Enter your Email Address to subscribe to our newsletters

मध्य प्रदेशस्य इंदौरे आयोजिता यूटीटी फर्स्ट पैरा नेशनल रैंकिंग टेबल टेनिस चैंपियन-शृंखला
मुरादाबादम्, 16 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य मुरादाबादजनपदे निवसता कुणालअरोरा इत्यनेन मध्यप्रदेशस्य इन्दौरनगरे अभयप्रशालक्रीडाङ्गणे आयोजितायां यूटिटि प्रथमपैरा राष्ट्रियक्रमाङ्कनटेबलटेनिसप्रतियोगितायां २०२६ २७ मध्ये सुवर्णपदकं विजित्य पीतलनगरी मुरादाबादस्य नाम गौरवान्वितं कृतम् अस्ति। कुणालअरोरेण एतत पदकं विजित्य अधुना यावत कुलं ३७ पदकानि प्राप्तानि सन्ति। एतेषु राष्ट्रियान्तर्राष्ट्रीयपदकानि अपि सम्मिलितानि सन्ति। एषा सूचना रविवासरे वरिष्ठटेबलटेनिसक्रीडकः यशपालअरोरा तथा कुणालस्य पिता च दत्तवन्तौ।
ताभ्यां सूचितं यत अभयप्रशालक्रीडाङ्गणे इन्दौरनगरे अगस्तमासस्य एकादशदिनाङ्कात षोडशदिनाङ्कपर्यन्तं आयोजिते प्रतियोगितायां कुणालेन सुवर्णपदकं प्राप्तम्। अस्यां प्रतियोगितायां तस्य वर्गे कुलं चतुर्विंशतिः क्रीडकाः भागं गृहीतवन्तः। एतेषां क्रीडकानां अष्ट समूहाः निर्माय प्रतिस्पर्धाः आयोजिताः। टेबलटेनिसक्रीडायां पञ्चक्रीडापर्यायाणां मध्ये एकः मैचः भवति। तस्मिन् त्रयाणां क्रीडापर्यायाणां विजयः अनिवार्यः भवति। एकस्मिन् क्रीडापर्याये प्रथमं एकादश अंकान प्राप्तवान क्रीडकः विजयी भवति।
अस्यां प्रतियोगितायां कुणालअरोरा स्वसमूहचरणे तुलसीधराम् कर्नाटकस्य क्रीडकं तथा पारसजोशीं गुजरातस्य क्रीडकं च पराजितवान। कुणालअरोरा स्वस्य अग्रिमचरणे प्री क्वार्टर प्रतियोगितायां गणेशभट्टं मध्यप्रदेशस्य क्रीडकं एकपक्षीयप्रतिस्पर्धायां त्रयः शून्यं इति अंकेन पराजितवान।
तदनन्तरं क्वार्टरफाइनल प्रतियोगितायां प्रखरशर्माणं कर्नाटकस्य क्रीडकं प्रति अपि उत्कृष्टं क्रीडाप्रदर्शनं कुर्वन् त्रयः एकम् इति अंकेन विजयमवाप्तवान। अस्यां प्रतियोगितायां कुणालअरोरा सेमीफाइनल प्रतियोगितायां स्वस्य प्रबलप्रतिद्वन्द्विनं तथा उत्कृष्टक्रीडकं शशिधरकुलकर्णीं कर्नाटकस्य क्रीडकं च संघर्षपूर्णे मुकाबले त्रयः एकम् इति अंकेन पराजित्य अन्तिमप्रतियोगितायां प्रवेशं प्राप्तवान।
कुणालेन अन्तिमप्रतियोगितायां महाराष्ट्रस्य क्रीडकं गजाननपरमारं स्वस्य उत्कृष्टक्रीडाप्रदर्शनेन त्रयः एकम् इति अंकेन पराजित्य सुवर्णपदकं प्राप्तम्।
Hindusthan Samachar / Dheeraj Maithani