बलियाबलिदानदिवसे १९४२ तमवर्षस्य वीरसपूतानां स्मृतौ कारागारस्य द्वारम् उद्घाटितम्, सेनानीनां परिजनानां स्वागतं कृतम्
बलिया, १९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य बलियाजनपदे बलिया-बलिदानदिवसस्य अवसरे १९४२ तमे वर्षे आङ्ग्लशासकान् निष्कासयितुं संघर्षं कृतवन्तः वीरसपूताः स्मृताः। बुधवासरे प्रातः जनपद-कारागारस्य द्वारं प्रती-कात्मकरूपेण उद्घाटितम् तथा नगरस्य प्रमुखचतुष
जेल से निकलते लोगों का स्वागत करते मंत्री


बलिया, १९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य बलियाजनपदे बलिया-बलिदानदिवसस्य अवसरे १९४२ तमे वर्षे आङ्ग्लशासकान् निष्कासयितुं संघर्षं कृतवन्तः वीरसपूताः स्मृताः। बुधवासरे प्रातः जनपद-कारागारस्य द्वारं प्रती-कात्मकरूपेण उद्घाटितम् तथा नगरस्य प्रमुखचतुष्पथेषु गच्छन्ती प्रभातशोभायात्रा आयोजिता।

यदा कारागारस्य द्वारम् उद्घाटितम्, तदा परिवहनराज्यमन्त्री दयाशङ्करसिंहस्य नेतृत्वे अल्पसंख्यककल्याणराज्यमन्त्री दानिश-आजादअन्सारी, काङ्ग्रेसदलस्य प्रदेशाध्यक्षः अजयरायः, जनपदाधिकारी मङ्गलाप्रसादसिंहः तथा आरक्षकाधीक्षकः ओमवीरसिंहः सेनानीनां उत्तराधिकारिभ्यः मालाः अर्पयित्वा तेषां स्वागतं कृतवन्तः।

तदनन्तरं ऐतिहासिककारागारात् निर्गत्य सहस्रशः जनाः नगरस्य प्रमुखचतुष्पथान्—कुँवरसिंहचतुष्पथं, टी.डी. महाविद्यालयं च अतिक्रम्य बापूभवनं प्राप्तवन्तः। ततः अपराह्णे गङ्गाबहुद्देशीयसभागारे कार्यक्रमः आयोजितः, यस्मिन् सेनानीनां परिजनाः सम्मानिताः।

बलियाबलिदानदिवसः किमर्थम् आचर्यते?

१९४२ तमस्य वर्षस्य भारत-त्यागान्दोलनस्य समये अगस्तमासस्य १९ दिनाङ्कः बलियायाः वीरसपूतानां ब्रिटिशशासनस्य विरुद्धं कृतस्य ऐतिहासिकसंघर्षस्य अदम्य-साहसस्य च स्मरणं कारयति। अस्मिन्नेव दिने चित्तूपाण्डेयस्य नेतृत्वे बलियानगरस्य जनैः आङ्ग्लशासकाः निष्कासिताः, जनपद-कारागारस्य द्वारं भग्नं कृत्वा च स्वं स्वतन्त्रं घोषितम्। ततः समानान्तर-सर्वकारस्य स्थापनापि कृता।

सहस्रशः बलियाजनाः जनपद-कारागारम् आक्रम्य तत्र बद्धान् सेनानीन् मुक्तवन्तः तथा आङ्ग्लशासनं तस्मात् क्षेत्रात् उन्मूलितवन्तः। नगरस्य गुदरीविपणे ब्रिटिश-आरक्षकविभागेन सह संघर्षं कुर्वन्तः अनेके हुतात्मानः वीरगतिं प्राप्तवन्तः।

अयं दिवसः देशस्य स्वातन्त्र्यार्थं स्वप्राणान् समर्पितवतां अमरस्वतन्त्रतासेनानीनां स्मरणार्थं तथा तेषाम् अदम्यसाहसस्य सम्मानार्थम् आचर्यते।

Hindusthan Samachar / Divya Ranjan