Enter your Email Address to subscribe to our newsletters

-सरदार वल्लभ भाई पटेलस्य प्रतिमातो लोक भवनं यावत् पदयात्रा
लखनऊ, 13 अगस्तमासः (हि.स.)। विभाजनविभीषिकास्मृतिदिवसस्य अवसरे विभाजनस्य त्रासदीं स्मरन् मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे मौनपदयात्रायाः आयोजनं भविष्यति। शुक्रवासरे (१४ अगस्त) लखनऊनगरे जीपीओ-स्थितस्य सरदारवल्लभभाईपटेलस्य प्रतिमातः लोकभवनपर्यन्तं प्रस्ताविता पदयात्रा तेषां जनानां श्रद्धाञ्जलिप्रदानस्य माध्यमं भविष्यति, येषां विभाजनकाले अपारं दुःखं पीडां च सोढवत्यः।
प्रकाशितकार्यक्रमानुसारं लोकभवन-प्रेक्षागृहे विभाजनविभीषिकया प्रभावितानां विस्थापितपरिवाराणां सदस्येभ्यः स्वानुभवान् साझा कर्तुं अवसरः प्रदास्यते। तथैव विभाजनस्य त्रासद्याम् आधारितं प्रदर्शनीं, सजीवचित्रणं तथा लघुचलच्चित्रं च माध्यमीकृत्य तस्मिन् काले अनुभूतां पीडां सङ्घर्षं च नवपीढ्यै प्रापयिष्यते। अस्मिन् अवसरे मुख्यमन्त्री योगी आदित्यनाथः जनान् सम्बोधयिष्यति।
यात्रायां उपमुख्यमन्त्री ब्रजेशपाठकः, राज्यसभासदस्यः डॉ. दिनेशशर्मा, राज्यसभासदस्यः ब्रजलालः, महापौरः सुषमाखर्कवालः, विधानपरिषदः सदस्यः डॉ. महेन्द्रसिंहः, विधानपरिषदः सदस्यः मुकेशशर्मा, विधानपरिषदः सदस्यः रामचन्द्रप्रधानः, विधानपरिषदः सदस्यः अभियन्ता अवनीशकुमारसिंहः, विधानपरिषदः सदस्यः डॉ. लालजीप्रसादनिर्मलः, विधानपरिषदः सदस्यः उमेशद्विवेदी, सरोजनीनगरस्य विधायकः डॉ. राजेश्वरसिंहः, लखनऊउत्तरस्य विधायकः डॉ. नीरजबोराः, मलिहाबादस्य विधायकः जयदेवी, बख्शीकातालाबस्य विधायकः योगेशशुक्लः, लखनऊपूर्वस्य विधायकः ओपीश्रीवास्तवः, प्रदेशभाजपाउपाध्यक्षः ब्रजबहारदुरः, प्रदेशभाजपाउपाध्यक्षाः अर्चनामिश्रा, महानगरभाजपाध्यक्षः आनन्दद्विवेदी, पंजाबीसमाजस्य प्रतिनिधयः, सिखसमाजस्य प्रतिनिधयः, सिन्धीसमाजस्य प्रतिनिधयः तथा बङ्गालीसमाजस्य प्रतिनिधयः इत्यादयः सह बहुसंख्याकाः जनाः सम्मिलिताः भविष्यन्ति।
Hindusthan Samachar / Dheeraj Maithani