Enter your Email Address to subscribe to our newsletters

– सोनाली दासः
कोलकाता, १४ अगस्तमासः (हि.स.)। १५ अगस्तमासे १९४७ दिनाङ्के भारतं प्रायः द्विशतवर्षीयात् आङ्ग्लशासनात् मुक्तम् अभवत्। अयं दिवसः अस्माकं राष्ट्रगौरवस्य, वीरबलिदानिनां बलिदानस्य स्मरणस्य, देशभक्तेः च पवित्रः दिवसः अस्ति। किन्तु या स्वतन्त्रता अस्माभिः प्राप्ता, तस्याः पृष्ठतः स्थितः रक्तरञ्जितः मार्गः केवलं कतिपयप्रसिद्धनामभिः निर्मितः नासीत्। महात्मागान्धी, नेताजी सुभाषचन्द्रबोसः, देशबन्धुः चित्तरञ्जनदासः, मास्टरदा सूर्यसेनः, खुदीरामबोसः इत्यादीनां महानायकानां वीरगाथाः निश्चयेन अस्माकं रक्ते मनोरञ्जकं जनयन्ति। किन्तु अस्य ऐतिहासिकपटस्य पृष्ठतः अनेके क्रान्तिकारिणः अपि आसन्, येषाम् अदम्यसाहसं, प्रतिभा, बलिदानं च विना भारतीयस्वातन्त्र्यसङ्ग्रामस्य इतिहासः अपूर्णः एव स्यात्।
इतिहासस्य मुख्यधारायाः प्रकाशात् दूरं ये मौनेन देशाय स्वजीवनं भविष्यं च पणीकृतवन्तः, ते एव ‘अनगणितवीराः’ इति कथ्यन्ते। स्वतन्त्रतादिवसस्य अस्मिन् विशेषावसरे स्वतन्त्रभारतस्य आधारशिलां दृढीकृतवन्तः वङ्गदेशस्य चत्वारः अविस्मरणीयाः, किन्तु प्रायः विस्मृताः वीरक्रान्तिकारिणः कथं प्रेरणादायकं जीवनं यापितवन्तः इति जानीमः।
उल्लासकरदत्तः : प्रयोगशालायाः सशस्त्रक्रान्तेः शिल्पकारः
१८८५ तमे वर्षे त्रिपुरायां जातः उल्लासकरदत्तः तत्कालीनवङ्गदेशस्य असाधारणप्रतिभासम्पन्नः युवकः आसीत्। प्रेसिडेन्सी-महाविद्यालयस्य रसायन-विभागस्य मेधावी छात्रः उल्लासकरः स्वज्ञानं केवलं पुस्तकानां पृष्ठेषु सीमितं कर्तुं नेच्छति स्म। तेन अनुभूतं यत् रिक्तहस्तेन अथवा केवलं सभासम्मेलनैः दासत्वस्य शृङ्खलाः भेत्तुं न शक्यन्ते; आङ्ग्लानां आधुनिकायुधानां प्रतिकाराय समानशक्तेः आवश्यकता अस्ति। एतादृशचिन्तनेन सः परम्परागताम् अनुशीलनसमितिम् अश्रयत्।
क्रान्तिकारिणा हेमचन्द्रकानूनगो-महाशयेन सह उल्लासकरः मानिकतला-मुरारिपुकुर-उद्यानयोः गुप्तप्रयोगशालाः स्थापितवान्। आङ्ग्ल-आरक्षकं विस्मा-पयन् अयं युवा रसायनविद् स्वप्रतिभया अनुसन्धानेन च शक्तिशालिनः विस्फोटक-पदार्थान् निर्मितवान्। ३० एप्रिल् १९०८ दिनाङ्के मुजफ्फरपुरे किङ्ग्सफोर्डं लक्ष्यीकृत्य प्रफुल्लचाकी-खुदीराम-बोसाभ्यां बम इति प्रयुक्तः, तस्य निर्माणे उल्लासकरदत्तस्य प्रमुखं योगदानम् आसीत्।
अलीपुर-बम-प्रकरणे आरक्षक-अधिकारिभिः सः गृहीतः। न्यायाधीशेन बर्न्स-एण्डर्सनेन तस्मै मृत्युदण्डः प्रदत्तः। किन्तु मृत्युदण्डस्य घोषणा श्रुत्वापि अयं युवा क्रान्तिकारी न्यायालये स्थित्वा उच्चैः हसितवान्। अनन्तरं पुनर्विचारानन्तरं तस्य दण्डः आजीवनकारावासे परिवर्तितः तथा सः अण्डमानस्य सेल्युलर-कारागारं प्रेषितः।
