गुलबहारसिंहेन निर्देशिते ‘प्रेमचन्दः एकं जीवनम्’ इति चलच्चित्रे कालजयी-लेखकस्य जीवनयात्रायाः मार्मिकं चित्रणम्
कोलकाता, ०३ अगस्तमासः (हि.स.)। भारतीयसाहित्यस्य अप्रतिमेन साहित्यकारेण उपन्याससम्राट् प्रेमचन्देन सह सम्बद्धस्य १४६तमस्य जयन्त्यवसरे कोलकातानगरे राष्ट्रीयग्रन्थालयस्य भाषाभवनस्य संगोष्ठी-कक्षे निर्देशकः गुलबहारसिंहेन दूरदर्शनाय निर्मितस्य ‘प्रेमचन्
फिल्म निर्देशक गुलबहार सिंह और अभिनेता इरफान खान (प्रेमचंद:एक जीवन)


कोलकाता, ०३ अगस्तमासः (हि.स.)। भारतीयसाहित्यस्य अप्रतिमेन साहित्यकारेण उपन्याससम्राट् प्रेमचन्देन सह सम्बद्धस्य १४६तमस्य जयन्त्यवसरे कोलकातानगरे राष्ट्रीयग्रन्थालयस्य भाषाभवनस्य संगोष्ठी-कक्षे निर्देशकः गुलबहारसिंहेन दूरदर्शनाय निर्मितस्य ‘प्रेमचन्दः एकं जीवनम्’ इति चलच्चित्रस्य प्रदर्शनम् अभवत्। अस्मिन् चलचित्रे प्रेमचन्दस्य सङ्घर्षान् विचारान् च निर्देशकः गुलबहारसिंहः यया प्रकारेण दर्शकानां पुरतः प्रस्तुतवान्, तत् अविस्मरणीयम् अस्ति।

रशीद-इकबालस्य पटकथायाम् आधारितमिदं चलच्चित्रं चतुर्भागेषु विभक्तम् अस्ति। दीर्घत्वेऽपि स्वस्य पटकथया, निर्देशनकौशलेन योग्यैः कलाकारैश्च एतत् चलच्चित्रं किञ्चिदपि नीरसं नाभवत्। गुलबहारसिंहेन तानि सर्वाणि स्थानानि गृहाणि च चलचित्रपटले दर्शकानां पुरतः प्रस्तुतानि, यत्र प्रेमचन्दः कदाचित् निवसति स्म अथवा येषां स्थलेषु तेन सह सम्बन्धः आसीत्।

प्रख्यातेन अभिनेत्रा इरफान-खानेन अस्मिन् चलचित्रे प्रेमचन्दस्य भूमिका निर्वुढा। स्वस्य अभिनयेन तेन प्रेमचन्दस्य चरित्रं जीवन्तं कृतम्। तदतिरिक्तं टॉम-अल्टरस्यापि अस्मिन् चलच्चित्रे विशिष्टा भूमिका आसीत्। अद्य एतौ उभौ कलाकारौ अस्माकं मध्ये न स्तः। अस्य चलचित्रस्य विशेषता एषाऽपि आसीत् यत् अधिकांशाः कलाकाराः, यथा सञ्जीव-शुक्लः, अशोक:, सुधीर-निगमः, मञ्जुला-सिंहः, पुण्यदर्शन-गुप्तः, प्रेम-मोदी, कृष्णकुमार-पार्थः अन्ये च अनेके कलाकाराः कलकत्तानगरेण सह सम्बद्धाः आसन्, तेषु केचन स्वयं कार्यक्रमे उपस्थिताः अपि आसन्। आकाशवाण्या सह सम्बद्धस्य प्रीतम-खन्नस्य गम्भीरा वाणी सूत्रधारस्य रूपेण अस्य चलचित्रस्य प्रभावं विशिष्टं स्तरं नीतवती।

स्वशब्दैः समाजस्य दर्पणं प्रदर्शयन्तं साहित्यं राजनीतेः मशाल इति कथयन्तं प्रेमचन्दस्य जीवनं कियत् चुनौतीपूर्णम् आसीत्, तत् अस्य चलच्चित्रस्य माध्यमेन द्रष्टुं शक्यते। प्रेमचन्दस्य बाल्यकालात् मृत्युपर्यन्तं जीवनस्य प्रत्येकं चरणं यया जीवन्ततया दर्शकानां पुरतः प्रस्तुतम्, तत् अविस्मरणीयम् आसीत्। एकस्य व्यक्तेः वैचारिकी पृष्ठभूमिः कथं विकसिताभवति, कथं च सः स्वविचारान् स्वलेखनीद्वारा समाजस्य चिन्तनक्षमतायाः प्रभावनायै प्रयुङ्क्ते, कथं कुरीतीनां विरुद्धं कठोरप्रहारं कृत्वा ताः सर्वेषां पुरतः आनेतुं दृढसङ्कल्पेन अनेकाः यातनाः सहते—प्रेमचन्दस्य जीवनस्य एषः पक्षः चलचित्रस्य माध्यमेन अत्यन्तं प्रभावशालिरूपेण दर्शकानां पुरतः प्रस्तुतः अस्ति।

किन्तु एतत् महद्दुःखस्य विषयः अस्ति यत् एतादृशं परिश्रमेण, शोधेन समस्यापूर्णे च वातावरणे निर्मितं ऐतिहासिकं चलचित्रम् अधुना सामान्यदर्शकानां प्रापणात् बहिः अस्ति। एतादृशस्य महत्त्वपूर्णस्य साहित्य-कारस्य जीवनी, यस्यां महान्त: कलाकाराः कार्यं कृतवन्तः, तां दर्शकाः दूरदर्शनसहितस्य कस्यापि डिजिटल-मञ्चस्य माध्यमेन द्रष्टुं न शक्नुवन्ति। वर्तमानकाले यदा चलच्चित्राणां माध्यमेन जनसमूहेषु द्वेषस्य बीजानि वप्यन्ते, तदा एतत् चलचित्रं स्वयमेव एकम् उदाहरणम् अस्ति यत् भाषा धर्मश्च कदापि भारतस्य जनमानसे द्वेषस्य आधारौ नाभवताम्। अद्य एतत् चलच्चित्रं प्रत्येकस्मिन् विद्यालये प्रदर्शयितुं व्यवस्था भवितुम् अर्हति स्म। परन्तु विडम्बना एषैव अस्ति यत् यस्य चलचित्रस्य जन-जनपर्यन्तं प्राप्ति: भवितुम् अपेक्षिता आसीत्, तत् दूरदर्शनस्य कस्मिन्नपि मञ्चे उपलब्धं नास्ति। निर्देशकस्य गुलबहारसिंहस्य अनुसारं तेन अस्मिन् विषये अनेकवारं दूरदर्शनस्य अधिकारिभ्यः अनुरोधाः कृताः, विचारा: प्रेषिताः, ई-मेल-सन्देशाः अपि प्रेषिताः, किन्तु दूरदर्शनस्य पक्षतः किमपि उत्तरं न प्राप्तम्।

/ अंशु गुप्ता