Enter your Email Address to subscribe to our newsletters

भोपालम्, 27 अगस्तमासः (हि.स.) ।
मध्यप्रदेशस्य राज्यपालः मङ्गुभाई पटेलः प्रदेशवासिभ्यः रक्षाबन्धनस्य पावनपर्वणः हार्दिकं बधाई-शुभकामनाः च अयच्छत्।
राज्यपालः पटेलः गुरुवासरे स्वस्य शुभकामना-सन्देशे उक्तवान् यत् रक्षाबन्धनपर्व भ्रातृभगिन्योः स्नेहस्य दृढविश्वासस्य च प्रतीकम् अस्ति। एतत् पर्व अस्माकं गौरवशालिन्याः भारतीयसंस्कृतेः गरिमामयस्य उत्कर्षस्य प्रतीकम् अस्ति। एतत् पर्व भ्रातृभगिन्योः पवित्रप्रेम्णः, पारिवारिकसमरसतायाः सामाजिकसौहार्दस्य च प्रेरणां ददाति।
सः रक्षाबन्धनस्य माध्यमेन भारतीयसंस्कृतेः गौरवशालिनीं परम्परां प्रति सम्मानस्य प्रगतेः च भावनां स्वजीवने आत्मसात्कर्तुं तथा मातृशक्तेः सम्मानस्य, सहयोगस्य सशक्तीकरणस्य च दिशि सक्रियसहभागितायाः सङ्कल्पं कर्तुं आह्वानं कृतवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani