सी.ए.एस. व्यवस्थां कलङ्कितुं कृतस्य कस्यापि प्रयासस्य कठोरतया प्रतिकारः भविष्यति – सेबीप्रमुखः
नवदिल्ली/मुम्बई, १९ अगस्तमासः (हि.स.)। भारतीयप्रतिभूति-विनिमय-मण्डलस्य अध्यक्षः तुहिनकान्तपाण्डेयः बुधवासरे विपणिसहभागीदारान् कठोरतया सावधानं कृत्वा अवदत् यत् समापन-नीलामीसत्रं कलङ्कितुं अथवा तत्र कस्यापि प्रकारस्य इतस्ततः कर्तुं कृतस्य प्रयासस्य अ
कार्यक्रम को संबोधित करते सेबी प्रमुख तुहिन कांत पांडेय


कार्यक्रम को संबोधित करते सेबी प्रमुख तुहिन कांत पांडेय


नवदिल्ली/मुम्बई, १९ अगस्तमासः (हि.स.)। भारतीयप्रतिभूति-विनिमय-मण्डलस्य अध्यक्षः तुहिनकान्तपाण्डेयः बुधवासरे विपणिसहभागीदारान् कठोरतया सावधानं कृत्वा अवदत् यत् समापन-नीलामीसत्रं कलङ्कितुं अथवा तत्र कस्यापि प्रकारस्य इतस्ततः कर्तुं कृतस्य प्रयासस्य अत्यन्तं कठोरतया शीघ्रं च प्रतिकारः भविष्यति।

सेबीप्रमुखः तुहिनकान्तपाण्डेयः अत्र उद्योगसङ्गठनेन फिक्की इत्यनेन आयोजितकार्यक्रमात् पृथक् पत्रकारैः सह वार्तालापं कुर्वन् अवदत्— ‘‘वयं सी.ए.एस.मध्ये कृतं इतस्तयः तुलनया सहजतया ज्ञातुं शक्नुमः। सी.ए.एस. पारदर्शितायै अस्ति। यदि कश्चित् मन्यते यत् सः नूतनव्यवस्थां कलङ्कितुं सी.ए.एस.-मध्ये इतस्ततः करिष्यति, तर्हि सः समस्यायां पतिष्यति।’’

तुहिनकान्तपाण्डेयः सावधानं कृतवान् यत् समापननीलामीसत्रस्य अर्थात् विपणिः निरुद्धं भवितुं अनन्तरं अंशस्य अन्तिम-मूल्यनिर्धारणस्य व्यवस्थां ‘‘कलङ्कितुं’’ कृतस्य कस्यापि प्रयासस्य विरुद्धं पूँजीविपणिनियामकेन कठोर-कार्यवाही करिष्यते। अगस्तमासस्य ३ दिनाङ्के सी.ए.एस. व्यवस्था प्रवर्तिता। ततः परं विपणिसहभागिताभिः व्यक्तानां विविधचिन्तानां मध्ये पाण्डेयः अवदत् यत् सी.ए.एस.-मध्ये इतस्ततः ज्ञातुं सेबी इत्यस्य क्षमता तस्याः पुरातनस्य मात्राभाराङ्कित-मध्यक-मूल्यस्य व्यवस्थायाः अपेक्षया अधिका अस्ति, यस्याः स्थाने एषा नूतना व्यवस्था प्रवर्तिता।

सेबीप्रमुखः अवदत् यत् सी.ए.एस. व्यवस्थायां भागग्रहणं वर्धमानम् अस्ति। सः विशेषरूपेण पारस्परिकनिधीनां तथा स्वकीयलेखात् व्यापारं कुर्वतां व्यापारिणां च अस्याः व्यवस्थायाः स्वीकरणस्य उल्लेखं कृतवान्। पाण्डेयः अवदत् — ‘‘मम मतम् अस्ति यत् सी.ए.एस.-मध्ये भागग्रहणं सुधारं करोति तथा भविष्येऽपि तस्मिन् सुधारः भविष्यति। वयं भागग्रहणे विद्यमानानां बाधानां विषये अवलोकनं कुर्मः।’’

सेबीनं विपण्यां इतस्ततः निवारयितुं अधिकां पारदर्शितां च आनेतुं सी.ए.एस. व्यवस्था प्रारब्धा अस्ति। अस्यां व्यवस्थायां व्यापारसमाप्तेः पूर्वं निर्धारिते समयावधौ क्रय-विक्रयादेशाः तत्कालं निष्पादयितुं स्थाने एकत्र संगृह्यन्ते तथा नीलामी-आधारितादेश-मेलनप्रक्रियायाः माध्यमेन तेषां मेलनं क्रियते। सेबी इत्यस्य अनुसारं विश्वस्य प्रमुखविपण्येषु गतद्विवर्षेभ्यः सी.ए.एस. सदृशी व्यवस्था स्वीकृता अस्ति।

Hindusthan Samachar / Divya Ranjan