शिव मंदिरेषु उत्पन्नःमहासंमर्दः जनसैलाब, दुग्धेन जलाभिषेकं कुर्वन्ति शिवभक्ताः
हमीरपुरम्, 17 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य हमीरपुरजनपदे श्रावणमासस्य तृतीये सोमवासरे शिवमन्दिरेषु पूजार्चनायै श्रद्धालूनां महती जनसंख्या समागता। ऐतिहासिके शल्लेश्वरधामे शिवमन्दिरे अद्यावधि बहुसंख्यकाः श्रद्धालवः पूजार्चनां कृतवन्तः। अधुनापि श
शिवमंदिरों में उमड़ा जनसैलाब, दूध से जलाभिषेक कर रहे शिवभक्त


हमीरपुरम्, 17 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य हमीरपुरजनपदे श्रावणमासस्य तृतीये सोमवासरे शिवमन्दिरेषु पूजार्चनायै श्रद्धालूनां महती जनसंख्या समागता। ऐतिहासिके शल्लेश्वरधामे शिवमन्दिरे अद्यावधि बहुसंख्यकाः श्रद्धालवः पूजार्चनां कृतवन्तः। अधुनापि शिवभक्तानां दीर्घा पङ्क्तिः निरन्तरं वर्तते। पातालेश्वरः, नर्वदेश्वरमन्दिरं सहितं बहूनि शिवमन्दिराणि सन्ति, येषु बहूनि मन्दिराणि ऐतिहासिकदृष्ट्या महत्त्वपूर्णानि सन्ति।

श्रावणमासस्य तृतीये सोमवासरे नागपञ्चमीपर्वणः समागमेन मन्दिरेषु श्रद्धालूनां महती जनसंख्या समागता। जनपदस्य सरीलाराज्ये शतशः वर्षेभ्यः प्राचीनस्य शल्लेश्वरशिवमन्दिरस्य समीपवर्तिभ्यः दशभ्यः अधिकेभ्यः ग्रामेभ्यः तथा समीपस्थजनपदेभ्यश्च बहुसंख्यकाः श्रद्धालवः आगत्य दुग्धेन जलाभिषेकं कृतवन्तः।

कार्यक्रमस्य आयोजकः महेन्द्रराजपूतः अवदत् यत् एकादशलक्षशिवलिङ्गानां निर्माणकार्यं प्रथमसोमवासरादेव प्रचलितम् आसीत्, यत् सम्प्रति पूर्णम् अभवत्। अधुना एतानि शिवलिङ्गानि पवित्रासु नदीषु वाद्यघोषैः सह अन्तिमसोमवासरे विसर्जयिष्यन्ते।

शिवलिङ्गानां कलशयात्रा अपि आयोजिता, यस्यां महिलाभिः मङ्गलगीनानि गायन्तीभिः भगवान् भोलेनाथस्य पूजार्चना कृता। सः अवदत् यत् अद्यावधि पञ्चाशत्सहस्राधिकाः श्रद्धालवः अत्र शिवमन्दिरे पूजार्चनां कृतवन्तः। अधुनापि सहस्रशः शिवभक्तानां पङ्क्तिः वर्तते। सुरक्षां दृष्ट्वा जरिया थानस्य पुलिसबलं सतर्कं नियुक्तम् अस्ति। जनपदस्य मौदहा, राठ तथा कुरारा क्षेत्रेष्वपि शिवमन्दिरेषु पूजार्चनायाः क्रमः निरन्तरं प्रचलति।

अपरतः हमीरपुरस्य यमुनापुलं पारं कृत्वा स्थितेषु अर्धदर्जनशिवमन्दिरेषु प्रभातकालादेव पूजार्चनायै शिवभक्तानां दीर्घाः पङ्क्तयः दृश्यन्ते। एतेषु मन्दिरेषु रात्रौ जागरणकार्यक्रमः आयोजयिष्यते। यमुनानद्याः तटे स्थितं शिवालयं भव्यरूपेण सज्जीकृतम् अस्ति। प्रभातकालादेव पूजार्चनायै जनानां दीर्घा पङ्क्तिः वर्तते। मन्दिरपरिसरे तिलधारणाय अपि स्थानं नास्ति। अस्मिन् मन्दिरे स्थापितस्य शिवलिङ्गस्य भक्तैः यमुनानद्याः जलेन रुद्राभिषेकः कृतः।

अपराह्णानन्तरम् अत्र शिवकथा अन्ये धार्मिकानुष्ठानानि च आयोज्यन्ते। कारीमाटीग्रामस्य समीपे मन्नेश्वरमन्दिरे विशालमेला आयोजितः अस्ति। अत्र विशेषप्रकारकाणि धार्मिकानुष्ठानानि प्रचलन्ति। विलम्बितरात्रिपर्यन्तं रात्रिजागरणस्य कार्यक्रमः प्रचलिष्यति।

--------------

Hindusthan Samachar / Dheeraj Maithani