उत्तरप्रदेशस्य नगरीय बसयानेषु 29 अगस्त दिनांकस्य रात्रिं यावत् महिलानां कृते न दातव्यं भविष्यति भाटकम्
लखनऊ, 27 अगस्तमासः (हि.स.)। रक्षाबन्धनस्य अवसरे नगरीयविकासविभागस्य अन्तर्गतं सञ्चालितासु नगरीयपरिवहनस्य बसयानेषु महिलाभ्यः ताभिः सह यात्रां कुर्वते एकसहयात्रिकाय च निःशुल्कयात्रायाः सुविधा प्रदत्ता अस्ति। एषा सुविधा २७ अगस्त २०२६ दिनाङ्के प्रातः ६
नगर विकास मंत्री ए के शर्मा


लखनऊ, 27 अगस्तमासः (हि.स.)। रक्षाबन्धनस्य अवसरे नगरीयविकासविभागस्य अन्तर्गतं सञ्चालितासु नगरीयपरिवहनस्य बसयानेषु महिलाभ्यः ताभिः सह यात्रां कुर्वते एकसहयात्रिकाय च निःशुल्कयात्रायाः सुविधा प्रदत्ता अस्ति। एषा सुविधा २७ अगस्त २०२६ दिनाङ्के प्रातः ६ वादनतः २९ अगस्त २०२६ दिनाङ्कस्य रात्रौ १२ वादनपर्यन्तं प्रवर्तिष्यते।

एषा घोषणा प्रदेशस्य नगरविकासमन्त्रिणा ए. के. शर्मणा कृता अस्ति। तेन गुरुवासरे प्रकाशिते स्वीयवक्तव्ये उक्तं यत् निर्धारितावधौ नगरीयबसयानेषु यात्रां कुर्वतीभ्यः महिलाभ्यः ताभिः सह यात्रां कुर्वते एकसहयात्रिकाय च किमपि यात्राशुल्कं न गृह्यते। अनेन रक्षाबन्धनस्य अवसरे स्वभ्रातृभ्यः राखीं बध्नितुं मातृगृहं गच्छन्तीनां भगिनीनां यात्राव्ययस्य चिन्ता न भविष्यति तथा च ताः सहजतया सम्मानपूर्वकं सुरक्षिततया च स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति।

शासनस्य निर्णयानुसारं २७ अगस्तदिनाङ्कस्य प्रातः ६ वादनतः २९ अगस्तदिनाङ्कस्य रात्रौ १२ वादनपर्यन्तं नगरीयपरिवहनस्य बसयानेषु महिलाभ्यः ताभिः सह यात्रां कुर्वते एकसहयात्रिकाय च निःशुल्कयात्रायाः सुविधा प्राप्स्यते। एषा सुविधा रक्षाबन्धनस्य पूर्वं पश्चाच्च यात्रां सुलभतरां करिष्यति। सर्वकारस्य उद्देश्यम् अस्ति यत् रक्षाबन्धनपर्वणः अवसरे भगिनीभ्यः आवागमने कस्यापि प्रकारस्य असुविधायाः आर्थिकबाधायाश्च सामना न कर्तव्यः भवेत्।

मुख्यमन्त्रिणः योगी आदित्यनाथस्य नेतृत्वे प्रदेशसर्वकारः निरन्तरम् एतादृशान् उपायान् करोति, येन सामान्यजनानां जीवनं सुगमं भवेत् तथा महिलाभ्यः सम्मानजनकं सुरक्षितं च परिवहनसौविध्यं प्राप्येत। रक्षाबन्धनस्य अवसरे परिवहनबसयानेषु महिलानां निःशुल्कयात्रा तथा लोकमाता अहिल्याबाई मातृशक्ति योजनायाः अन्तर्गतं ६० वर्षेभ्यः अधिकवयस्काभ्यः सर्वाभ्यः महिलाभ्यः निःशुल्कयात्रायाः सौगातं प्रदत्तं च। तदनन्तरं नगरीयबसयानेषु निःशुल्कयात्रायाः एषा पहल अपि अस्यैव जनकल्याणकारीदृष्टिकोणस्य भागः अस्ति।

-----------------

Hindusthan Samachar / Dheeraj Maithani