भक्तानां भावस्य क्षुधित: भवति भगवान् - पूज्यः सत्यानन्द-महाराजः
प्रयागराजः, १६ अगस्तमासः (हि.स.)। भगवन्तं शिवं प्राप्तुं सत्य: भावः भक्तिश्च आवश्यके स्तः। भगवान् केवलं भक्तानां भावस्य क्षुधित: भवति। भक्तः येन श्रद्धया प्रेम्णा च भगवन्तं स्मरति, भगवान् तमेव भावं स्वीकरोति। एताः उक्तीः रविवासरे पूज्यः सत्यानन्दजी
श्री शिव महापुराण कथा के दौरान संत का छाया चित्र


प्रयागराजः, १६ अगस्तमासः (हि.स.)। भगवन्तं शिवं प्राप्तुं सत्य: भावः भक्तिश्च आवश्यके स्तः। भगवान् केवलं भक्तानां भावस्य क्षुधित: भवति। भक्तः येन श्रद्धया प्रेम्णा च भगवन्तं स्मरति, भगवान् तमेव भावं स्वीकरोति। एताः उक्तीः रविवासरे पूज्यः सत्यानन्दजी-महाराजः नारायण-वाटिकायां प्रचलितायां श्रीशिवमहापुराण-कथायां प्रोक्तवान्।

कर्तव्यपथ-ट्रस्ट्-संस्थायाः तत्त्वावधाने आयोजितायां कथायां महाराजेन भगवत: शिवस्य विविधाः लीलाः तस्य दिव्यजीवनं च सुन्दररूपेण वर्णितम्। तेन भगवत: शिवस्य स्वरूपे, तस्य आदर्शेषु महिम्नि च प्रकाशः क्षिप्तः तथा श्रद्धालुभ्यः शिवभक्त्या सह धर्ममार्गे गन्तुं सन्देशः प्रदत्तः।

महाराजः उक्तवान् यत् भगवान् शिवः सरलतायाः सहजतायाश्च प्रतीकः अस्ति। शुद्धमनसा क्रियमाणा भक्तिः श्रद्धा च भगवते शिवाय प्रिया भवति। तेन श्रद्धालवः स्वजीवने सद्विचारान् स्वीकर्तुं, धर्ममार्गे चलितुं, आवश्यकतावद्भ्यः जनेभ्यः सेवां कर्तुं च आहूताः।

कथायां भगवत: शिवस्य महिम्नः वर्णनं श्रुत्वा श्रद्धालवः भक्तिभावे निमग्नाः अभवन्। सम्पूर्णे कथामण्डपे भक्तेः आध्यात्मिकतायाश्च वातावरणं निर्मितम्। श्रद्धालुभिः श्रद्धापूर्वकं कथाश्रवणं कृतम्।

कार्यक्रमे कर्तव्यपथ-ट्रस्ट्-संस्थायाः अध्यक्षः पार्षदश्च नीरजगुप्तः, राजेन्द्र-केसरवानी, कुमारनारायणः, सुमित-केसरवानी, सतीशकेसरवानी, शैलेन्द्र-केसरवानी, दिलीपकेसरवानी, पूर्वपार्षदः रामबाबूकेसरवानी, सत्याजायसवालः, विनोदसोनकरः, निखिलकेसरवानी, रंजीतकेसरवानी, जयश्रीकेसरवानी, उर्मिलाकेसरवानी, सीमाआर्या, जयश्री-जायसवालः, रेनूकेसरवानी, साधना, रुचिगुप्ता, नीलिमा इत्यादयः बहुसंख्याकाः श्रद्धालवः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan