उत्तरप्रदेश-जापान-निवेशसमागमे मुख्यमन्त्रिणा सह केन्द्रीयमन्त्रिणावपि सम्मिलितौ, औद्योगिकसहयोगस्य प्रतिबद्धता पुनरुक्ता
लखनऊ, १९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य जापानस्य च मध्ये निवेशस्य, प्रौद्योगिक्याः, नवाचारस्य, विनिर्माणस्य, कौशलविकासस्य, औद्योगिकसहयोगस्य च नूतनां गतिं प्रदातुम् उद्दिश्य बुधवासरे नवदिल्ली इत्यत्र आयोजिते उत्तरप्रदेश-जापान-निवेशसमागमे-२०२६ राज
यूपी-जापान इन्वेस्टमेंट मीट की बैठक करते मुख्यमंत्री योगी


लखनऊ, १९ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य जापानस्य च मध्ये निवेशस्य, प्रौद्योगिक्याः, नवाचारस्य, विनिर्माणस्य, कौशलविकासस्य, औद्योगिकसहयोगस्य च नूतनां गतिं प्रदातुम् उद्दिश्य बुधवासरे नवदिल्ली इत्यत्र आयोजिते उत्तरप्रदेश-जापान-निवेशसमागमे-२०२६ राज्यस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन सह केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः तथा केन्द्रीयरेल-सूचनाप्रसारण-इलेक्ट्रॉनिकी-सूचनाप्रौद्योगिकीमन्त्री अश्विनीवैष्णवः अपि सम्मिलितौ। कार्यक्रमे जापानी-उद्योगानां कृते उत्तरप्रदेशं दीर्घकालिकनिवेशस्य औद्योगिक-सहभागितायाः च प्रमुखकेन्द्ररूपेण विकसितुं प्रतिबद्धता व्यक्ता।

कार्यक्रमे एस्कॉर्ट्सकुबोटालिमिटेड् तथा स्पार्कमिण्डाकॉरपोरेशनलिमिटेड् इत्येतयोः परियोजनयोः आभासीयभूमिपूजनं कृतम्। एस्कॉर्ट्सकुबोटालिमिटेड् द्वारा हलयन्त्राणां निर्माणोपकरणानां च निर्माणाय यीडास्थिते दशमे क्षेत्रे परियोजना स्थाप्यते, येन प्रायः ३,८०० अधिकाः रोजगारावसराः सृज्येरन् इति सम्भावना अस्ति। स्पार्कमिण्डा-कॉरपोरेशनलिमिटेड् द्वारा यीडायां द्वे बृहत्यौ विनिर्माणपरियोजने स्थाप्येते, ययोः कृते समग्रतया १०,१६६ कोटिरूप्यकाणां निवेशः प्रस्तावितः अस्ति तथा प्रायः ६,४४० रोजगारावसराः सृज्येरन्।

अस्मिन् अवसरे केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः अवदत् यत् उत्तरप्रदेशः भारतस्य विकासस्य प्रमुखप्रेरकः भवन् अद्य विश्वस्य निवेशस्य गन्तव्यस्थानमपि भवति। भारतं जापानं च द्वयं प्राचीनतमं महद्राष्ट्रत्वेन स्तः। भारत-जापानयोः सम्बन्धः केवलं द्वयोः देशयोः सम्बन्धः न, अपितु द्वयोः संस्कृत्योः संवादः, द्वयोः सभ्यतयोः सङ्गमः, द्वयोः सङ्कल्पयोः समन्वयश्च अस्ति।

