रियते।
विपक्षनेता अवदत् यत् तेन विधानसभायामपि सर्वकारं चेतावितम् आसीत् यत् पेट्रोलियमपदार्थेषु करस्य वृद्धेः व्यापकः प्रभावः भवति। अनेन परिवहनव्ययः वर्धते तथा च दैनिकोपयोग्यवस्तूनां मूल्येष्वपि वृद्धिः भवति। तस्य अनुसारं मुख्यमन्त्रिणा सदने उक्तम् आसीत् यत् एतत् केवलं प्रावधानम् अस्ति तथा सर्वकारः तत् कार्यान्वितं कर्तुं न गच्छति। जयराम ठाकुरः आरोपितवान् यत् मुख्यमन्त्रिणः एतद् कथनमपि मिथ्या सिद्धम् अभवत्।
तेन उक्तं यत् हिमाचलप्रदेशः पर्वतीयः प्रदेशः अस्ति तथा अत्र यातायातव्यवस्था आपूर्तिव्यवस्था च मुख्यतया मार्गपरिवहनस्य उपरि निर्भराः सन्ति। अतः पेट्रोलस्य डीजलस्य च मूल्येषु वृद्धेः प्रत्यक्षः प्रभावः सामान्यजनस्य उपरि भविष्यति तथा महङ्गता वर्धिष्यते।
जयराम ठाकुरः सर्वकारस्य शुल्कारोपणप्रवृत्तेः विषये उच्चन्यायालयस्य टिप्पण्या अपि उद्धृता। तेन उक्तं यत् न्यायालयेन सर्वकारस्य एकः आदेशः निरस्तीकृत्य करारोपणस्य विषये विवेकपूर्णतया संवेदनशीलतया च कार्यं कर्तुं परामर्शः दत्तः।
विपक्षनेता मुख्यमन्त्रिणः आग्रहं कृतवान् यत् सर्वकारः जनतायाम् उपरि निरन्तरं नवीनशुल्कानां कराणां च आरोपणस्य नीतिं विरमयेत्। तेन उक्तं यत् मुख्यमन्त्रिणा ‘सुख’ इति नाम्ना शुल्कसर्वकारस्य सञ्चालनस्य स्थाने सामान्यजनाय राहतिं प्रदातुं दिशि कार्यं कर्तव्यम्।
---------------
Hindusthan Samachar / Dheeraj Maithani