संसद्-युवा-संसदे २०२६ मध्ये अवदत् मोहन यादवः— युवान: चिकित्सक-अभियन्तारः भवितुं सह राजनीतिम् आगत्य लोकतन्त्रं सुदृढं कुर्वन्तु
— मुख्यमन्त्रिणा डॉ. यादवेन संसद्-युवा-संसद्-२०२६ सम्बोधिता, १२ राज्येभ्यः ५८ नगरेभ्यश्च युवान: सम्मिलिताः अभवन् भोपालम्, १३ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अवदत् यत् देशस्य युवभि: राजनीतिक्षेत्रे आगत्य सक्रियसहभागिता
संसद यूथ पार्लियामेंट 2026 को संबोधित करते हुए मुख्यमंत्री डॉ. मोहन यादव


संसद यूथ पार्लियामेंट 2026 को संबोधित करते हुए मुख्यमंत्री डॉ. मोहन यादव


— मुख्यमन्त्रिणा डॉ. यादवेन संसद्-युवा-संसद्-२०२६ सम्बोधिता, १२ राज्येभ्यः ५८ नगरेभ्यश्च युवान: सम्मिलिताः अभवन्

भोपालम्, १३ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अवदत् यत् देशस्य युवभि: राजनीतिक्षेत्रे आगत्य सक्रियसहभागिता कर्तव्या। युवान: चिकित्सकाः अभियन्तारश्च भवितुं सह राजनीतिक्षेत्रे आगत्य लोकतन्त्रं सुदृढं कुर्वन्तु। सः अवदत् यत् अद्य देशस्य युवा भारतस्य भविष्यस्य विषये मन्थनं कर्तुं समुपविष्टाः सन्ति। एषा सुखदा अनुभूतिः अस्ति।

मुख्यमन्त्री डॉ. यादवः गुरुवासरे राजधानी-भोपालस्थिते विधानसभाभवने विधान-परिषदि आयोजितस्य ‘संसद्-युवा-संसद्-२०२६’ इत्यस्य उद्घाटनसमारोहे सम्बोधनं कुर्वन् आसीत्। मुख्यमन्त्री डॉ. यादवः, विधानसभाध्यक्षः नरेन्द्रसिंहतोमरः तथा दिलीप-बिल्डकॉन-संस्थायाः अध्यक्षः प्रबन्धनिदेशकश्च दिलीपसूर्यवंशी च ‘संसद्-युवा-संसद्-२०२६’ इत्यस्य दीपप्रज्वलनं कृत्वा शुभारम्भम् अकुर्वन्। कार्यक्रमे देशस्य विभिन्नेभ्यः भागेभ्यः आगताः युवा-प्रतिभागिनः संसदीय-कार्यप्रणाली, लोकतान्त्रिकमूल्यानि तथा राष्ट्रमहत्त्वपूर्णविषयेषु संसदीयशैल्या विचारविमर्शं करिष्यन्ति। अगस्तमासस्य १३-१४ दिनाङ्कयोः आयोज्यमाने अस्मिन् द्विदिवसीये कार्यक्रमे १२ राज्येभ्यः ५८ नगरेभ्यश्च युवानः भागं गृहीतवन्तः। अयं कार्यक्रमः ‘साकार-दृष्टि-सोशल-फाउण्डेशन’ तथा ‘कैलिडोहोप-नागपुर’ इत्येताभ्यां संस्थाभ्यां आयोजितः। कार्य-क्रमस्य प्रारम्भे अतिथीनाम् अङ्गवस्त्रैः प्रतीकचिह्नैश्च सत्कारः कृतः।

मुख्यमन्त्री डॉ. यादवः अवदत् यत् देशस्य स्वातन्त्र्यार्थं बहवः स्वातन्त्र्यसेनानिनः स्वप्राणानाम् आहुतिं दत्तवन्तः। नेतासुभाष-चन्द्रबोसः आईसीएस-परीक्षायां सफलतां प्राप्य अपि सेवां त्यक्त्वा आङ्ग्लशासकान् प्रति तीव्रं प्रत्युत्तरं दत्तवान्। सः देशं दासत्वशृङ्खलाभ्यः मोचयितुं स्वातन्त्र्य-आन्दोलने प्रविष्टवान्। देशस्य युवानः लोकतन्त्रेण, संसदीयपरम्परया नीति-निर्माणेन च सम्बद्धाः कर्तुम् एष: प्रयत्न: अनुकरणीय: अस्ति।

मध्यप्रदेशे समाननागरिकसंहितायै व्यापक-स्तरे विचारा: गृहीताः

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतं विविधतायाम् एकतायाः, ‘सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास’ इत्यस्य तथा ‘जीवेत् जीवयेत्’ इत्यस्य भावनया अग्रे गच्छति। एतत् केवलं शब्दैः न सम्भवति। तस्य भूमौ कार्यान्वयनाय सङ्कल्पशक्तेः आवश्यकता अस्ति। अस्माकं कृते रामचन्द्रस्य रहीमस्य च अधिकाराः समानाः सन्ति। मध्यप्रदेशे समाननागरिकसंहितायाः कृते व्यापक-स्तरे विचारा: गृहीताः। सर्वेभ्यः जनपदेभ्यः सर्वेभ्यश्च धर्मेभ्यः सम्बद्धैः जनैः अस्यां विषये बहुमूल्याः विचारा: प्रदत्ताः। यूसीसी-सर्वेक्षणे ७६ प्रतिशतं मुस्लिम-महिलाभिः समाननागरिकसंहितायाः समर्थनं कृतम्। मध्यप्रदेशं देशस्य बृहद्राज्येषु अग्रणी अस्ति, यत् यूसीसी-प्रवर्तनाय विधेयकं पारितवत् अस्ति।

सनातन-संस्कृतौ मातृशक्तिः सर्वोपरि स्थापिता

सः अवदत् यत् मध्यप्रदेशः देशस्य हृदयम् अस्ति तथा भारतं विश्वस्य सर्वाधिक-युवा-देशः अस्ति। सदनं लोककल्याण-कारीनीतीनां निर्माणस्य पवित्रं स्थानम् अस्ति। अस्यां युवा-संसदि युवतीनां सक्रियसहभागिता महिला-सशक्ती-करणस्य प्रभावात्मकम् उदाहरणम् अस्ति। सनातनसंस्कृतौ मातृशक्तिः सर्वोपरि स्थापिता अस्ति। अस्माकं संस्कृतौ ‘वसुधैव कुटुम्बकम्’ इत्यस्य भावना समाहितास्ति। सम्पूर्णं विश्वं अस्माकं कृते परिवारमिव अस्ति। माता परिवारस्य आधारः भवति, मातुः अभावे भगवान् अपि अपूर्णः भवति। सः अवदत् यत् वयं सर्वे न्यायपालिकायाः निर्णयानाम् अक्षरशः सम्मानं कुर्मः। सर्वोच्चन्यायालयस्य निर्णयस्य अनन्तरम् अयोध्यायां भव्यं मन्दिरं निर्मातुं शक्यं जातम्।

युवा-संसद् लघुभारतमिव आयोजिता

विधानसभाध्यक्षः नरेन्द्रसिंहतोमरः अवदत् यत् मध्यप्रदेशः भारतस्य हृदयप्रदेशः भवितुं सह सर्वाभिः कलाभिः, विधाभिः सम्पद्भिश्च समृद्धः अस्ति। मध्यप्रदेशः देशाय नेतृत्वं दातुं संस्कारधानीरूपेणापि प्रसिद्धः अस्ति। मुख्यमन्त्री डॉ. यादवः प्रदेशस्य विकासाय पूर्णसमर्पणेन कार्यं कुर्वन् अस्ति। अद्य विधानपरिषदि युवा-संसदः आयोजनं लघुभारतमिव अस्ति। युवावस्थायां व्यक्तिः स्वस्य विकासे भारतस्य भविष्यनिर्धारणे च महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नोति। आदिगुरुः शङ्कराचार्यः युवावस्थायामेव देशं एकसूत्रे संयोजयितुं यात्रां कृत्वा सनातनमठानां स्थापनाम् अकरोत्। स्वातन्त्र्यार्थं प्रथमः महान् क्रान्तिसङ्घर्षः १८५७ तमे वर्षे अभवत्, तस्य नेतृत्वमपि युवभिः कृतम्। चन्द्रशेखरआजादः, भगतसिंहः, राजगुरुः, सुखदेवः, अशफाक-उल्लाहखानः, पण्डितराम-प्रसादबिस्मिलः इत्यादयः बहवः क्रान्तिकारिणः युवावस्थायाम् एव भारतस्य स्वातन्त्र्यार्थं सङ्घर्षम् अकुर्वन्।

