योगीसर्वकारस्य निर्यात नीत्या कृषकेभ्यः साक्षाल्लाभो, निवेशस्य नूतनलहरी
उत्तरप्रदेशस्य द्विमासे निर्यातः ८४.५ प्रतिशतं वर्धितः, राष्ट्रियभागीदारी ८.१ प्रतिशताद् वर्धिता १४ प्रतिशतं जाता लखनऊ, १३ अगस्तमासः (हि.स.)। उत्तरप्रदेशः निर्यातक्षेत्रे नूतनं मानदण्डं स्थापयितुं दिशि महत्त्वपूर्णं पदं स्थापितवान्। प्रदेशः देशस्य
मुखयमंत्री योगी


उत्तरप्रदेशस्य द्विमासे निर्यातः ८४.५ प्रतिशतं वर्धितः, राष्ट्रियभागीदारी ८.१ प्रतिशताद् वर्धिता १४ प्रतिशतं जाता

लखनऊ, १३ अगस्तमासः (हि.स.)। उत्तरप्रदेशः निर्यातक्षेत्रे नूतनं मानदण्डं स्थापयितुं दिशि महत्त्वपूर्णं पदं स्थापितवान्। प्रदेशः देशस्य प्रथमं राज्यं जातम्, यत् निर्याताय समर्पितां त्रिवर्षीयाम् आबकारीनिर्यातनीतिं (२०२६-२९) प्रवर्तितवान्। २०२६ तमस्य वर्षस्य अप्रैलमासस्य प्रथमदिनाङ्कतः प्रभाविता एषा नीतिः प्रारम्भिकयोः द्वयोः मासयोः एव सकारात्मकान् परिणामान् प्रदर्शितवती। २०२६ तमस्य वर्षस्य अप्रैल-मेमासयोः प्रदेशात् निर्यातः ८४.५ प्रतिशतं वर्धितः, यदा तु देशस्य समग्रनिर्यातः ६.३ प्रतिशतं वर्धितः। राष्ट्रिय निर्याते उत्तरप्रदेशस्य भागीदारी ८.१ प्रतिशताद् वर्धिता १४ प्रतिशतं जाता तथा च प्रदेशः पञ्चमस्थानात् तृतीयस्थानं प्राप्तवान्।

उत्तरप्रदेशेन ३९.४ लक्ष-अमेरिकीय-डॉलर-मितस्य वृद्धिः प्राप्ता

२०२६ तमस्य वर्षस्य अप्रैल-मेमासयोः देशात् कुलं ६.१५ कोटि अमेरिकीय-डॉलर-मितस्य निर्यातः अभवत्। अस्मिन् उत्तरप्रदेशस्य योगदानं ८६ लक्ष-अमेरिकीय-डॉलर-मितम् आसीत्। गतवर्षस्य समानावधौ देशस्य निर्यातः ५.७८ कोटि डॉलर-मितः तथा प्रदेशस्य योगदानं ४६.६ लक्ष-डॉलर-मितम् आसीत्। अस्मिन् काले देशस्य निर्याते ३६.५ लक्ष-डॉलर-मितस्य वृद्धिः अभवत्, यदा तु उत्तरप्रदेशेन एकेन एव ३९.४ लक्ष-डॉलर-मितस्य वृद्धिः प्राप्ता। बस्तीतः २५ सहस्रक्विन्टल-मितस्य शीरेणापि निर्यातः अभवत्, येन पञ्चलक्ष-अमेरिकीय-डॉलर-मिता विदेशमुद्रा प्राप्ता। शीरेण भिन्नशुल्कवर्गीकरणस्य अन्तर्गतत्वात् एषा प्राप्तिः उपर्युक्तेषु संख्याङ्केषु सम्मिलिता नास्ति, अपितु तदतिरिक्ता अस्ति। महत्त्वपूर्णं तु एतत् यत् राज्येन अस्य कृते कापि आर्थिकसहायता वा अनुदानं वा न दत्तम्, अपितु नियामकशुल्कानि युक्तियुक्तानि कृतानि। प्रत्येकस्य निर्यातितस्य मद्यपात्रस्य कृते अन्वेषण-नियन्त्रणव्यवस्था अर्थात् ट्रैक एण्ड ट्रेस व्यवस्था प्रवर्तिता अस्ति। एपीडा संस्थया अस्मिन् क्षेत्रे प्रायः एक-अरब-अमेरिकीय-डॉलर-मितं राष्ट्रिय-निर्यातलक्ष्यं निर्धारितम् अस्ति तथा उत्तरप्रदेशः निरन्तरं स्वीयं योगदानं वर्धयति।

