योगेन प्राकृतिकचिकित्सया स्वस्थ जीवनस्य संदेशः, 200 छात्र-छात्राः जागरिताः
औरैया, 05 अगस्तमासः (हि. स.)। उत्तरप्रदेशस्य औरैयाजनपदे राष्ट्रीयआयुषमिशनस्य अन्तर्गतं सञ्चालितेन योगवैलनेसकेन्द्रेण राजकीयहोम्योपैथिकचिकित्सालयस्य तर्फेण बुधवासरे नगरस्य प्रेमादेवीजूनियरहाईस्कूल, ठठराईमोहल्लायां योगप्राकृतिकचिकित्साजनजागरूकताका
फ़ोटो। योग सीखते बच्चे


औरैया, 05 अगस्तमासः (हि. स.)।

उत्तरप्रदेशस्य औरैयाजनपदे राष्ट्रीयआयुषमिशनस्य अन्तर्गतं सञ्चालितेन योगवैलनेसकेन्द्रेण राजकीयहोम्योपैथिकचिकित्सालयस्य तर्फेण बुधवासरे नगरस्य प्रेमादेवीजूनियरहाईस्कूल, ठठराईमोहल्लायां योगप्राकृतिकचिकित्साजनजागरूकताकार्यक्रमः आयोजितः। अयं कार्यक्रमः जिलाधिकारी बृजेशकुमारस्य निर्देशनम् अनुसृत्य जिलाहोम्योपैथिकचिकित्साधिकारी डॉ. निधिशुक्ला, प्रभारीचिकित्साधिकारी डॉ. परवीन तथा जिलाकार्यक्रमप्रबन्धकः (आयुष) गौरवपाण्डेयस्य मार्गदर्शने सम्पन्नः।

कार्यक्रमे योगप्रशिक्षकः योगेन्द्रकुमारमिश्रः प्रायः द्विशतं छात्रछात्राः विद्यालयपरिवारं च स्वस्थजीवनशैलीम् अङ्गीकर्तुं प्रेरितवान्। तेन ऋतुपरिवर्तनकाले सम्भवन्तीभ्यः सामान्यव्याधिभ्यः यथा प्रतिश्यायः, कासः तथा ज्वरः इत्यादिभ्यः संरक्षणस्य प्राकृतिकोपायानां विषये सूचना प्रदत्ता। सः अपि अवदत् यत् सन्तुलितदिनचर्यया, सम्यक् आहारेण, नियमितयोगाभ्यासेन तथा प्राकृतिकचिकित्सया अनावश्यकव्ययं विना अपि स्वस्थजीवनं यापयितुं शक्यते।

योगप्रशिक्षकेण विद्यार्थिनः मिथ्याहारस्य अव्यवस्थितजीवनशैल्याश्च दुष्प्रभावान् प्रति अपि जागरूकाः कृताः। विद्यालयस्य शिक्षिकाभ्यः अपि दैनिकजीवने योगं प्राकृतिकचिकित्सां च अवलम्ब्य स्वस्य स्वास्थ्यरक्षणस्य सरलोपायाः कथिताः। कार्यक्रमस्य अन्ते विद्यार्थिभिः नियमितयोगाभ्यासं स्वस्थजीवनशैलीपालनं च कर्तुं संकल्पः गृहीतः।

---------------

Hindusthan Samachar / Dheeraj Maithani