कृषिमन्त्री अवदत् यत् भारतं जापानं च प्रतिस्पर्धायां न, अपितु सहयोगे, सहकारे समन्वये च विश्वासं कुर्वतः। जापानेन सह भारतस्य सहभागिता केवलं निवेशसहभागिता न, अपितु विकासस्य, कूटनीतेः गौरवस्य च सहभागिता अस्ति। उत्तरप्रदेशः जापानी-उद्योगान् केवलं निवेशकरूपेण न, अपितु विकास-सहभागिरूपेण स्वीकरिष्यति। निवेशस्य सर्वोत्तमरूपं तत् अस्ति, यत् राश्या सह सामर्थ्यम्, प्रौद्योगिक्या सह प्रतिभां, लाभेन सह समृद्धिं च आनयेत् तथा राजस्वादधिकं सम्बन्धं सुदृढं कुर्यात्।केन्द्रीयरेल-सूचनाप्रसारण-इलेक्ट्रॉनिकी-सूचनाप्रौद्योगिकीमन्त्री अश्विनीवैष्णवः अवदत् यत् उत्तरप्रदेश-जापान-निवेशसमागमः भारत-जापानयोः तथा उत्तरप्रदेश-यामानाशी-प्रदेशयोः सम्बन्धान् अधिकं सुदृढं कर्तुं महत्त्वपूर्णः प्रयत्नः अस्ति। भारतस्य आर्थिकसंवृद्धिः विश्वेन स्वीकृता अस्ति। भारतः ६ तः ८ प्रतिशतपर्यन्तं सततवृद्धिदरेण, नियन्त्रितमुद्रास्फीत्या स्वस्थवित्तीय-स्थित्या च अग्रे गच्छति।

सः अवदत् यत् भारतस्य विकासयात्रायाः प्रमुखस्तम्भेषु सामाजिकं, डिजिटल् तथा भौतिकं च आधारभूतसंरचनायां निवेशः, समावेशी विकासः, विनिर्माणम्, नवाचारः तथा नियमनां सरलीकरणं च अन्तर्भवन्ति। भारतदेशे प्रतिवर्षं प्रायः १३० अरब-अमेरिकीय-डॉलर-परिमितः सार्वजनिकनिवेशः निरन्तरं क्रियते। आधारभूतसंरचनायां क्रियमाणेन निवेशेन आर्थिकक्रियाकलापानां व्यापकः विकासः जातः तथा नूतनाः रोजगारावसराः सृज्यन्ते।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अद्य भारतस्य सर्वाधिकजनसङ्ख्यायुक्तस्य राज्यस्य उत्तरप्रदेशस्य जापानदेशस्य यामानाशी-प्रदेशस्य च मध्ये सहभागितां अधिकं सुदृढां कर्तुम् उद्दिश्य वयम् अत्र समागताः स्मः। एषा सहभागिता विश्वासस्य, प्रौद्योगिक्याः, संस्कृतेः, निवेशस्य, सहभाग-दृष्टिकोणस्य च दृढाधारे निर्मिता अस्ति।मुख्यमन्त्री अवदत् यत् भारत-जापानयोः सम्बन्धः सांस्कृतिक-आध्यात्मिकविश्वासे आधारितः अस्ति, यस्मिन् भगवतः बुद्धस्य करुणा, जीवनस्य अनुशासनं मध्यम-मार्गश्च तथा उभयोः देशयोः सहभाग-मूल्यानि अन्तर्भवन्ति। भारत-जापानयोः सहभागिता सहभाग-विकासस्य, सहभाग-प्रौद्योगिक्याः सहभाग-समृद्धेश्च सहभागिता अस्ति।

मुख्यमन्त्री योगी अवदत् यत् उत्तरप्रदेशः अद्य भारतस्य त्रिषु प्रमुखेषु अर्थतन्त्रेषु अन्तर्भवन् भारतस्य विकासस्य प्रमुखप्रेरकः अभवत्। गतनववर्षेषु सुरक्षिततया, स्थिरतया, शीघ्रतया च उत्तरप्रदेशस्य वित्तविवरणं, सकलराज्य-गृहोत्पादं प्रतिव्यक्त्यै च त्रिगुणं कर्तुं वयं सफलाः अभवाम। अस्मिन् काले उत्तरप्रदेशे महिलानां श्रमशक्ति-सहभागितायाः अपि त्रिगुणादधिकः विस्तारः अभवत्। एकट्रिलियन-अमेरिकीय-डॉलर-परिमिताम् अर्थव्यवस्थां भवितुं दिशि वयं दृढतया अग्रे गच्छामः।