निवेशस्य रोजगारस्य च नूतनाः अवसराः

नीतेः त्रिवर्षीयस्थिरतया उद्योगजगतः विश्वासः वर्धितः अस्ति। यूनाइटेड ब्रुअरीज उन्नावे तथा माउण्ट एवरेस्ट ब्रुअरीज हरदोईनगरे नूतनां इकाईं स्थापयतः स्तः। वुडपेकर ग्रीनएग्री न्यूट्रिएण्ट्स इत्यनेन फर्रुखाबादे इकाई स्थापिता अस्ति। एलाइड ब्लेण्डर्स एण्ड डिस्टिलर्स इत्यनेन मुरादाबादस्य बन्दां इकाईं पुनरुज्जीविता अस्ति। गोरखपुरे प्रायः एकवर्षपूर्वं एथेनॉल-उत्पादनाय स्थापिता कियान डिस्टिलरी पेय-आसवनीं तथा ब्रुअरीं, उभयोः स्थापनायै आवेदनं कृतवती अस्ति। विभागीयसङ्ख्याङ्कानुसारं रैडिको खेतान अन्येभ्यः राज्येभ्यः स्वस्य सीतापुर-रामपुरयोः संयन्त्रयोः निर्यातोत्पादनं स्थानान्तरयति। अन्यस्य एकस्य अन्तर्राष्ट्रीय-सम्प्रदायस्य स्थलचयनं अन्तिमचरणे अस्ति, यदा तु बह्व्यः वर्तमानाः आसवन्यः क्षमताविस्तारं कुर्वन्ति।

कृषकेभ्यः वर्धितमागधायाः प्रत्यक्षः लाभः

आबकारी-मद्यनिषेध-विभागस्य राज्यराज्यमन्त्री स्वतन्त्रप्रभारः नितिन अग्रवालः अवदत् यत् अस्याः नीतेः महत्त्वपूर्णः लाभः प्रदेशस्य कृषकेभ्यः प्राप्यते। ईएनए-उत्पादनस्य वृद्ध्या शर्कराकारखानानां शीरे मागधा वर्धिता, येन ऊखुकृषकेभ्यः परोक्षरूपेण लाभः भवति। अपरतः धान्याधारितासवनिषु उत्पादनवृद्ध्या धान्यक्रयः अपि वर्धितः। अर्थात् निर्यातस्य वृद्ध्या सह प्रदेशस्य औद्योगिक-एककेषु उत्पादनं, कृषकेभ्यः क्रयणं तथा युवभ्यः रोजगारस्य अवसराः च वर्धिताः सन्ति। नीतौ कृषकहितस्य विषये कठोराः प्रावधानाः अपि कृताः सन्ति। यस्याः आसवनेः अथवा तस्याः स्वामिनः अन्यस्मिन् एकके अथवा शर्कराकारखाने ऊखुमूल्यभुगतानस्य अथवा आबकारीदेयानां वसूलीप्रमाणपत्रं प्रभावी अस्ति, तस्यै नीत्याः कापि छूटः न प्राप्स्यते। अनेन निर्यातप्रोत्साहनं प्रत्यक्षरूपेण कृषकेभ्यः देयभुगतानेन सम्बद्धं कृतम् अस्ति।

काचात् परिवहनपर्यन्तं वर्धितः व्यापारः

आबकारीआयुक्तः डॉ. आदर्श सिंहः गुरुवासरे अवदत् यत् अस्य क्षेत्रस्य पश्चसम्बन्धः ऊखु, शीरा, धान्यं च इत्यादिभिः कृषिजन्योपजैः सम्बद्धः अस्ति, यदा तु अग्रसम्बन्धे काचः, पैकेजिङ्ग, आच्छादनानि, लेबलकरणम्, भण्डारणं तथा परिवहनम् इत्यादयः उद्योगाः आगच्छन्ति। अप्रैलतः जुलाई २०२६ पर्यन्तं प्रदेशस्य एककानि अन्येभ्यः राज्येभ्यः १.६४ कोट्यधिकानि मद्यपात्राणि प्रेषितवन्ति, यानि गतवर्षस्य समानावधितः ४५.७ प्रतिशतं अधिकानि सन्ति। एषा वृद्धिः घरेलूपूर्तेः न्यूनीकरणेन न, अपितु कुलोत्पादनस्य वृद्ध्या अभवत्।

योगी-सर्वकारस्य नीतिः देशाय आदर्शरूपेण अभवत्

केन्द्रीयसर्वकारस्य खाद्यप्रसंस्करणोद्योग-मन्त्रालयेन गठिता कार्यदलः सर्वेभ्यः राज्येभ्यः आदर्शनिर्यातनीतिं सज्जीकर्तुं कार्यं करोति। अस्मिन् एपीडा तथा विभिन्नराज्यानाम् आबकारीविभागाः सम्मिलिताः सन्ति। कार्यदलस्य उपवेशने उत्तरप्रदेशस्य नीतिः प्रशंसिता, तां च अन्यराज्येभ्यः उपयोगी-ढाञ्चरूपेण वर्णितम् तथा राष्ट्रियादर्शनितौ प्रदेशस्य अनुभवाः समावेशनीयाः इति निर्देशः दत्तः। एवं योगी-सर्वकारस्य नीत्या कृषकहितं, निवेशः, रोजगारः तथा विदेशमुद्राप्राप्तिः च एकत्र संयोज्य उत्तरप्रदेशस्य निर्यातक्षेत्रे नूतनां परिचितिं प्रदातुं दिशि दृढः आधारः निर्मितः अस्ति।

Hindusthan Samachar / Dheeraj Maithani