शतम् अटल-कैण्टीन-भोजनालयानां संकल्पः पूर्णः, पञ्चरूप्यकेण एकलक्षजनानां कृते पौष्टिकं भोजनम्
नवदिल्ली, १६ अगस्तमासः (हि.स.)। दिल्ली-सर्वकारस्य कथनमस्ति यत् रविवासरे तिमारपुरतः २५ नूतनानाम् अटल-कैण्टीन-भोजनालयानाम् उद्घाटनेन राजधानीनगरे १०० अटल-कैण्टीन-भोजनालयानां स्थापनायाः संकल्पः पूर्णः अभवत्। सर्वकारस्य कथनानुसारं भारतरत्नेन सम्मानितस्य
अटल कैंटीन  में  रविवार को पूर्व उपराष्ट्रपति वेंकैया नायडू  और दिल्ली की मुख्यमंत्री रेखा गुप्ता भोजन करते हुए


पूर्व उपराष्ट्रपति वेंकैया नायडू रविवार को तिमारपुर से 25 नई अटल कैंटीन का उद्घाटन करते हुए


नवदिल्ली, १६ अगस्तमासः (हि.स.)। दिल्ली-सर्वकारस्य कथनमस्ति यत् रविवासरे तिमारपुरतः २५ नूतनानाम् अटल-कैण्टीन-भोजनालयानाम् उद्घाटनेन राजधानीनगरे १०० अटल-कैण्टीन-भोजनालयानां स्थापनायाः संकल्पः पूर्णः अभवत्। सर्वकारस्य कथनानुसारं भारतरत्नेन सम्मानितस्य पूर्वप्रधानमन्त्रिणः अटल-बिहारी-वाजपेयी-महोदयस्य जन्मदिवसे २५ दिसम्बर २०२५ दिनाङ्के १०० अटल-कैण्टीन-भोजनालयानां स्थापनायाः यः संकल्पः कृतः आसीत्, सः अद्य तस्य पुण्यतिथौ पूर्णतां प्राप्तवान्।

पूर्वोपप्रधानराष्ट्रपतिः वेंकैया-नायडू-महोदयः रविवासरे तिमारपुरतः २५ नूतनानाम् अटल-कैण्टीन-भोजना-लयानाम् उद्घाटनं कृत्वा तान् दिल्लीवासिनां सेवायै समर्पितवान्। अस्मिन् अवसरे दिल्ली-मुख्यमन्त्री रेखा-गुप्ता, दिल्ली-शिक्षामन्त्री आशीष-सूदः, भारतीय-जनता-पक्षस्य सांसदः मनोज-तिवारी, विधायकः सूर्यप्रकाश-खत्री च उपस्थिताः आसन्।

मुख्यमन्त्रिण्या उक्तं यत् अद्यारभ्य एतेषां १०० अटल-कैण्टीन-भोजनालयानां माध्यमेन प्रतिदिनं प्रायः एकलक्षं श्रमिकेभ्यः आवश्यकताग्रस्त-कुटुम्बेभ्यश्च केवलं पञ्चरूप्यकेण पौष्टिकं भोजनं प्रदास्यते। एतेन सह दिल्लीवासिभ्यः कृतम् अपरम् एकं वचनमपि अस्माकं सर्वकारेण पूर्णं कृतम् अस्ति।

Hindusthan Samachar / Divya Ranjan