मुख्यमन्त्री अवदत् यत् उत्तरप्रदेश-जापानयोः सम्बन्धाः प्राचीनसभ्यता-गतविरासतेः आधारे स्थिताः सन्ति। जापानदेशः उदयमानसूर्यस्य देशः अस्ति, उत्तरप्रदेशश्च सूर्यवंशस्य, श्रीरामस्य, श्रीकृष्णस्य, बुद्धस्य तथा असीमित-सम्भावनानां देशः अस्ति। भगवतः बुद्धस्य जीवनसम्बद्धानि कपिलवस्तु, सारनाथ, श्रावस्ती, कुशीनगर इत्यादीनि विश्व-प्रसिद्धानि बौद्धतीर्थस्थानानि उत्तरप्रदेशे स्थितानि सन्ति। भगवतः बुद्धस्य प्रसादरूपः कृष्णलवणं तण्डुलम् अस्माकं एकजनपद-एकोत्पादयोजनायाः भागः अस्ति।

उत्तरप्रदेशस्य वित्त-संसदीयकार्य-मन्त्री सुरेशकुमारखन्ना अवदत् यत् भारत-जापानयोः सम्बन्धाः गहनसांस्कृतिक-सम्बन्धेभ्यः, सहभाग-मूल्येभ्यः, परस्पर-विश्वासात्, भविष्यस्य सहभाग-दृष्टिकोणाच्च आधारिताः सन्ति।

एस्कॉर्ट्सकुबोटालिमिटेड्-संस्थायाः अध्यक्षः मुख्यकार्यकारी अधिकारी च शिङ्गोहानडा उत्तरप्रदेशसर्वकारस्य, भारत-सर्वकारस्य तथा इन्वेस्ट् यू.पी. इत्यस्य सहयोगाय कृतज्ञतां व्यक्तवान्। सः अवदत् यत् उत्तरप्रदेशः भारतस्य शीघ्रविकासमानानाम् औद्योगिक-केन्द्राणाम् अन्यतमम् अस्ति। तेन उत्तरप्रदेशस्य औद्योगिकक्षमतायाः भविष्यसम्भावनानां च विषये विश्वासः व्यक्तः।

स्पार्कमिण्डाकॉरपोरेशनलिमिटेड्-संस्थायाः कार्यकारीनिदेशकः आकाश-मिण्डा उत्तरप्रदेशे औद्योगिक-विकासाय मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वस्य प्रशंसां कृत्वा अवदत् यत् प्रदेशे द्रुतमार्गाः, मालवाहन-औद्योगिकमार्गाः, विश्वस्तरीय-रसदाधारभूतसंरचना, औद्योगिकोद्यानानि, कुशलमानवशक्तिः, स्मार्टनगरवसनानि तथा नोएडा-अन्ताराष्ट्रियविमानपत्तनम् इत्यादयः उद्योगानां कृते दृढाधारं निर्मान्ति।आकाशमिण्डा अवदत् यत् मिण्डासमूहः उत्तरप्रदेशे चत्वारिंशद्वर्षेभ्यः अधिककालात् कार्यं कुर्वन् अधुना नवसहस्राधिकेभ्यः जनभ्यः रोजगारं प्रददाति। समूहः उन्नतप्रौद्योगिक्याः, वाहनभागानां, विद्युद्वा-हनसम्बद्धानां उत्पादानाम्, इलेक्ट्रॉनिकी-सामग्रीणां तथा अभि-कल्पना-विकासकेन्द्राणां क्षेत्रेषु निवेशं वर्धयितुं कार्यं करोति। जापानस्य विश्वस्तरीय-प्रौद्योगिकी, वैश्विकगुणवत्ता, सूक्ष्म-विनिर्माणक्षमता तथा उत्तरप्रदेशस्य विस्तृतपरिमाणम्, प्रतिभा, आधारभूत-संरचना, नीतिसहयोगः, विशालं च विपणम् - एतेषां समन्वयः अत्यन्तं प्रभावशालिन्याः औद्योगिकसहभागितायाः आधारः भवितुम् अर्हति।

अस्मिन् अवसरे जापानदेशस्य यामानाशी-प्रदेशस्य राज्यपालः कोटारोनागासाकी, उत्तरप्रदेशस्य औद्योगिकविकासमन्त्री नन्द-गोपालगुप्तः ‘नन्दी’, नगरविकास-मन्त्री ए.के. शर्मा, इलेक्ट्रॉनिकी-सूचनाप्रौद्योगिकीमन्त्री सुनीलकुमारशर्मा, औद्योगिकविकास-राज्यमन्त्री जसवन्तसिंहसैनी इत्यादयः गणमान्याः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan