Enter your Email Address to subscribe to our newsletters

- पञ्चषष्टिसहस्राधिकाः वनस्पति-कलाकृतयः संरक्षिताः, त्रिशतवर्षपर्यन्तं संरक्षणस्य व्यवस्था
हरिद्वारम्, १९ अगस्तमासः (हि.स.)। भारतस्य आयुर्वेदिकायाः वनस्पति-परम्परायाः च वैश्विकपरिचयं स्थापयन् अद्वितीयः औषधीयवनस्पति-कला-सङ्ग्रहालयः हरिद्वारस्थिते पतञ्जलि-अनुसन्धान-प्रतिष्ठाने आकारं प्राप्तवान् अस्ति। सङ्ग्रहालये विश्वस्य विभिन्न-भागेभ्यः प्राप्तानां औषधीयानां जैवविविधता-सम्पन्नानां च वनस्पतीनां पञ्चषष्टि-सहस्राधिकाः वनस्पतिकला-कृतयः संरक्षिताः सन्ति। अस्य विशालस्य सङ्ग्रहस्य वैज्ञानिक-तथ्यकरणस्य कलात्मकप्रस्तुतेश्च अद्भुतः समन्वयः इति मन्यते।
३०,५०० पटचित्राणि ३५,००० रेखाचित्राणि च
सङ्ग्रहालये ३०,५०० हस्तनिर्मितानि वर्णयुक्तानि पटचित्राणि तथा प्रायः ३५,००० रेखाचित्राणि सुरक्षितानि सन्ति। एतेषु चित्रेषु वनस्पतीनां संरचना, पुष्पाणि, फलानि, बीजानि, पत्राणि अन्याः च सूक्ष्मविशेषताः वैज्ञानिकदृष्ट्या चित्रिताः सन्ति। विशेषसंरक्षणव्यवस्थायाः कारणेन एताः कलाकृतयः प्रायः त्रिशतवर्षपर्यन्तं स्वमूलस्वरूपे सुरक्षिताः स्थास्यन्ति इति कथ्यते।
१७६२ स्लाइडर-पात्रेषु ५० पुटकाष्ठ-पेटिकासु च सुव्यवस्थितः सङ्ग्रहःसम्पूर्णः सङ्ग्रहः वर्णक्रमानुसारं व्यवस्थितः अस्ति। वर्णयुक्तानि पटचित्राणि १७६२ विशेषस्लाइडर्-पात्रेषु स्थापितानि सन्ति, यदा रेखाचित्राणि ५० कपाटयुक्तासु विशेषकाष्ठपेटिकासु संरक्षितानि सन्ति। अस्य सुव्यवस्थितस्य स्वरूपस्य कारणेन एषः सङ्ग्रहः शोधकर्तॄणां वैज्ञानिकानां वनस्पतिविज्ञानस्य विद्यार्थिनां च कृते महत्त्वपूर्णा अध्ययनसामग्री भवितुम् अर्हति।
आचार्यबालकृष्णस्य सङ्कल्पेन साकारं स्वप्नम्
अस्य सङ्ग्रहालयस्य परिकल्पनायाः पृष्ठे पतञ्जलियोगपीठस्य महामन्त्रिणः आचार्यबालकृष्णस्य सङ्कल्पः इति कथ्यते। कोलकातायां निवाससमये तेन प्रायः त्रिसहस्रसंरक्षितवनस्पतिचित्राणां सङ्ग्रहः दृष्टः आसीत्। भारतीय-वनस्पतिनाम् एतादृशेन सुव्यवस्थित-तथ्यकरणेन प्रेरितस्य तस्य मनसि भारतदेशे अस्मात् अपि व्यापकतरस्य सङ्ग्रहस्य निर्माणस्य विचारः उत्पन्नः। हरिद्वारं प्रत्यागत्य वनस्पतिवैज्ञानिकानां कलाकाराणां च पृथक् पृथक् दलानि निर्मितानि। वर्षाणां शोधस्य परिश्रमस्य कलासाधनायाश्च अनन्तरम् अयं विशालः सङ्ग्रहः अद्य पतञ्जलि-अनुसन्धानप्रतिष्ठाने साकारं रूपं प्राप्तवान् अस्ति।
पटे जीवन्तमिव दृश्यन्ते वनस्पतयःसङ्ग्रहालयस्य सर्वाधिकं विशेषत्वं प्रायः एकमीटरपरिमाणानि हस्तनिर्मितानि पटचित्राणि सन्ति। ऐक्रेलिक-माध्यमेन निर्मितेषु एतेषु चित्रेषु वनस्पतिनाम् आकारः, वर्णः, संरचना तथा सूक्ष्माः अवयवाः एतादृशेन कौशलेन चित्रिताः सन्ति यत् प्रथमदृष्टौ ते वास्तविक-वनस्पतीः इव प्रतिभान्ति।
आचार्यबालकृष्णस्य अनुसारम् अयं सङ्ग्रहः विंशतितमस्य एकविंशतितमस्य च शताब्द्योः समृद्धेषु वनस्पतिकलासङ्ग्रहेषु स्वकीयं विशिष्टं परिचयं स्थापयितुं शक्नोति। तथापि पतञ्जलेः सङ्ग्रहः स्वस्य विशालतया, विविधतया, वैज्ञानिकपद्धत्या सुव्यवस्थितैः पटचित्रैः रेखाचित्रैश्च विशिष्टं परिचयं प्राप्नोति।
शोधार्थिनां कृते वैश्विकं ज्ञानकेन्द्रम्इदम् औषधीयवनस्पतिकलासङ्ग्रहालयं केवलं कलाकृतीनां सङ्ग्रहः नास्ति, अपितु आयुर्वेदस्य, वनस्पतिविज्ञानस्य, जैव-विविधतायाः प्रकृतिसंरक्षणस्य च अध्ययनाय महत्त्वपूर्णं ज्ञानकेन्द्ररूपेण विकसितं क्रियते। एकस्मिन् एव स्थले संरक्षिताः सहस्रशः कलाकृतयः भाविवंशानां कृते भारतस्य वनस्पति-परम्परायाः आयुर्वेदिक-परम्परायाश्च दृश्यतथ्यरूपेण सिद्धाः भवितुम् अर्हन्ति।
पतञ्जलियोगपीठस्य महामन्त्री आचार्य-बालकृष्णः कथयति यत् अयम् औषधीयवनस्पति-कलासङ्ग्रहालयः केवलं चित्राणां सङ्ग्रहः नास्ति, अपितु भारतस्य आयुर्वेदिकपरम्परायाः वैज्ञानिकदृष्टेः कलात्मकाभिव्यक्तेश्च अ-द्वितीयः सङ्गमः अस्ति। एषः भाविवंशानां कृते ज्ञानस्य, अनुसन्धानस्य, प्रकृतिसंरक्षणस्य च अमूल्यः धरोहरः सिद्धः भविष्यति।
Hindusthan Samachar / Divya Ranjan