Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १६ अगस्तमासः (हि.स.)। केन्द्रीय-संसदीय-कार्य-मन्त्री किरेन रिजिजू-महोदयः प्रधानमन्त्रिणः नरेन्द्र-मोदी-महोदयस्य ‘मानसिकनक्सल’ इति पदस्य प्रयोगं प्रति रविवासरे स्पष्टीकरणं दत्तवान्। तेन उक्तं यत् प्रधानमन्त्री विपक्षिनेतॄन् ‘मानसिक-नक्सल’ इति न उक्तवान्, अपितु एतत् पदं माओवादीभ्यः, पृथक्तावादिभ्यः तथा भारतं विभक्तुं विचारधारां धारयद्भ्यः जनेभ्यः प्रयुक्तम् अस्ति।
रिजिजू-महोदयेन सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र प्रकाशितेन सन्देशेन प्रधानमन्त्री-महोदयस्य वक्तव्यस्य व्याख्या कृता। तेन उक्तं यत् माओवादस्य समर्थनं कुर्वतः, भारतीयसंविधानम् अस्वीकारयतः, पृथक्तावादिभिः सह स्थित्वा तेषां समर्थनं कुर्वतः, अनुच्छेदस्य ३७० इत्यस्य समर्थनं कुर्वतः जनान्, तथा च पूर्वोत्तरभारतं देशस्य शेषभागेभ्यः पृथक् कर्तुं प्रयतमानान् जनान् ‘मानसिकनक्सल’ इति कथितम् अस्ति।स्वकीयेन सन्देशेन सह रिजिजू-महोदयेन शर्जील-इमामस्य प्राचीनस्य एकस्य वक्तव्यस्य अपि उल्लेखः कृतः, यस्मिन् पूर्वोत्तरभारतं देशात् पृथक् कर्तुं विषये कथितम् आसीत्।
वस्तुतः प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे स्वातन्त्र्यदिवसस्य अवसरे रक्तदुर्गस्य प्राचीरतः राष्ट्रं सम्बोधयन् ‘मानसिक-नक्सल’ इति पदस्य प्रयोगं कृतवान् आसीत्। तेन एतादृशानां जनानां समाजात् पृथक्करणस्य आवश्यकता प्रतिपादिता आसीत्। अनन्तरं विपक्षिदलैः आरोपितं यत् प्रधानमन्त्रिणः सङ्केतः सर्वकारस्य नीतिनां विरोधं कुर्वतां विपक्षीदलानां नेतॄन् च प्रति आसीत्।
रिजिजू-महोदयेन एतान् आरोपान् निराकृत्य उक्तं यत् प्रधानमन्त्री विपक्षिनेतॄन् ‘मानसिकनक्सल’ इति न उक्तवान्। तेन स्पष्टं कृतं यत् एतत् पदं तेषां जनानां कृते प्रयुक्तम् अस्ति, ये माओवादीविचारधारायाः समर्थनं कुर्वन्ति, संविधानम् अस्वीकारयन्ति अथवा देशस्य एकतायाः अखण्डतायाश्च विरुद्धं पृथक्तावादीं विचारं धारयन्ति।
Hindusthan Samachar / Divya Ranjan