धर्मस्य नाम्ना केचन जनाः देशं विभक्तुं प्रयतन्ते - खरगे
नवदिल्ली, १३ अगस्तमासः (हि.स.)। कांग्रेस-अध्यक्षः मल्लिकार्जुनखरगे गुरुवासरे उक्तवान् यत् कांग्रेसस्य चिन्तनं सम्पूर्णदेशं संयोज्य एकीकृतं स्थापयितुम् अस्ति, यदा तु केचन जनाः जनानां मध्ये भेदं जनयितुम् इच्छन्ति। कांग्रेसपक्षस्य शाखायाः ‘रचनात्मक-क
रचनात्मक कांग्रेस के राष्ट्रीय अधिवेशन में सत्र को संबोधित करते कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे।


नवदिल्ली, १३ अगस्तमासः (हि.स.)। कांग्रेस-अध्यक्षः मल्लिकार्जुनखरगे गुरुवासरे उक्तवान् यत् कांग्रेसस्य चिन्तनं सम्पूर्णदेशं संयोज्य एकीकृतं स्थापयितुम् अस्ति, यदा तु केचन जनाः जनानां मध्ये भेदं जनयितुम् इच्छन्ति।

कांग्रेसपक्षस्य शाखायाः ‘रचनात्मक-कांग्रेस:’ इत्यस्य राष्ट्रीयाधिवेशने खरगे उक्तवान् यत् सम्पूर्णदेशं संयोज्य एकीकृतं स्थापनम् इति कांग्रेसस्य चिन्तनं सदैव अभवत्। तद्विपरीतम् अद्य केचन जनाः जनानां मध्ये शत्रूतां जनयितुम् इच्छन्ति। खरगे आरोपितवान् यत् सर्वकारः महात्मागान्धिनः, जवाहरलालनेहरोः तथा डॉ. भीमराव-आम्बेडकरस्य स्वप्नानि चूर्णीकर्तुं कार्यं करोति। एते नेतारः तादृशस्य भारतस्य कल्पनां कृतवन्तः आसन्, यस्मिन् समाजस्य सर्वान् वर्गान् सार्धं नीत्वा प्रगतिः क्रियेत।

खरगे दूरदर्शने प्रसार्यमाणानां विज्ञापनानां विषये अपि चिन्तां प्रकटितवान्। सः उक्तवान्, “मम दुःखं भवति यत् अद्य दूरदर्शने पानमसाला, तैलं तथा बहूनां उत्पादानां विज्ञापनानि प्रसारितानि भवन्ति।” सः उक्तवान् यत् तस्य स्थाने देशस्य सत्कार्याणां, स्वातन्त्र्यवीराणां तेषां विचाराणां च प्रचारः करणीयः।

सः उक्तवान् यत् स्वातन्त्र्यवीराणां विचारान् योगदानं च युवभ्यः प्रापयितुं आवश्यकता अस्ति, येन देशभक्ताः युवानः निर्मीयेरन्। देशं विभक्तुं स्थाने जनान् संयोजयितुं तथा समाजस्य सर्वान् वर्गान् सार्धं नीत्वा अग्रे गन्तुम् आवश्यकता अस्ति।

Hindusthan Samachar / Divya Ranjan