Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 अगस्तमासः (हि.स.)।
‘पीएम सूर्यगृहः निःशुल्कविद्युत्योजना’ इति योजनया महत्त्वपूर्णा उपलब्धिः प्राप्ता। अस्याः योजनायाः अन्तर्गतं देशव्यापि ५०.०६ लक्षाधिकानि परिवाराणि अधुना गृहच्छदेषु स्थापितैः सौरविद्युत्संयन्त्रैः लाभान्वितानि भवन्ति। अस्याः योजनायाः प्रभावीकार्यान्वयनार्थं डिजिटलमञ्चस्य उपयोगः, विद्युत्वितरणकम्पनीनां समन्वयः तथा शीघ्रं अनुदानप्रदानव्यवस्था इत्यादयः उपायाः अपि स्वीकृताः सन्ति।
नवीन-नवीकरणीयऊर्जामन्त्रालयेन मङ्गलवासरे प्रकाशिते वक्तव्ये उक्तं यत् ‘पीएम सूर्यगृहः निःशुल्कविद्युत्योजना’ अन्तर्गतं देशस्य ५०.०६ लक्षाधिकेषु गृहेषु गृहच्छदेषु सौरविद्युत्संयन्त्राणि स्थापिताानि। मन्त्रालयेन उक्तं यत् योजनायाः प्रारम्भात् द्विवर्षाधिककाले एव एषा उपलब्धिः प्राप्ता, यदा पूर्वदशवर्षेषु केवलं ७.९४ लक्षगृहेषु एव गृहच्छदसौरसंयन्त्राणि स्थापितानि आसन्।
मन्त्रालयेन अवगतं यत् ७५,०२१ कोटिरूप्यकाणां परिव्यययुक्तायाः अस्याः योजनायाः कारणेन गृहच्छदसौरविद्युत्सामर्थ्यस्य विस्तारः तीव्रतया अभवत्। सांख्यिकविवरणानुसारं गतनवमासेषु संयन्त्रस्थापनस्य गतिः ३.२ गुणा वर्धिता। प्रतिदिनस्थापनसंख्या अपि २०२५ तमस्य वर्षस्य अक्टोबरमासे ५,०३८ आसीत्, सा २०२६ तमस्य वर्षस्य जुलाईमासे वर्धित्वा प्रायः १६,३२८ अभवत्। जुलैमासे २०२६ तमे वर्षे ५.०६ लक्षगृहेषु गृहच्छदसौरसंयन्त्राणि स्थापितानि, यत् अद्यावधि सर्वाधिकमासिकसङ्ख्या अस्ति।
मन्त्रालयेन उक्तं यत् योजनालाभार्थिभ्यः अद्यावधि २८,०२४ कोटिरूप्यकाणां अनुदानराशिः प्रत्यक्षलाभहस्तान्तरणप्रणाल्या (डीबीटी) प्रदत्ता। अस्य परिणामस्वरूपं प्रायः १९ लक्षपरिवाराणां विद्युत्शुल्कं शून्यम् अभवत्। वित्तीयवर्षे २०२४–२५ तमे १२ लक्षाधिकपरिवारैः स्वोपभोगात् अधिकोत्पादिता विद्युत् विक्रयणेन समष्टिरूपेण ४२१ कोटिरूप्यकाणि अर्जितानि, यत् प्रतिपरिवारं वार्षिकरूपेण प्रायः ३,५०० रूप्यकाणाम् आयस्य समतुल्यम् अस्ति।
मन्त्रालयस्य अनुसारं रियायतीदरेण ऋणसुविधा २१.८७ लक्ष आवेदनकर्तृभ्यः अनुमोदिता, तेषु १७.५ लक्ष स्थापनानि ऋणसहाय्येन सम्पन्नानि। अस्याः योजनायाः अन्तर्गतं अद्यावधि १४.८ गीगावाट् गृहच्छदसौरविद्युत्सामर्थ्यं स्थापितम्। तदतिरिक्तं ३४,२१९ पञ्जीकृतविक्रेतॄणां जालकं विकसितम्, तेषु २९,४६९ सक्रियाः सन्ति तथा २.३२ लक्षाधिकजनाः प्रशिक्षिताः।
सूर्यशक्त्या पञ्चाशल्लक्षाधिकभारतीयगृहेषु विद्युत्सुविधा
केन्द्रीयनवीन-नवीकरणीयऊर्जामन्त्री प्रह्लादजोशी ‘एक्स्’ इति सामाजिकमाध्यमे प्रकाशिते सन्देशे अवदत् यत् ‘पीएम सूर्यगृहः निःशुल्कविद्युत्योजना’ लक्षशः परिवाराणां कृते स्वच्छऊर्जां यथार्थतां नीतवती। तेन उक्तं यत् १९ लक्षाधिकगृहेषु विद्युत्शुल्कं शून्यम् आगच्छति। एषा योजना नागरिकान् सशक्तान् करोति तथा भारतं स्वच्छ-ऊर्जासुरक्षितभविष्यस्य दिशि तीव्रगत्या नयति।
प्रह्लादजोशी अवदत् यत् शासकीयभवनानां गृहच्छदेषु सौरविद्युत्संयन्त्रस्थापनस्य अभियानस्य अन्तर्गतं केन्द्रराज्यसर्वकाराभ्यां चिह्नितेषु १.०६ लक्षभवनेषु संयन्त्राणि स्थापितानि। तेषु केन्द्रसर्वकारस्य २५ सहस्राधिकेषु तथा राज्यसर्वकारस्य ८१ सहस्राधिकेषु भवनेषु गृहच्छदसौरविद्युत्संयन्त्रैः विद्युत्पूरणं क्रियते, येन भारतस्य स्वच्छं, स्थायि, ऊर्जासुरक्षितं च भविष्यं अधिकं सुदृढं भवति।
---------------