'मिर्जापुरम् : द मूवी' इत्यस्य प्रथमं गीतं 'दो नंबरी' आगतम्
अलीफजलः, पङ्कजत्रिपाठी च अभिनीतस्य बहुप्रतीक्षितचलच्चित्रस्य ‘मिर्जापुरः : द मूवी’ इत्यस्य प्रथमं गीतं ‘दो नंबरी’ इदानीं प्रकाशितम्। अमेजनप्राइमवीडियो-माध्यमे त्रयाणां सफलऋतूनां प्रसारणानन्तरम् अधुना ‘मिर्जापुरः’ इत्यस्य कथा रूप्यकपटे (चलच्चित्रपटे
मिर्जापुर: द मूवी - फोटो सोर्स एक्स


अलीफजलः, पङ्कजत्रिपाठी च अभिनीतस्य बहुप्रतीक्षितचलच्चित्रस्य ‘मिर्जापुरः : द मूवी’ इत्यस्य प्रथमं गीतं ‘दो नंबरी’ इदानीं प्रकाशितम्। अमेजनप्राइमवीडियो-माध्यमे त्रयाणां सफलऋतूनां प्रसारणानन्तरम् अधुना ‘मिर्जापुरः’ इत्यस्य कथा रूप्यकपटे (चलच्चित्रपटे) प्रदर्शयितुं सज्जा वर्तते। चलच्चित्रस्य विषये दर्शकेषु वर्धमानकौतूहलस्य मध्ये प्रकाशितमिदं गीतं सामाजिकमाध्यमेष्वपि विशेषचर्चां प्राप्तवद्। विशेषतया एतत् फरहानअख्तरस्य नवीनसङ्गीतचिह्नस्य ‘एक्सेल म्यूजिक’ इत्यस्य अधीनं प्रकाशितं प्रथमं गीतम् अस्ति।

यूनिवर्सल म्यूजिक ग्रुप (यूएमजी) इत्यनेन सह सहभागितायां प्रकाशितं ‘दो नंबरी’ इति गीतं हरियाणवी-रैपरः धांडान्योलीवालः स्वयमेव अगायत्, अलिखत्, सङ्गीतबद्धं च अकरोत्। अनेन गीतेन सः गायकत्वेन सङ्गीतकारत्वेन च बॉलिवुड्-जगति स्वीयं पदार्पणं कृतवान्। गीतस्य दृश्यावल्यामपि धांडान्योलीवालः दृश्यते। देशीयशैल्या शक्तिशालिनः रैप्-गायनस्य च समन्वयेन सुसज्जितमिदं गीतं चलच्चित्रस्य प्रचाराभियानस्य प्रमुखाङ्गत्वेन परिगण्यते।

गुरमीतसिंहस्य निर्देशनाधीनं निर्मिते ‘मिर्जापुरः : द मूवी’ इति चलच्चित्रे पङ्कजत्रिपाठी, अलीफजलः, दिव्येन्दुः, रसिकादुग्गलः, अभिषेकबनर्जी च प्रमुखभूमिकासु दृश्यन्ते। जालधारावाहिकायाः (वेब्-सीरिज्) महत्याः सफलतायाः अनन्तरम् अस्मात् चलच्चित्रादपि दर्शकाणां महत्यः अपेक्षाः सन्ति। ‘मिर्जापुरः : द मूवी’ इदं चलच्चित्रं २०२६ तमवर्षस्य सेप्टेम्बरमासस्य चतुर्थदिने विश्वस्य विभिन्नेषु चलचित्रगृहेषु प्रदर्शितं भविष्यति।