Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ०३ अगस्तमासः (हि.स.)। अमेरिकादेशस्य यूजीननगरे अगस्त-मासस्य ५ तः ९ दिनाङ्कपर्यन्तम् आयोज्यमानायै विश्व-एथलेटिक्स-अन्तः२०-चैम्पियनशिप् २०२६ स्पर्धायै भारतस्य ३६ सदस्यस्य दलस्य घोषणा कृता अस्ति। भारतीयदले २३ पुरुषाः १३ महिलाश्च एथलीट्-क्रीडकाः सम्मिलिताः सन्ति, येषु कुलं १८ स्पर्धासु देशस्य प्रतिनिधित्वं करिष्यन्ति।
पुरुषवर्गे मोहम्मद-अशफाकः, पीयूष-राजः (४०० मीटर), वेङ्कटराम-रेड्डी-मोगाली, उविन-आनन्दः (८०० मीटर), अमितकुमारः (४०० मीटर बाधाधावनम्), बसन्तः अम्ब्रीश-कार्तिकेयनश्च (उच्चकूर्दनम्), शाहनवाज-खानः जितिन-अर्जुनन्-रमनश्च (दीर्घकूर्दनम्), रॉयशन-चन्द्रशेखरः धनुष-राज-मन्नप्पाट्टी च (त्रिकूर्दनम्), निश्चयः (चक्रक्षेपणम्), आशीष-यादवः धरनीधरन्-थियागराजनश्च (कुन्तक्षेपणम्), नितिन-गुप्तः (५००० मीटर द्रुतचङ्क्रमणम्) सम्मिलिताः सन्ति।
तदतिरिक्तम् अंशुराजकः, आदित्य-तात्या-पिसालः, निवेद-कृष्ण-ज्योतिप्रकाशः, नील-समराजः रुद्र-सचिन-शिन्दे च पुरुषस्य ४×१०० मीटर रिले-दलस्य सदस्याः भविष्यन्ति। रञ्जितकुमारः, सबीर-सैयदः नकुल-प्रभुश्च पुरुषस्य ४×४०० मीटर् रिले-स्पर्धायां प्रतिस्पर्धां करिष्यन्ति।
महिलावर्गे तनु-चौधरी (४०० मीटर बाधाधावनम्), पूजा (उच्चकूर्दनम्), अंशु (गोला-क्षेपणम्), अमानत-कम्बोजः (चक्रक्षेपणम्) पूनमश्च (भालाक्षेपणम्) भारतीयदलस्य चुनौतीं नेष्यन्ति।
महिलानां ४×१०० मीटर रिले-दले आरती, भावना-गणेशकुमारः, काजल-हीराबाई-वाजा, रुजुला-अमोल-भोन्सले अनन्या-सुरेशश्च सम्मिलिताः सन्ति। तद्वत् तहुरा-खातूनः, भूमिका-सञ्जय-नेहाते तथा थिया-अरुमुगम् महिलानां ४×४०० मीटर रिले-दलस्य सदस्याः भविष्यन्ति।
विश्व-एथलेटिक्स-अन्तः२०-चैम्पियनशिप युव-क्रीडकानां कृते अन्ताराष्ट्रियस्तरे स्वप्रतिभां प्रदर्शयितुं महत्त्वपूर्णतमं मञ्चम् इति मन्यते। भारतीयक्रीडकाः अस्यां प्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा भविष्यस्य वरिष्ठ-अन्ताराष्ट्रिय-क्रीडा-स्पर्धासु दृढाधिकारं प्रस्तोतुं प्रयतिष्यन्ते।
Hindusthan Samachar / Divya Ranjan