सः अवदत् यत् पण्डितदीनदयालोपाध्यायः तथा डॉ. श्यामाप्रसादमुखर्जी इत्यादयः चिन्तकाः अपि समाननागरिकसंहितायाः समर्थकाः आसन्। तस्मिन् क्रमे डॉ. मुखर्जी जम्मू-कश्मीरस्य अनुच्छेद-३७० इत्यस्य विरोधं कृत्वा ‘एकदेशः, एकः प्रधानः, एकं विधानम्’ इत्यस्य समर्थनम् अकरोत्। अद्य वयं समाननागरिकसंहितायाः दिशि अग्रे गच्छामः, यत्र सर्वेभ्यः नागरिकेभ्यः समानरूपेण अधिकाराः प्राप्स्यन्ते। प्रधानमन्त्रिणः मोदी-महोदयस्य नेतृत्वे युवा-वंश: स्वच्छताभियाने विकसित-भारतस्य सङ्कल्पे च सम्बद्धा कृता अस्ति। विकसितभारते यूनां भूमिकायाः सदैव स्मरणं करिष्यते।

प्रदेशे औद्योगिकक्रियाकलापानां विस्तारेण रोजगारस्य अवसराः सृज्यन्ते

दिलीप-बिल्डकॉन-संस्थायाः अध्यक्षः प्रबन्धनिदेशकश्च दिलीपसूर्यवंशी अवदत् यत् मुख्यमन्त्री डॉ. यादवः प्रदेशस्य औद्योगिकविकासाय निरन्तरं कार्यं करोति। मध्यप्रदेशे बृहद्योगैः सह लघुऔद्योगिक-एककेभ्यः अपि पर्याप्तं निवेशं प्राप्यते। एतेषां प्रयासानां फलतः रोजगारस्य अवसराः अपि बृहद्-स्तरे सृज्यन्ते। सूर्यवंश्याः ‘संसद्-युवा-संसद् २.०’ इत्यस्य माध्यमेन युवभिः कृता पहल प्रशंसिता। सः अवदत् यत् युवभिः सेवायाः समर्पणस्य च भावनया देशस्य समाजस्य च कृते कार्यं कर्तव्यम्।

मुख्यमन्त्री डॉ. यादवस्य नीतयः युवभिः प्रशंसिताः

युवा-सांसदस्य भूमिकायां आरब-सिंहशर्मा अवदत् यत् मुख्यमन्त्री डॉ. यादवः इच्छति यत् अस्माकं युवानः केवलं रोजगार-प्राप्तारः न भवन्तु, अपितु रोजगारदातारः भवन्तु। मध्यप्रदेश-सर्वकारेण क्रीडाक्षेत्रे युवकल्याणाय च विशेषप्रयासाः क्रियन्ते। प्रदेशे २७४ सान्दीपनि-विद्यालयाः सञ्चाल्यन्ते, तथा २०० सान्दीपनि-विद्यालयाः अधिकं निर्मातव्याः सन्ति। विकसितभारताय विकसितमध्यप्रदेशाय च शिक्षितयूनां भवितुं आवश्यकम् अस्ति। कार्यक्रमे पूर्वराज्यसभासदस्यः पद्मश्री डॉ. विकासमहात्मे तथा विधानसभायाः सचिवः अरविन्दशर्मा च सम्मानितौ। उद्घाटन-समारोहे आयोजकः विश्वजीतचोपडे, देवयानीचोपडे, वैशालीखोबडे इत्यादयः अनेके युवसदस्याः उपस्थिताः आसन्।

/ अंशु गुप्ता