स्वातन्त्र्यदिवसे मेट्रोसेवाः प्रातः चतुर्वादनात् प्रारप्स्यन्ते - डीएमआरसी
नवदिल्ली, १३ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवस-समारोहे भागं गृह्णद्भ्यः विशिष्टातिथिभ्यः, आमन्त्रितेभ्यः सामान्य-जनेभ्यश्च आवागमनं सुकरं कर्तुं देहली-मेट्रो-रेल-निगमः शनिवासरे प्रातः ४:०० वादनात् स्वस्य सम्पूर्णजालस्य सर्वेभ्यः अन्तिमस्थानकेभ्यः
येलो  लाइन पर रविवार को चलाती  ‘हर घर तिरंगा’ थीम वाली मेट्रो


नवदिल्ली, १३ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवस-समारोहे भागं गृह्णद्भ्यः विशिष्टातिथिभ्यः, आमन्त्रितेभ्यः सामान्य-जनेभ्यश्च आवागमनं सुकरं कर्तुं देहली-मेट्रो-रेल-निगमः शनिवासरे प्रातः ४:०० वादनात् स्वस्य सम्पूर्णजालस्य सर्वेभ्यः अन्तिमस्थानकेभ्यः मेट्रोसेवाः प्रारप्स्यति। इयं सूचना गुरुवासरे विज्ञप्तिमाध्यमेन प्रदत्ता।

विज्ञप्त्यनुसारं, अगस्तमासस्य १५ दिनाङ्के निर्धारित-सारिण्यनुसारं नियमितसेवानां प्रारम्भपर्यन्तं सर्वेषु मार्गेषु मेट्रोसेवाः त्रिंशत्-निमेषानाम् अन्तरालेन प्रचलि-ष्यन्ति। विशिष्टातिथीनां तथा यथार्थरूपेण आमन्त्रितानां जनानां निर्विघ्न-यात्रां सुनिश्चितं कर्तुं डीएमआरसी-संस्थया रक्षामन्त्रालयाय १,३०,००० विशेष-पूर्वनिर्गत-क्यूआर-प्रवेशपत्राणि प्रदत्तानि सन्ति।

तदतिरिक्तं, रक्षामन्त्रालयेन निर्गतेन वैधेन भौतिक-प्रवेशपत्रेण सह आगच्छतां आमन्त्रितानां यात्रासौकर्यार्थं निर्धारितेषु मेट्रोस्थानकेषु विशेष-पूर्वनिर्गत-क्यूआर-प्रवेशपत्राणि प्रदास्यन्ते।

विज्ञप्त्यनुसारं लालकिला, जामामस्जिद् तथा देहलीगेट् मेट्रोस्थानकानि स्वातन्त्र्य-दिवस-समारोहस्थलस्य समीपस्थानि मेट्रोस्थानकानि सन्ति। एतेषां विशेष-क्यूआर-प्रवेशपत्राणां माध्यमेन कृता यात्रायाः व्ययः रक्षामन्त्रालयेन डीएम-आरसी-संस्थायै प्रतिपूरितः भविष्यति।

Hindusthan Samachar / Divya Ranjan