आस्थायाः वर्णः - 25 वर्षेभ्योऽनुपमा सेवां ददाति ‘मद्रास कांवड़ संघः
भागलपुरम्, 04 अगस्तमासः (हि.स.)। विश्वप्रसिद्धे राजकीयश्रावणीमेलायाम् आस्थायाः विविधरूपाणि प्रतिदिनं दृश्यन्ते। सुलतानगञ्जात् देवघरपर्यन्तं विस्तीर्णे पञ्चाधिकशतकिलोमीटरात्मक (१०५ किलोमीटर) कांवडियापथे लक्षशः श्रद्धालवः “हर-हर महादेव” इति जयघोषं
कांवरियों की सेवा करते संघ के सदस्य


भागलपुरम्, 04 अगस्तमासः (हि.स.)।

विश्वप्रसिद्धे राजकीयश्रावणीमेलायाम् आस्थायाः विविधरूपाणि प्रतिदिनं दृश्यन्ते। सुलतानगञ्जात् देवघरपर्यन्तं विस्तीर्णे पञ्चाधिकशतकिलोमीटरात्मक (१०५ किलोमीटर) कांवडियापथे लक्षशः श्रद्धालवः “हर-हर महादेव” इति जयघोषं कुर्वन्तः निरन्तरम् अग्रे गच्छन्ति।

अस्याः पवित्रयात्रायाः सुगमसम्पादनार्थं जिलाप्रशासनेन, राज्यसर्वकारेण, पर्यटनविभागेन च समुचितव्यवस्थाः कृताः सन्ति। किन्तु अस्य मेलायाः वास्तविकसौन्दर्यं ते शिवभक्ताः सन्ति, ये स्वयम् पदयात्रां कुर्वन्तः मार्गमध्ये अन्येषां कांवडियाणां निःशुल्कसेवां कुर्वन्ति। एतादृशमेव अद्वितीयम् अनुकरणीयं च समूहं ‘मद्रास-कांवड-सङ्घः’ इति प्रसिद्धम्। अयं सङ्घः गतपञ्चविंशतिवर्षेभ्यः अजगैबीनाथगङ्गाधामात् बाबाधामपर्यन्तं कांवडियापथे श्रद्धालूनां सेवायां निरन्तरं समर्पितः अस्ति।

मद्रास-कांवड-सङ्घस्य पदाधिकाऱिणः अवदन् यत् अस्मिन् वर्षे तेषां समूहे मद्रास (चेन्नई), कर्नाटक, बेंगलुरु, राजस्थानादिभ्यः देशस्य विविधराज्येभ्यः प्रायः शतं स्त्री-पुरुषभक्ताः समागताः। अयं समूहः सामान्यकांवडियाणामिव पदयात्रां करोति, किन्तु तेषां यात्रा अष्टदिनेषु सम्पद्यते। अस्य कारणं यत् ते मार्गे मार्गे विरम्य देशविदेशेभ्यः आगतानां सर्वेषां शिवभक्तानां निःशुल्कसेवां कुर्वन्तः शनैः शनैः अग्रे गच्छन्ति।

पञ्चाधिकशतकिलोमीटरात्मिकायाः अस्याः कठिनयात्रायाः समये मद्रास-कांवड-सङ्घस्य सदस्याः कांवडियाणां श्रमपरिहारार्थं निःशुल्कं शीतलं जलम्, शर्बतम्, शिकञ्जीपेयम्, फलानि तथा शुद्धभोजनं वितरन्ति।

प्रखरातपे उष्णतायां च अस्य सङ्घस्य प्रदत्ता राहतसामग्री कांवडियाणां कृते वरदानतुल्या सिद्धा भवति। सङ्घस्य सर्वे यात्रिणः अस्मिन् वर्षे जिलाप्रशासनेन राज्यसर्वकारेण च कांवडियापथे कृता दीपव्यवस्था, जलव्यवस्था, सुरक्षाव्यवस्था च अत्युत्तमा इति प्रशंसितवन्तः।

एतस्मिन्नेव अवसरे कांवडयात्रायां सम्मिलितः कर्नाटकप्रदेशात् आगतः एकः ‘कन्नड-बम्’ स्वकीयेन विशिष्टेन प्रकारेण सर्वेषाम् आकर्षणस्य केन्द्रम् अभवत्। सः कन्नडभाषया भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रशंसाम् अकरोत्।

श्रद्धालुः अवदत्— “देशाय मोदी-महोदयसदृशः प्रधानमन्त्रैव आवश्यकः। तेन राष्ट्रहिताय बहूनि महत्त्वपूर्णकार्याणि सम्पन्नानि, भविष्येऽपि राष्ट्रस्य हितार्थं बहूनि महानि कार्याणि करणीयानि सन्ति।”

अयं कांवड-सङ्घः अस्य सत्यस्य प्रत्यक्षं प्रमाणम् अस्ति यत् भगवानः भोलेनाथस्य सन्निधौ भाषा, प्रदेशः, राज्यभेदः च सर्वे लयं यान्ति। सम्पूर्णा कांवडयात्रा “वसुधैव कुटुम्बकम्” इति भारतीयदर्शनस्य भावेन समन्विता भवति।

---------------