अण्डमानस्य दूरस्थद्वीपे स्थितस्य सेल्युलर-जेलस्य अन्धकारपूर्णायां कोष्ठिकायां तस्य उपरि अमानवीयाः शारीरिकयातनाः कृताः। प्रतिदिनं तैलघटीं चालयित्वा, ताडनं सोढ्वा, क्षुधया च सः मानसिकसन्तुलनम् अपि अहरत्। तथापि सः आङ्ग्लानां समक्षं आत्मसमर्पणं न कृतवान्। स्वातन्त्र्यप्राप्तेः अनन्तरं इतिहासस्य प्रचारस्य च प्रकाशात् दूरे आसामस्य सिलचर-नगरे प्रायः एकान्तजीवनं यापयन् १९६५ तमे वर्षे अयं महान् क्रान्तिकारी देहं त्यक्तवान्।
बीना दासः : दीक्षान्तसमारोहमञ्चात् साम्राज्यवादस्य वक्षसि प्रहारः
६ फरवरी १९३२। कलकत्ता-विश्व-विद्यालयस्य दीक्षान्तसमारोहे तत्कालीनस्य संभ्रान्तसमाजस्य जनाः उपस्थिताः आसन्। वङ्गदेशस्य प्रभावशाली अत्याचारी च आङ्ग्लशासकः सर स्टैनली-जैक्सन् दीक्षान्तभाषणं ददाति स्म। सर्वतः कठिना आरक्षक-सुरक्षा आसीत्। किन्तु तस्यैव जनसमूहे २१ वर्षीयायाः युवत्याः अन्तः देशभक्तेः प्रज्वलिता ज्वाला निगूढा आसीत्। उपाधिं ग्रहीतुं बी.ए. छात्रा बीनादासः मञ्चस्य दिशि अग्रे अगच्छत्।
अकस्मात् सा स्वस्नातकवस्त्रस्य अन्तःस्थितं रिवॉल्वर्-आयुधं निष्कास्य समीपतः राज्यपालं लक्ष्यीकृत्य पञ्च गुटिकाः अनुवर्तितरूपेण प्राक्षिपत्। सौभाग्येन राज्यपालः जीवितः अभवत् तथा आरक्षक-अधिकारिभिः तत्क्षणमेव बीनादासः गृहीता। किन्तु तस्मिन् क्षणे २१ वर्षीयायाः युवत्याः नेत्रयोः दृश्यतया देशभक्तेः या ज्वाला आसीत्, तया तत्कालीनं सम्पूर्णम् आङ्ग्लशासनं कम्पितम्।
न्यायालये प्रचलिते अभियोगे बीना दासः कस्यापि अधिवक्तुः नियुक्तिं कर्तुं निराकृतवती। स्ववक्तव्ये सा निर्भीकस्वरेण उक्तवती यत् तस्याः उद्देश्यं कस्यचित् व्यक्तेः हत्या नासीत्, अपितु तस्य साम्राज्यवादीशासनतन्त्रस्य प्रतिकारः आसीत्, येन तस्याः देशः परतन्त्रः कृतः आसीत् तथा देशवासिभ्यः अत्याचाराः क्रियन्ते स्म।
न्यायालयेन तस्यै नववर्षाणि सश्रमकारावासस्य दण्डः प्रदत्तः। कारागारात् मुक्तेः अनन्तरमपि सा राजनैतिक-सामाजिककार्येषु संलग्ना अभवत्। भारतसर्वकारेण सा ‘पद्मश्री’ इति सम्मानेन सम्मानिता। किन्तु स्वतन्त्रभारते अस्याः वीराङ्गनायाः अन्तिमं जीवनं घोरदारिद्र्येण, उपेक्षया, एकाकित्वेन च व्यतीतम्। उत्तरभारते ऋषिकेशनगरे ८६ वर्षस्य वयसि तस्याः निधनं यदा अभवत्, तदा तस्याः पार्थिवदेहः मार्गस्य पार्श्वे अनाथवत् परित्यक्तः प्राप्तः। स्वतन्त्रभारतस्य इतिहासस्य अयं अत्यन्तं दुःखदः लज्जाजनकश्च अध्यायः अस्ति।
हेमचन्द्रकानूनगो : भारतस्य प्रथम-क्रान्तिध्वजस्य शिल्पकारः
मेदिनीपुरस्य राधानगरे जातः हेमचन्द्रकानूनगोः एकतः उच्चकोटिकः चित्रकारः आसीत्, अपरतः उग्रराष्ट्रवादी क्रान्तिकारी च। सः शीघ्रमेव अवगच्छत् यत् केवलभावनाभिः क्रान्तिः न कर्तुं शक्यते; तदर्थं सुदृढरणनीतेः आधुनिक-प्रौद्योगिक्याश्च आवश्यकता अस्ति। १९०६ तमे वर्षे क्रान्तेः वैज्ञानिकस्वरूपं प्रदातुं सः स्वसम्पूर्णसम्पत्तिं विक्रीय फ्रान्सदेशं गतवान्।
पेरिस-नगरे सः यान्त्रिकीं, रासायनिक-अभियांत्रिकीं, सैन्यप्रौद्योगिकीं च अधीत्य बमनिर्माणस्य गुप्तविद्याम् अधिगतवान्। न केवलम् एतत्, अपितु विश्वस्य समक्षं भारतीयस्वातन्त्र्यसङ्ग्रामस्य विषयं स्थापयितुमपि सः प्रयत्नं कृतवान्।
१९०७ तमे वर्षे जर्मनीदेशस्य स्टुट्गार्ट्-नगरे आयोजितायां अन्ताराष्ट्रिय-समाजवादी-काङ्ग्रेस-सभायां क्रान्ति-कारिणी मादाम् भीकाजी कामा यं ‘वन्दे मातरम्’ इति लिखितं ऐतिहासिकं त्रिवर्णध्वजं प्रदर्शितवती, तस्य मूलरचनाकारः हेमचन्द्रकानूनगो आसीत्। अनन्तरं भारतं प्रत्यागत्य सः मानिकतलास्थिते गुप्तकेन्द्रे युवा क्रान्तिकारिभ्यः सैन्यप्रशिक्षणं बम-निर्माणस्य शिक्षां च दत्तवान्।
अलीपुर-बम-प्रकरणे गृहीतः सः अपि अण्डमानं निर्वासितः। स्वदेशी-आन्दोलनस्य अनेकासु महत्त्वपूर्णासु घटनासु प्रमुखशिल्पकारः सन् अपि इतिहासे हेमचन्द्रकानूनगोस्य नाम अद्यापि बहुधा उपेक्षितमेव अस्ति।
लीलानागः (राय) : सामाजिकान्दोलनेन महिला-क्रान्तिकारिणां सङ्घटनम्
लीलानागः ढाका-विश्वविद्यालयस्य सहशिक्षां प्राप्तवती प्रथमछात्रा अथवा प्रथममहिलाछात्रा आसीत्। किन्तु सा स्वपरिचयं केवलं औपचारिकशिक्षायां सीमितं न कृतवती। नेताजी सुभाषचन्द्र-बोसस्य अत्यन्तविश्वसनीया सहयोगिनी एषा तेजस्विनी महिला अवगच्छत् यत् देशस्य समग्रजन-सङ्ख्यायाः अर्धभागः अर्थात् महिलाः यदि सशस्त्रसङ्घर्षे न संयोजिताः, तर्हि स्वातन्त्र्यसङ्ग्रामस्य गतिं तीव्रां कर्तुं न शक्यते।
१९२३ तमे वर्षे सा ढाकानगरे ‘दीपाली-सङ्घम्’ इति संस्थां स्थापितवती। बाह्यदृष्ट्या इयं सामाजिकसंस्था आसीत्, किन्तु तस्याः वास्तविकम् उद्देश्यम् आसीत् महिलानां राजनैतिकजागरूकतां वर्ध-यितुम् तथा ताभ्यः दण्डचालनस्य, द्विधारखड्गस्य, भुषूण्डि-प्रयोगस्य, आत्म-रक्षणस्य च सैन्यप्रशिक्षणं प्रदातुम्। सूर्यसेनस्य चट्टग्राम-शस्त्रागार-काण्डस्य प्रमुखासु वीराङ्गनासु एका प्रीतिलता अस्मादेव ‘दीपाली-सङ्घात्’ प्रथमां क्रान्तिकारीदीक्षां प्राप्तवती।
महिलानां राजनैतिकाधिकारस्य स्वातन्त्र्यस्य च महत्त्वं जनसमक्षं स्थापयितुं सा ‘जयश्री’ नामकं क्रान्ति-कारीपत्रिकां प्रकाशितवती सम्पादितवती च। यदा नेताजी ‘फॉरवर्ड ब्लॉक्’ इति सङ्घटनस्य स्थापनां कृतवान्, तदा तस्य केन्द्रीयकार्यकारिणीसमित्यां सा एकमात्रा महिला सदस्या आसीत्। देशविभाजनस्य पीडाम् अनुभूयापि सा जीवनपर्यन्तं तत्कालीनयोः पूर्वपश्चिम-वङ्गयोः शरणार्थिनां पीडित-जनानां च सेवायां स्वात्मानं समर्पितवती।
खुदीरामबोसस्य अथवा मास्टरदा सूर्यसेनस्य बलिदानं यथा अस्मान् प्रेरयति, तथैव उल्लासकरदत्तस्य विज्ञानसाधना, बीनादासस्य आत्मसम्मानं, हेमचन्द्रस्य दूरदर्शिता, लीला नागया महिला-शक्तेः जागरणे कृतं योगदानं च तावदेव महत्त्वपूर्णम् अस्ति। इतिहासस्य पृष्ठेषु तेषां नामानि सम्भवतः बृहदक्षरैः न लिखितानि, किन्तु भारतस्य सार्वभौमत्वस्य स्वतन्त्रवायोः च प्रत्येकस्मिन् कणे तेषाम् अनकथितस्य रक्तस्य बलिदानस्य च अमिटा छविः अस्ति।
Hindusthan Samachar / Divya Ranjan