Enter your Email Address to subscribe to our newsletters

भागलपुरम्, 13 अगस्तमासः (हि.स.)।
अङ्गप्रदेशस्य ऐतिहासिके धरातले सिल्कसिटीभागलपुरस्य च चम्पानगरक्षेत्रे सम्प्रति सर्वत्र भक्तिमयम् वातावरणं दृश्यते। मातुः मनसादेव्याः विषहर्याः सतीबिहुलायाश्च पावनस्मृतौ आयोज्यमानं लोकश्रद्धायाः महापर्व ‘बिहुलाविषहरीपूजा’ पारम्परिकश्रद्धया उल्लासेन च प्रारब्धम् अस्ति।
चम्पानगरे स्थिते मुख्यविषहरीमन्दिरे मञ्जूषामन्दिरे च प्रातःकालादेव मातुः दर्शनाय डलिकां समर्पयितुं च श्रद्धालूनां विशालः जनसमुदायः समागतः। ढोलवाद्यानां ढाकवाद्यानां च ध्वनिभिः पारम्परिकलोकगीतैश्च सम्पूर्णं वातावरणं गुंजारितम् अस्ति। उल्लेखनीयं यत् एषः पर्वः अङ्गप्रदेशस्य ऐतिहासिकचम्पानगरस्य शासकस्य चान्दसौदागरस्य, तस्य पुत्रस्य बालालखेन्द्रस्य पुत्रवध्वाश्च सतीबिहुलायाः पौराणिककथया सम्बद्धः अस्ति।
कथानुसारं शिवभक्तः चान्दसौदागरः मातुः मनसादेव्याः विषहर्याः च पूजनं कर्तुं न स्वीकृतवान्। मातुः मनसादेव्याः कोपात् चान्दसौदागरस्य षट् पुत्राः मृताः। सप्तमपुत्रं बालालखेन्द्रं सर्पदंशात् रक्षितुं लौहस्य बासरगृहं निर्मितम्, किन्तु मातुः मनसादेव्याः आज्ञया सर्पेण तत्रापि तं दष्टम्।
पत्युः निधनानन्तरं सतीबिहुला धैर्यं न त्यक्तवती। सा स्वपत्युः शवम् केलेस्तम्भनिर्मितायां नौकायां स्थापयित्वा देवलोकम् इन्द्रपुरीं प्रति प्रस्थितवती। मार्गे अनेकाः बाधाः सम्मुखीकृत्य स्वस्य सतीत्वस्य दृढसङ्कल्पस्य च प्रभावेन सा देवान् प्रसादितवती। बिहुलया न केवलं स्वपती बालालखेन्द्रः पुनर्जीवितः कारितः, अपितु चान्दसौदागरस्य अन्ये षट् पुत्राः अपि पुनः जीवनं प्राप्तवन्तः।
तदनन्तरं चान्दसौदागरः मातुः मनसादेव्याः पूजनं स्वीकृतवान्। ततः प्रभृति सतीत्वस्य प्रेम्णः नागपूजायाश्च प्रतीकरूपेण एषः पर्वः आचर्यते।
चम्पानगरमन्दिरसहितेषु नगरस्य विभिन्नेषु मन्दिरेषु मातुः मनसादेव्याः, सतीबिहुलायाः, बालालखेन्द्रस्य चान्दसौदागरस्य च भव्याः मृण्मयप्रतिमाः स्थाप्यन्ते। पूजायाम् अङ्गप्रदेशस्य प्रसिद्धायाः ‘मञ्जूषाकलायाः’ विशेषं महत्त्वम् अस्ति। मन्दिरं डलिकां च अस्याः कलायाः माध्यमेन अलङ्क्रियते, यस्यां चित्रैः बिहुलायाः सम्पूर्णा गाथा प्रदर्शिता भवति। श्रद्धालवः वेणुनिर्मितायां विशेषडलिकायां क्षीरं, लाजा, पुष्पाणि, फलानि तथा अङ्कुरितधान्यानि स्थापयित्वा मातरं विषहरीं समर्पयन्ति।
नागदेवतां प्रसादयितुं क्षीरस्य लाजानां च विशेषभोगः समर्प्यते। रात्रौ मन्दिरेषु ‘बिहुलाविषहरी’ इत्यस्याः संगीतमयायाः लोकगाथायाः गायनं रात्रिपर्यन्तं भवति। कलाकाराः पारम्परिकवाद्ययन्त्रैः सह बिहुलायाः संघर्षस्य कथां श्रावयन्ति, यां श्रोतुं दूरदूरात् जनाः आगच्छन्ति। एषः पर्वः सतीबिहुलायाः अदम्यसाहसं पतिव्रतधर्मं च नमति। अयं पर्वः समाजाय सन्देशं ददाति यत् दृढसङ्कल्पेन नियतिरपि परिवर्तयितुं शक्यते।
अङ्गप्रदेशस्य अस्मिन् पर्वणि नागं सर्पं च देवतारूपेण स्वीकृत्य पूजनं क्रियते। एतत् पर्यावरणस्य जीवजन्तूनां मानवस्य च मध्ये सहअस्तित्वं प्रकृतिप्रेम च प्रदर्शयति। बिहुलाविषहरीपूजायाः माध्यमेन अङ्गप्रदेशस्य प्राचीनलोककला ‘मञ्जूषा’ तथा क्षेत्रीयलोकगीतानि जीवितानि संरक्ष्यन्ते। अयं पर्वः नवसन्ततिं स्वकीयाभिः मूलपरम्पराभिः सह संयोजयति। चम्पानगरविषहरीपूजासमितेः मन्दिरे विना कस्यापि भेदभावेन सर्ववर्गीयाः जनाः एकत्र मिलित्वा पूजामर्चनां कुर्वन्ति, यत् सामाजिकैकतायाः अनुपमम् उदाहरणम् अस्ति।
चम्पानगरविषहरीपूजासमितेः पदाधिकारिणां अनुसारं अस्मिन् वर्षे श्रद्धालूनां सुविधायै सुरक्षायै च विशेषव्यवस्थाः कृताः सन्ति। त्रिदिवसीये अस्मिन् मेले बिहारराज्यात् एव न, अपितु समीपस्थाभ्यां झारखण्डपश्चिमबङ्गराज्याभ्यां च बहुसंख्याकाः श्रद्धालवः चम्पानगरम् आगच्छन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani