मुख्यमंत्री लोक कलाकार प्रोत्साहन योजनायै-2026आवेदनम् आमंत्रितम्
चयनित कलाकारेभ्यो मेलिष्यति प्रतिवर्ष 12 तः24 सहस्रं रुप्यकाणि यावत् प्रोत्साहन राशिः रायपुरम् 05 अगस्तमासः (हि.स.)। छत्तीसगढस्य समृद्धायाः लोककलायाः सांस्कृतिकविरासतस्य च संरक्षणं संवर्धनं कलाकारेभ्यः आर्थिकसम्बलप्रदानं च उद्दिश्य संस्कृतिरा
मुख्यमंत्री विष्णुदेव साय फाइल फाेटाे


चयनित कलाकारेभ्यो मेलिष्यति प्रतिवर्ष 12 तः24 सहस्रं रुप्यकाणि यावत् प्रोत्साहन राशिः

रायपुरम् 05 अगस्तमासः (हि.स.)।

छत्तीसगढस्य समृद्धायाः लोककलायाः सांस्कृतिकविरासतस्य च संरक्षणं संवर्धनं कलाकारेभ्यः आर्थिकसम्बलप्रदानं च उद्दिश्य संस्कृतिराजभाषासञ्चालनालयेन मुख्यमन्त्रिलोककलाकारप्रोत्साहनयोजनायाः २०२६ अन्तर्गतं प्रदेशस्य लोककलाकारेभ्यः प्रविष्टयः आमन्त्रिताः सन्ति। अस्याः योजनायाः उद्देश्यं पारम्परिकलोककलानां संरक्षणं प्रोत्साहनं च, कलाकाराणां सम्मानवृद्धिः तथा कलादलानां सततविकासाय नूतनगतिप्रदानं च अस्ति।

योजनायाः अन्तर्गतं नृत्यसंगीत, लोकनाट्य, लोकगाथा, छत्तीसगढीगीतकाराः, वाद्ययन्त्रवादकाः, शिल्पकलाकाराः, छत्तीसगढीयपाककला (पारम्परिकव्यञ्जनानि) तथा छत्तीसगढीयसौन्दर्यकला (शृङ्गारः) इत्येतेषु सम्बद्धाः कलाकाराः आवेदनं कर्तुं शक्नुवन्ति। आवेदनपत्राणि निर्धारितप्रारूपेण पञ्जीकृतडाकमाध्यमेन प्रेषणीयानि। आवेदनप्रपत्राणि विभागस्य जालपुटे www.cgculture.in उपलब्धानि सन्ति तथा संस्कृतिराजभाषासञ्चालनालयस्य नवरायपुरस्थितकार्यालयात् अपि प्राप्यन्ते। योजनायाः अन्तर्गतं पात्रकलाकाराणां चिन्हारीपोर्टले पञ्जीकरणम् अनिवार्यं भविष्यति। चयनितेभ्यः कलाकारेभ्यः प्रतिवर्षं न्यूनतमं द्वादशसहस्ररूप्यकाणि अधिकतमं चतुर्विंशतिसहस्ररूप्यकाणि यावत् प्रोत्साहनराशिः ईभुगतानमाध्यमेन प्रदास्यते। एषा राशिः एकस्मिन् वित्तीयवर्षे एकवारमेव प्रदास्यते।

योजनायाः लाभः केवलं तेषामेव कलाकाराणां भविष्यति येषां सर्वस्रोतोभ्यः वार्षिकमायं षण्णवतिसहस्ररूप्यकाधिकं न भवति। एतदर्थं समर्थप्राधिकरणेन निर्गतं आयप्रमाणपत्रं संलग्नं करणीयम्। आवेदनपत्रेण सह बैङ्कखातस्य विवरणं, आईएफएससी कोड तथा पैनकार्डस्य छायाप्रतिः अपि समर्पणीया भविष्यति।

प्रविष्टिप्रेषणस्य पता— सञ्चालकः, संस्कृतिराजभाषासञ्चालनालयः, छत्तीसगढगृहनिर्माणमण्डलम्, व्यावसायिकपरिसरः, द्वितीयतलम्, सेक्टर २७, नवरायपुरम्, अटलनगरम् (छत्तीसगढः) – ४९२०१८।

प्रविष्टीनां प्राप्तेः अन्तिमतिथिः ३१ अगस्त २०२६ इति निर्धारिता अस्ति। आवेदनप्रेषणसमये लिफाफस्य उपरि मुख्यमन्त्रिलोककलाकारप्रोत्साहनयोजना-२०२६ इति स्पष्टरूपेण अङ्कनीयम्। प्राप्तानां प्रविष्टीनां परीक्षणं समित्या क्रियते तथा समितेः निर्णयः अन्तिमः मान्यश्च भविष्यति।

मुख्यमन्त्रिलोककलाकारप्रोत्साहनयोजना प्रदेशस्य समृद्धलोककलापरम्पराणां संरक्षणे, कलाकाराणां सम्माने आर्थिकसशक्तीकरणे च महत्त्वपूर्णा पहल अस्ति। अस्याः योजनायाः माध्यमेन लोककलाकारेभ्यः न केवलम् आर्थिकसहयोगः भविष्यति, अपितु स्वकलायाः व्यापकपरिचयप्राप्तये सांस्कृतिकविरासतस्य नूतनसंततिपर्यन्तं प्रसारणाय च उत्तमावसरः अपि प्राप्स्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani