राष्ट्रपतिः प्रधानमंत्री च बिहारस्य अशोकधाममंदिरे संमर्दः श्रद्धालूनां मृत्यौ प्रकटितं दुःखम्
नव दिल्ली, 17 अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः तथा प्रधानमन्त्री नरेन्द्रमोदी बिहारस्य लखीसरायजनपदस्य अशोकधामशिवमन्दिरे श्रावणस्य तृतीयसोमवासरे घटितायां भगदडदुर्घटनायां सप्त श्रद्धालूनां मृत्योः विषये दुःखं व्यक्तवन्तौ। राष्ट्रपतिः
राष्ट्रपति द्रौपदी मूर्मू और प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नव दिल्ली, 17 अगस्तमासः (हि.स.)।

राष्ट्रपतिः द्रौपदी मुर्मुः तथा प्रधानमन्त्री नरेन्द्रमोदी बिहारस्य लखीसरायजनपदस्य अशोकधामशिवमन्दिरे श्रावणस्य तृतीयसोमवासरे घटितायां भगदडदुर्घटनायां सप्त श्रद्धालूनां मृत्योः विषये दुःखं व्यक्तवन्तौ।

राष्ट्रपतिः द्रौपदी मुर्मुः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र प्रकाशिता स्वकीये सन्देशे अस्याः दुर्घटनायाः विषये गहनं दुःखं व्यक्तवती। सा उक्तवती यत् बिहारस्य लखीसरायजनपदे भगदडदुर्घटनायां श्रद्धालूनां मृत्योः समाचारः अत्यन्तं पीडादायकः अस्ति। सा शोकसन्तप्तेभ्यः परिवारेभ्यः गहनां संवेदनां प्रकटयन्ती घायलेभ्यः शीघ्रस्वास्थ्यलाभाय प्रार्थितवती।

प्रधानमन्त्री नरेन्द्रमोदी अपि लखीसरायजनपदे घटितायाः अस्याः दुःखदघटनायाः विषये शोकं व्यक्तवान्। सः उक्तवान् यत् बिहारस्य लखीसरायजनपदे भगदडदुर्घटनया जाताभिः मृतिभिः सः अत्यन्तं दुःखितः अस्ति। दुःखस्य अस्मिन् समये तस्य संवेदनाः पीडितपरिवारैः सह सन्ति। प्रधानमन्त्री घायलेभ्यः शीघ्रस्वास्थ्यलाभस्य कामनां कुर्वन् उक्तवान् यत् स्थानीयप्रशासनं प्रभावितजनानां सर्वतोभावेन साहाय्यमकरोत्।

---------------

Hindusthan Samachar / Dheeraj Maithani