एसएसपी कार्यालये एनसीसीसैनिकच्छात्राःसमाचरन् रक्षाबंधनं, सुरक्षा अथ च सामाजिक समरसता इत्येषामददुः संदेशम्
भागलपुरम्, 27 अगस्तमासः (हि.स.)। रक्षाबंधनपर्वणः शुभावसरे एनसीसी-भागलपुरस्य महिला-कैडेट्-छात्राभिः गुरुवासरे वरिष्ठपुलिसाधीक्षकस्य कार्यालये आत्मीयः सौहार्दपूर्णश्च रक्षाबन्धन-कार्यक्रमः आयोजितः। अस्मिन् अवसरे एनसीसी-संस्थायाः छात्राभिः वरिष्ठपु
एसएसपी को राखी बांधती एनसीसी कैडेट्स


भागलपुरम्, 27 अगस्तमासः (हि.स.)।

रक्षाबंधनपर्वणः शुभावसरे एनसीसी-भागलपुरस्य महिला-कैडेट्-छात्राभिः गुरुवासरे वरिष्ठपुलिसाधीक्षकस्य कार्यालये आत्मीयः सौहार्दपूर्णश्च रक्षाबन्धन-कार्यक्रमः आयोजितः।

अस्मिन् अवसरे एनसीसी-संस्थायाः छात्राभिः वरिष्ठपुलिसाधीक्षकाय स्नेहपूर्वकं रक्षासूत्रं बन्धितम्। ताभिः भ्रातृभगिन्योः पवित्रस्नेहस्य, विश्वासस्य, सम्मानस्य सुरक्षायाश्च भावनाः व्यक्ताः। वरिष्ठपुलिसाधीक्षकः अपि कैडेट्-छात्राभ्यः पर्वणः शुभकामनाः प्रदत्तवान्। सः तासां उज्ज्वलभविष्यस्य, सफलतायाः निरन्तरप्रगतेश्च कामनां कृतवान्। वरिष्ठपुलिसाधीक्षकः छात्राणां अस्याः आत्मीयपहलस्य प्रशंसाम् अकरोत्।

सः अवदत् यत् रक्षाबन्धनं केवलं पारिवारिकं पर्व नास्ति। अपितु एतत् परस्परविश्वासं, सम्मानं, सुरक्षां सामाजिकसम्बन्धं च सुदृढीकर्तुं महत्त्वपूर्णं माध्यमम् अस्ति। सः पुनरपि अवदत् यत् पुलिसबलं सदैव समाजस्य सुरक्षा-सेवा-सहयोगयोः कृते प्रतिबद्धम् अस्ति। युवजनानां पुलिसबलस्य च मध्ये एतादृशाः कार्यक्रमाः परस्परविश्वासम् आत्मीयतां च अधिकं सुदृढीकुर्वन्ति। तेन समाजे सकारात्मकः सन्देशः प्रसरति।

कार्यक्रमस्य समये एनसीसी-छात्राणां पुलिसपदाधिकारिणां च मध्ये आत्मीयः संवादः अभवत्। छात्राभिः समाजस्य सुरक्षायै विधिव्यवस्थायाः संरक्षणाय च पुलिसबलस्य कार्येषु सम्मानः कृतज्ञता च व्यक्ता।

अयं कार्यक्रमः पुलिसबलस्य युववर्गस्य च सम्बन्धान् प्रगाढान् कर्तुं, भ्रातृत्वस्य, सुरक्षायाः, सम्मानस्य सामाजिकसमरसतायाश्च आदर्शं स्थापयितुं सफलः अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani