Enter your Email Address to subscribe to our newsletters

रानी मुखर्जी नाम्नी अभिनेत्री भारतीयचलचित्रस्य उत्कृष्टयोगदानाय प्रभावशालिनः अभिनयाय च इण्डियन फिल्म फेस्टिवल ऑफ मेलबर्न इत्यत्र विशेषसम्मानेन सम्मानिता।
त्रिदशकव्यापिनि स्वस्य गौरवपूर्णे अभिनयजीवने रानी-मुखर्जी हिन्दीचल-चित्रेषु अनेकानि स्मरणीयानि पात्राणि निर्वहन्ती स्वस्य प्रभावशाली-अभिनयेन भारतीयकथाः अन्ताराष्ट्रिय-दर्शकेभ्यः प्रापितवती। आस्ट्रेलियादेशे आयोजिते समारोह-कार्यक्रमे सम्मानं प्राप्य रानी उक्तवती यत् अयं क्षणः तस्यै अत्यन्तं भावुकः विशेषश्च आसीत्।
रानी उक्तवती यत् यदा सा बालिकैव भारतीयचलचित्रोद्योगे प्रविष्टवती, तदा सा कदापि न चिन्तितवती यत् तया निर्वुढानि पात्राणि चलचित्राणि च तां सप्तसमुद्रपारं नेष्यन्ति। आस्ट्रेलियादेशीयदर्शकेभ्यः प्राप्तस्य प्रेम्णः सम्मानस्य च कृते सा कृतज्ञतां प्रकटितवती। तया उक्तं यत् चलचित्रस्य सांस्कृतिकसीमाः अतिक्रमितुं अद्भुता क्षमता अस्ति।
तस्याः मतानुसारं विश्वस्य जनानां मनोरञ्जनं कर्तुं तथा कथाभिः विभिन्नसंस्कृतीनां मध्ये सेतुं निर्मातुं शक्नोति इति अस्य व्यवसायस्य महत्तमं वरदानम् अस्ति।
स्वस्य अभिनयजीवने रानी-मुखर्जी ‘ब्लैक’, ‘हम तुम’, ‘युवा’, ‘बंटी और बबली’, ‘नो वन किल्ड जेसिका’, ‘हिचकी’, ‘मर्दानी’-शृङ्खला तथा ‘मिसेज चटर्जी वर्सेस नॉर्वे’ इत्यादिषु चलचित्रेषु विविधाः भूमिकाः निर्वुढवती। तस्याः पात्रेषु भावनात्मकगाम्भीर्यं तथा सशक्तनारी-पात्राणां स्वरूपं स्पष्टतया दृश्यते।
आईएफएफएम्-२०२६-संस्करणस्य आयोजनं १३ अगस्ततः २३ अगस्तपर्यन्तं क्रियमाणम् अस्ति। रानी-मुखर्जी इत्यनया प्राप्तम् एतत् सम्मानं न केवलं तस्याः व्यक्तिगतसिद्धेः प्रतीकः, अपितु वैश्विकस्तरे भारतीयचलचित्रस्य वर्धमानस्वीकारस्य अपि सूचकः अस्ति।
Hindusthan Samachar / Divya Ranjan