स्वरोजगारयोजनासु गतिं वर्धयन्तु धनागाराः, लक्ष्यस्य अनुरूपं ऋणवितरणस्य निर्देशः
- दूरस्थक्षेत्रेभ्यः आगच्छन्तानाम् अभ्यर्थिनां अनावश्यकरूपेण धनागारपरिक्रमणं मा कारयन्तु – मुख्यविकासाधिकारी गोपेश्वरः, १९ अगस्तमासः (हि.स.)। चमोलीजनपदस्य मुख्यविकासाधिकारी डॉ. अभिषेकत्रिपाठी बुधवासरे जनपद-स्तरीयपुनरीक्षणसमित्याः सभायां धनागारान्
जिला स्तरीय पुनरीक्षण समिति की बैठक लेते हुए सीडीओ।


- दूरस्थक्षेत्रेभ्यः आगच्छन्तानाम् अभ्यर्थिनां अनावश्यकरूपेण धनागारपरिक्रमणं मा कारयन्तु – मुख्यविकासाधिकारी

गोपेश्वरः, १९ अगस्तमासः (हि.स.)। चमोलीजनपदस्य मुख्यविकासाधिकारी डॉ. अभिषेकत्रिपाठी बुधवासरे जनपद-स्तरीयपुनरीक्षणसमित्याः सभायां धनागारान् निर्देशितवान् यत् सर्वकारीय-स्वरोजगार-ऋणयोजनानां लाभः पात्रेभ्यः जनेभ्यः समये एव प्राप्नुयात्। अतः ऋणप्रार्थनापत्राणां निस्तारणे गतिं वर्धयित्वा लक्ष्यस्य अनुरूपं ऋणवितरणं सुनिश्चितं कुर्वन्तु।

सभायां मुख्यमन्त्रीस्वरोजगारयोजना, प्रधानमन्त्रीरोजगारसृजनकार्यक्रमः, राष्ट्रीयग्रामीण-नगरीयजीविकोपार्जन-अभियानम्, वीरचन्द्रसिंहगढवाली-पर्यटनस्वरोजगारयोजना, गृहावासयोजना तथा विशेषघटकयोजना इत्यादीनां विभिन्नानां योजनानाम् अन्तर्गतं प्राप्तानां प्रार्थनापत्राणां, स्वीकृतानां ऋणानां वितरितानां च ऋणानां समीक्षा कृता।मुख्यविकासाधिकारी अवदत् यत् यदि धनागारैः ऋणप्रार्थनापत्रं निरस्तं क्रियते, तर्हि तस्य स्पष्टं कारणं दातव्यम्। येषां धनागाराणाम् ऋण-जमा-अनुपातः ४० प्रतिशतादपि न्यूनः अस्ति, तेभ्यः सी.डी. अनुपाते सुधारं कर्तुं निर्देशः दत्तः।

सः अवदत् यत् दूरस्थक्षेत्रेभ्यः आगच्छ-न्तानाम् अभ्यर्थिनां धनागार-प्रक्रियायै पुनः पुनः धनागारं गन्तुम् आवश्यकता न भवेत्। विभागैः धनागारैश्च परस्पर-समन्वयेन ऋणप्रार्थनापत्राणां समयबद्धं निस्तारणं सुनिश्चितं करणीयम्।सभायां सूचितं यत् मुख्यमन्त्री-स्वरोजगारयोजनायाः ६५० इति लक्ष्यस्य सापेक्षे ६२९ प्रार्थनापत्राणि धनागारेभ्यः प्रेषितानि, येषु २५४ प्रार्थनापत्रेषु ऋणवितरणं सम्पन्नम् अस्ति। राष्ट्रीयग्रामीणजीविकोपार्जन-अभियानस्य १५०९ प्रार्थनापत्रेषु ११०३ प्रार्थनापत्रेषु ऋणवितरणं कृतम् अस्ति।पर्यटनस्वरोजगारयोजनायाः वाहनवर्गे त्रिषु प्रार्थनापत्रेषु तथा गैरवाहनवर्गे पञ्चसु प्रार्थनापत्रेषु ऋणवितरणं कृतम् अस्ति। गृहावासयोजनायां नवसु प्रार्थनापत्रेषु ऋणवितरणं सम्पन्नम् अस्ति। वित्तीय-वर्षस्य २०२६-२७ प्रथमत्रैमासिके जनपदस्य ऋण-जमा-अनुपातः २६.७६ प्रतिशतं आसीत्।

मुख्यविकासाधिकारिणा धनागारशाखानां प्रबन्धकाः निर्देशिताः यत् अग्रिमसभायां शाखानुसारं निर्धारितलक्ष्यस्य प्राप्तेः च विस्तृतं प्रतिवेदनं प्रस्तुतं कुर्वन्तु। अस्मिन् अवसरे परियोजनानिदेशकः आनन्दसिंहः, भारतीय-रिजर्व-धनागारतः रजनीशसैनी, नाबार्डतः श्रेयांशजोशी तथा विभिन्न-धनागाराणां शाखाप्रबन्धकाः विभागी-याधिकारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan