Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १९ अगस्तमासः (हि.स.)। दिल्ली इत्यस्य मुख्यमन्त्री रेखागुप्ता अवदत् यत् आमआदमीपक्षस्य पूर्वमन्त्री सत्येन्द्रजैनः दिल्लीजलमण्डले लुण्ठनं कृतवान्, तस्यैव कारणेन सः कारागारं गतवान्। सर्वाः अन्वेषणसंस्थाः स्वकीयकार्यं कुर्वन्ति।
मुख्यमन्त्री बुधवासरे दिल्ली-विश्व-विद्यालयस्य क्रीडासङ्कुलस्थले आयोजित-कार्यक्रमात् पृथक् पत्रकारान् सम्बोधयन्ती अवदत् यत् दिल्लीसर्वकारेण विधानसभायां १९ नियन्त्रक-महा-लेखापरीक्षकस्य प्रति-वेदनानि प्रस्तुतानि। तेषु पूर्वस्य आमआदमी-पक्षसर्वकारस्य तथा तस्य प्रमुखस्य अरविन्द-केजरीवालस्य एकैकस्य लुण्ठनस्य विवरणं प्रस्तुतम् आसीत्। सर्वेषु सी.ए.जी. प्रतिवेदनेषु कार्यवाही प्रचलति। सत्येन्द्रजैनः जलमण्डले लुण्ठनं कृतवान्, तस्यैव कारणेन सः कारागारं गतवान्। कार्यवाही प्रचलति तथा अन्वेषणसंस्थाः स्वकीयकार्यं कुर्वन्ति।
दिल्ली इत्यस्य जलमन्त्री प्रवेशसाहिबसिंहः अद्य ‘एक्स’ इति सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तवान् यत् सत्ता उत्तरदायित्वस्य प्रक्रियायां विलम्बं कर्तुं शक्नोति, किन्तु तां समाप्तुं न शक्नोति। जलमण्डलस्य मलजलशोधनसंयन्त्राणां निविदाप्रक्रियायां जातानां अनियमिततानां कारणेन अधुना पूर्वमन्त्रिणः सत्येन्द्र-जैनस्य ग्रहणम् अभवत्। पदं परिवर्तितुं शक्नोति, किन्तु अभिलेखाः त एव तिष्ठन्ति।
दिल्ली इत्यस्य पर्यावरणमन्त्री मनजिन्दरसिंहसिरसा अपि ‘एक्स’ इति सामाजिकमाध्यमे प्रकाशिते सन्देशे उक्तवान् यत् केजरीवालसमूहस्य प्रत्येकस्मिन् विभागे केवलं लुण्ठनानामेव इतिहासः अस्ति। मलजलशोधन-संयन्त्रसम्बद्धे लुण्ठनानि सत्येन्द्रजैनस्य ग्रहणं स्पष्टं कृतवती यत् धनस्य व्यापकः दुरुपयोगः अभवत्। भ्रष्टाचारनिरोधक-शाखायाः अन्वेषणे धनस्य प्रवाहः प्रकाशे आगतः। केजरीवालस्य लोभेन मातुः यमुना-नद्याः स्वच्छतायै निर्धारितं धनमपि न त्यक्तम्। तेन समग्रं धनं मिथ्याविज्ञापनानां तथा ‘शीशमहलस्य’ विलासपूर्णजीवनस्य च कृते व्ययितम्। केजरीवालस्य आमआदमीपक्षस्य च पापानां घटः सम्पूर्णतया पूरितः अस्ति।
Hindusthan Samachar / Divya Ranjan